Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh

View full book text
Previous | Next

Page 376
________________ . वीरस्तुतिः। -- - दाभ्यन्तरीयामेवं पूर्व समाश्रयेत् । प्रयासे चैकदैवान, शान्तिः सन्दृश्यते रहः । ॥ १४७ ॥ आभ्यन्तरीयाऽऽनन्दस्य, स्यादृद्धिश्चोत्तरोत्तरा। मिलित्वाऽहर्निशं चैकविंशत्याख्यसहस्रकम् ॥ १४८ ॥ षट् शतं च तथा शश्वच्छासोवासश्च जायते । तेषूपयोगमन्तरा, श्वासो नैकोऽपि हापयेत् ॥ १४९ ॥ 'सोह' जापजपे जाते, वृत्ति सस्थीयते खयम् । तत्र श्वासे विनाऽऽयासं, सहसैवं विनिश्चया ॥ १५० ॥ श्वासकस्यात्मनोत्थ च, ध्याने सिद्धे सुसाधकः । हृदयस्थे मध्यगता, वृत्तिं संस्थापयेन्मुहुः ॥ १५१ ॥ प्रयासोऽपि प्रकर्तव्य, इति योगविदां क्रिया। ज्ञातव्या । योगिवृन्दैश्च, यत. स्यादचला क्रिया ॥ १५२ ॥ स्थिरैवं स्याद्यदा वृत्तिहृदयस्थाऽप्यलौकिकम् । शान्तस्रोतः प्रवहति, हृदब्जेभ्य समन्ततः ॥ १५३ ॥ यस्य । शान्तिमयस्याशु, साधकस्यावसानतः । इतोपि पूर्व कस्यापि, सन्निधावनुभवस्तथा। न जातश्च तथा ध्यानं, सिद्धं वा हृद्गतं पुनः ॥ १५४ ॥ नाभ्येकदेशेऽपि विधारणीया, वृत्तिश्च तत्रत्यसुसिद्धिभावे । जातः पुनस्तदृदये च नीत्वा, कण्ठस्थमध्येऽपि तथा समाप्य, सस्थापयेनैव विचारणात्र ॥ १५५ ॥ नाभ्या हृदिस्थे च सुकण्ठगे वा, ततस्त्रिकुट्या परिधारणीया। वृत्तिश्च सर्वत्र सुसाधकेन ( सस्थापनीया ), ततश्च शान्तिर्मनसत्रिलोक्याम् ॥ १५६ ॥ ध्याने च सिद्धे स्थिरवृत्तिरेवं, जाता तदा तत्र मसूरसूपवत् । स्याद्विन्दुसाक्षात्करणं ततश्च, तद्विन्दुतेजोऽद्य प्रकाशते च ॥ १५७ ॥ तद्दर्शने साधकयोगवेत्तुरपारमानन्दसुखं प्रयाति । ततश्च तद्विन्दु. प्रदर्शनेन, योगेन योगामृतसेवकानाम् ॥ १५८ ॥ तदा कपालेऽखिलविश्वदर्शनं, सञ्जायते कारणमस्ति तत्र । यत्र स्थिते वर्तुलविन्दुदर्शनं, योगी जन. पश्यति सर्वदेत्थम् ॥ १५९ ॥ तदा त्रिकुट्या शशिलाञ्छनेन, द्वारैव विन्दोरवलोकनं स्यात् । तद्दर्शनानन्तरसाधकाना, भवल्यपूर्वा किल बोधिलब्धिः ॥ १६० ॥ जनेर्जरामृत्यु विनाशनस्य, भवेत्सुकल्पास्थितिरत्रवोध्या। विन्दोश्च सन्दर्शनमेव यत्र, श्रीशङ्करानन्दतृतीयनेत्रम् ॥१६१ ॥ आत्माऽखिल. शंकर एव नान्यस्तत्सदृशं नेत्रद्वयं यतोऽस्ति । विदोश्च सन्दर्शनरूपमुग्रं, ज्ञानात्मक चक्षुरियं तृतीयम् ॥ १६२ ॥ जाते सुविन्दोरवलोकने च, मृत्योर्भयं नास्ति सुसाधकानाम् । तथैव ससशयशल्यनाशो, भवेच्च योगामृतसेवकानाम् ॥ १६३ ॥ एतस्य बोधार्थमिदं वदन्ति, ह्युद्धाटनं शम्भुतृतीयनेत्रम् । तदा जगत्सगयशल्यरूपं, लयं व्रजेत्सर्वमिदं प्रधाय॑म् ।। १६४ ॥ विन्दोस्त्रिकुट्यामवलोकनान्तर, यथा यथा साधकसज्जनानाम् ॥ स्यान्चेत्प्रकाशो हि विशेषतो मुदा, तथा तथा विन्दुविशेषता च, विकाशते सर्वमयी विदां

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445