Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh

View full book text
Previous | Next

Page 378
________________ ३५२ - - - वीरस्तुतिः।' लौकिकानन्दमेव च ॥ १८५ ॥ योगिनोऽनुभवन्तीत्थं, वर्द्धते तदहर्निशम् । यत्र ' योगात्मनो लीना, भवन्त्यधिकतो मुहुः ॥ १८६ ॥ अपूर्वाऽऽनन्दसन्दोहाऽनुभवो वर्द्धते स्वयम् । आशरीरे (अखिले) स्वयं तस्य, प्रसारो जायतेऽसकृत ॥ १८७ ॥ अर्थादानन्दसन्दोहः, स्वयं सर्वाङ्गकेऽसकृत् । अलौकिकाऽऽनन्दरूपं, खयं स्फूर्त्या विभाव्यते ॥ १८८ ॥ अवस्थयाऽनया यो हि, रूपं साधकसंज्ञकम् । । विहाय योगी सिद्धश्च, विदेहोऽपि तथा पुन ॥ १८९ ॥ महात्मा जीवनमुक्तः, । कथ्यते योगवित्तमैः । महात्मनश्चेदृशस्य, देहादृष्टिर्यदा स्थले ॥ १९० ॥ यत्र । यत्र प्रसरति, तत्र तत्राऽप्यलौकिकम् । दिव्यानन्दानुभवनं, करोति साधकोत्तमः । ॥ १९१ ॥ जनपदे जले स्थले, तथा वसुमता स्थले । राजस्थले पशुमये, गग- नादिसुखस्थले ॥. १९२ ॥ एतत्स्थानेषु साधूनां, दृष्टिाति महात्मनाम् । तत्र तत्र स्थले नित्यमानन्दानुभवात्मकम् ॥ १९३ ॥ सर्वत्राऽमेददृष्ट्या च, तथाऽ. नुभवतः सदा । द्वैतभावस्य भ्रान्तेश्च, जातेऽभावे स कथ्यते ॥ १९४ ॥ तादृशो । वीतरागश्च, योगी भवति निश्चलः । कृतकृत्योऽपि सिद्धश्च, जायत आत्मवत्सलः ॥ १९५॥ योगिनामीदृशाना च, दर्शनं लोकपावनम् । कुरुते सततं योगादगे; चैव निशम्यताम् ॥ १९६ ॥ यथाऽभ्यन्तरवृत्तीना, द्वारेणापि प्रयोगके । सम्बन्धे ज्ञायते तद्वदृष्ट्या स वाह्यभागत ॥ १९७ ॥ नामेरुपरिभागे च, स्थापनीयो विशेषत. । यदा तत्र प्रयासे तु, चक्षुषो नाभिमध्यगे ॥ १९८ ॥ अत्युज्वलतमं तेजो, दृश्यते चानुरूपत । तदा नाभिगता दृष्टिं, विहाय वक्षसोर्मुहुः । स्थापनीया प्रयत्नेन, मध्यभागे सुभावत. ॥ १९९ ॥ तत्तेजो नासिकारन्धे, स्थापनीयं च ध्यानतः । नासिकारात्रिकुट्यां तु, ततो भ्रमरगहरे ॥ २०० ॥ अजरामरचक्रस्य, सिद्धा. सिद्धशिलासु च । ततोऽप्यनुभवे गच्छेत्तन्मार्गे च प्रवर्तते ॥२०१॥ भक्केरेवं महत्वं च, साधनं जन्यते परम् । भक्त्या चोत्पद्यते प्रेम, तेनैवात्मा प्रदृश्यते ॥ २०२ ॥ कस्यचिच्छास्त्रतत्वस्थ लोकोपरि विचारणम् । कुर्वन्कुर्वश्च गम्भीराशयं . चोत्तीर्यते पुन ॥२०२ ॥ तद्वाराग्रतश्चापीह वर्धते तन्निशामय । एकास्ति रीतिरीदृशी, यन पद्मासने स्थित. ॥ २०३ ॥ विचारयति यत्किञ्चित्तटे स्थित्वा प्रपा श्यतु । परन्तु नावरोधव्यो, विचारो योगसाधने ॥ २०४ ॥ अभ्यासवलमासाद्य, खयं शान्तिर्भवेत्पुन. 1. विचारधारा चात्यन्तमेकदैव प्रशाम्यति ॥ २०५॥ विचारशान्तितः पश्चात्साधकानामलौकिकम् । आनन्दानुभवो याति, ततोऽखिल भवोपरि ॥ २०६ ॥ प्रेमदृष्टिविशाला स्याद्भावं सर्वत्र सदृशम् । स्थापयत्येवं योगात्मा,

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445