________________
३५२
- - - वीरस्तुतिः।'
लौकिकानन्दमेव च ॥ १८५ ॥ योगिनोऽनुभवन्तीत्थं, वर्द्धते तदहर्निशम् । यत्र ' योगात्मनो लीना, भवन्त्यधिकतो मुहुः ॥ १८६ ॥ अपूर्वाऽऽनन्दसन्दोहाऽनुभवो वर्द्धते स्वयम् । आशरीरे (अखिले) स्वयं तस्य, प्रसारो जायतेऽसकृत ॥ १८७ ॥ अर्थादानन्दसन्दोहः, स्वयं सर्वाङ्गकेऽसकृत् । अलौकिकाऽऽनन्दरूपं,
खयं स्फूर्त्या विभाव्यते ॥ १८८ ॥ अवस्थयाऽनया यो हि, रूपं साधकसंज्ञकम् । । विहाय योगी सिद्धश्च, विदेहोऽपि तथा पुन ॥ १८९ ॥ महात्मा जीवनमुक्तः, । कथ्यते योगवित्तमैः । महात्मनश्चेदृशस्य, देहादृष्टिर्यदा स्थले ॥ १९० ॥ यत्र । यत्र प्रसरति, तत्र तत्राऽप्यलौकिकम् । दिव्यानन्दानुभवनं, करोति साधकोत्तमः । ॥ १९१ ॥ जनपदे जले स्थले, तथा वसुमता स्थले । राजस्थले पशुमये, गग- नादिसुखस्थले ॥. १९२ ॥ एतत्स्थानेषु साधूनां, दृष्टिाति महात्मनाम् । तत्र तत्र स्थले नित्यमानन्दानुभवात्मकम् ॥ १९३ ॥ सर्वत्राऽमेददृष्ट्या च, तथाऽ. नुभवतः सदा । द्वैतभावस्य भ्रान्तेश्च, जातेऽभावे स कथ्यते ॥ १९४ ॥ तादृशो । वीतरागश्च, योगी भवति निश्चलः । कृतकृत्योऽपि सिद्धश्च, जायत आत्मवत्सलः ॥ १९५॥ योगिनामीदृशाना च, दर्शनं लोकपावनम् । कुरुते सततं योगादगे; चैव निशम्यताम् ॥ १९६ ॥ यथाऽभ्यन्तरवृत्तीना, द्वारेणापि प्रयोगके । सम्बन्धे ज्ञायते तद्वदृष्ट्या स वाह्यभागत ॥ १९७ ॥ नामेरुपरिभागे च, स्थापनीयो विशेषत. । यदा तत्र प्रयासे तु, चक्षुषो नाभिमध्यगे ॥ १९८ ॥ अत्युज्वलतमं तेजो, दृश्यते चानुरूपत । तदा नाभिगता दृष्टिं, विहाय वक्षसोर्मुहुः । स्थापनीया प्रयत्नेन, मध्यभागे सुभावत. ॥ १९९ ॥ तत्तेजो नासिकारन्धे, स्थापनीयं च ध्यानतः । नासिकारात्रिकुट्यां तु, ततो भ्रमरगहरे ॥ २०० ॥ अजरामरचक्रस्य, सिद्धा. सिद्धशिलासु च । ततोऽप्यनुभवे गच्छेत्तन्मार्गे च प्रवर्तते ॥२०१॥ भक्केरेवं महत्वं च, साधनं जन्यते परम् । भक्त्या चोत्पद्यते प्रेम, तेनैवात्मा प्रदृश्यते ॥ २०२ ॥ कस्यचिच्छास्त्रतत्वस्थ लोकोपरि विचारणम् । कुर्वन्कुर्वश्च गम्भीराशयं . चोत्तीर्यते पुन ॥२०२ ॥ तद्वाराग्रतश्चापीह वर्धते तन्निशामय । एकास्ति रीतिरीदृशी, यन पद्मासने स्थित. ॥ २०३ ॥ विचारयति यत्किञ्चित्तटे स्थित्वा प्रपा श्यतु । परन्तु नावरोधव्यो, विचारो योगसाधने ॥ २०४ ॥ अभ्यासवलमासाद्य, खयं शान्तिर्भवेत्पुन. 1. विचारधारा चात्यन्तमेकदैव प्रशाम्यति ॥ २०५॥ विचारशान्तितः पश्चात्साधकानामलौकिकम् । आनन्दानुभवो याति, ततोऽखिल भवोपरि ॥ २०६ ॥ प्रेमदृष्टिविशाला स्याद्भावं सर्वत्र सदृशम् । स्थापयत्येवं योगात्मा,