________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
३५१
-
---
-
-
मुदे ॥ १६५ ॥ अन्ते च विन्दावतिलीनभावं, ब्रजेच्च सिद्धं प्रतिभाति योगी। शान्तौ च नादानुभवं च याति, विन्दोरपेक्षा तु विशेषनादे ॥ १६६ ॥ श्रीविन्दोरवलोकनेऽनुदिवस जाते ततश्चैधते, शक्तिोगधिया ततश्च श्रवणं नादस्य जजत्यदे। पश्चादात्मसुखं खयं विलसति श्रीसाधकाना ततो, वैवं शून्यगुहा निवद्धमनसां मुक्तिः कराब्जे स्थिता ॥ १६७ ॥ नादोऽनेकविधोऽस्ति शास्त्रविहित. संश्रूयते योगिभिर्घष्टानादसमस्तथाखि निनद शहस्य वीणारवः । वेणूत्तालरवश्च चक्रसदृशं शाादि शब्दस्तथा, एवं विन्द्ववलोकनादनुमुहुर्नाद समुत्पद्यते ॥१६॥ योगामृतस्य पानेन, नादस्य श्रवणात्पुन । विन्दुदर्शनतो योगी, जरामरणवर्जित. ॥ १६९ ॥ नादानन्दे समुत्पन्ने, विन्दुर्गाणतमो भवेत् । नादस्य चाविशेषेण, जायते श्रवणं मुहुः ॥ १७० ॥ घनगर्जनतोऽन्यूनं, श्रूयते गर्जनं बहु । दिव्यनादप्रभावे णाऽप्यन्ते योगी प्रलीयते ॥ १७१॥ नादे ध्वन्यनुभवस्य, सर्वाधिक्येन वर्धनम् । तदा स्यात्साधकजनो, भ्रमणे चलने तथा ॥ १७२ ॥ उपविश्यासने चैवं, स्थित सर्वक्रियासु च । नादानुभवमेवास्ति, नान्यो भाति विशेषतः ॥ १७३ ॥ नादानुभवतो लोके, समीतस्य प्रचारक । योगिभिश्च कृतोऽजन, यथा नाद. प्रियंकर ॥ १७४ ॥ मुञ्चन्ति रोदनं वाला., क्रोध मुम्बन्ति पन्नगा । मृगा प्राणान् विमुश्यन्ति, नास्ति नादसमो रसः ॥ १७५ ॥ साधकाना तथा लोके, सङ्गीतोऽतिप्रियकर. । अत सङ्गीतगानेन, मनोधृत्वा सदैकताम् । साधक प्रव्रजेच्चाने, शनैनूनं प्रयासत ॥ १७६ ॥ वस्तुतो नादो वाह्योऽभूत्सङ्गीतस्य प्रसाधने । वाह्यनादस्य द्वारेणाऽभ्यन्तरो नादमेलनात् ॥ प्राप्तुं च शक्यते योगी, नात्र कार्य विचारणम् । यदा साधकजनो नादैर्वृद्धिमेति तथाग्रत ॥ १७८ ॥ तदा तस्य च यत्राऽभूनादोऽनुभवमेव हि । तदा भ्रमरगुहाया तु, शङ्खाकार प्रतीयते ॥१७९॥ तदूर्व प्रेमभावेन, चैक शुद्ध प्रदृश्यते । तस्य शिखरमध्ये तु, महानेको विराजते ॥ १८० ॥ ततश्थोई पश्येद्रमरसुगुहा यन रवित , शशाङ्कादग्नेोऽत्यधिक बहुतेजोऽस्ति विततम् । तदा विन्दो दश्रवणविलय यात्यनुदिनं, सदा योगी लीनो भवति नितरा यत्र सुखत ॥ १८१॥ तस्य चानुभवं नित्यं, कुर्याद्योगी विशेषत । प्रकाशकपदार्थोऽय, वर्तुलाकार इष्यते ॥ १८२ ॥ अघो मुखातपत्रेण, समं सम्भ्राजते यत । छत्राकारमिदं तद्वत्सहस्रदलसवृतम् ॥ १८३ ॥ सिद्धिशिलारूपकेऽनाऽजरामरणचक्रके । शिरोऽप्रभागलोकस्य, चाग्रभागोपरिस्थितम् ॥ १८४॥ अजरामरचक्रेऽत्र, वृत्तिलीनादनन्तरम् । साधकानामखण्ड चाऽ.
-