________________
. वीरस्तुतिः। -- - दाभ्यन्तरीयामेवं पूर्व समाश्रयेत् । प्रयासे चैकदैवान, शान्तिः सन्दृश्यते रहः । ॥ १४७ ॥ आभ्यन्तरीयाऽऽनन्दस्य, स्यादृद्धिश्चोत्तरोत्तरा। मिलित्वाऽहर्निशं चैकविंशत्याख्यसहस्रकम् ॥ १४८ ॥ षट् शतं च तथा शश्वच्छासोवासश्च जायते । तेषूपयोगमन्तरा, श्वासो नैकोऽपि हापयेत् ॥ १४९ ॥ 'सोह' जापजपे जाते, वृत्ति सस्थीयते खयम् । तत्र श्वासे विनाऽऽयासं, सहसैवं विनिश्चया ॥ १५० ॥ श्वासकस्यात्मनोत्थ च, ध्याने सिद्धे सुसाधकः । हृदयस्थे मध्यगता, वृत्तिं संस्थापयेन्मुहुः ॥ १५१ ॥ प्रयासोऽपि प्रकर्तव्य, इति योगविदां क्रिया। ज्ञातव्या । योगिवृन्दैश्च, यत. स्यादचला क्रिया ॥ १५२ ॥ स्थिरैवं स्याद्यदा वृत्तिहृदयस्थाऽप्यलौकिकम् । शान्तस्रोतः प्रवहति, हृदब्जेभ्य समन्ततः ॥ १५३ ॥ यस्य । शान्तिमयस्याशु, साधकस्यावसानतः । इतोपि पूर्व कस्यापि, सन्निधावनुभवस्तथा। न जातश्च तथा ध्यानं, सिद्धं वा हृद्गतं पुनः ॥ १५४ ॥ नाभ्येकदेशेऽपि विधारणीया, वृत्तिश्च तत्रत्यसुसिद्धिभावे । जातः पुनस्तदृदये च नीत्वा, कण्ठस्थमध्येऽपि तथा समाप्य, सस्थापयेनैव विचारणात्र ॥ १५५ ॥ नाभ्या हृदिस्थे च सुकण्ठगे वा, ततस्त्रिकुट्या परिधारणीया। वृत्तिश्च सर्वत्र सुसाधकेन ( सस्थापनीया ), ततश्च शान्तिर्मनसत्रिलोक्याम् ॥ १५६ ॥ ध्याने च सिद्धे स्थिरवृत्तिरेवं, जाता तदा तत्र मसूरसूपवत् । स्याद्विन्दुसाक्षात्करणं ततश्च, तद्विन्दुतेजोऽद्य प्रकाशते च ॥ १५७ ॥ तद्दर्शने साधकयोगवेत्तुरपारमानन्दसुखं प्रयाति । ततश्च तद्विन्दु. प्रदर्शनेन, योगेन योगामृतसेवकानाम् ॥ १५८ ॥ तदा कपालेऽखिलविश्वदर्शनं, सञ्जायते कारणमस्ति तत्र । यत्र स्थिते वर्तुलविन्दुदर्शनं, योगी जन. पश्यति सर्वदेत्थम् ॥ १५९ ॥ तदा त्रिकुट्या शशिलाञ्छनेन, द्वारैव विन्दोरवलोकनं स्यात् । तद्दर्शनानन्तरसाधकाना, भवल्यपूर्वा किल बोधिलब्धिः ॥ १६० ॥ जनेर्जरामृत्यु विनाशनस्य, भवेत्सुकल्पास्थितिरत्रवोध्या। विन्दोश्च सन्दर्शनमेव यत्र, श्रीशङ्करानन्दतृतीयनेत्रम् ॥१६१ ॥ आत्माऽखिल. शंकर एव नान्यस्तत्सदृशं नेत्रद्वयं यतोऽस्ति । विदोश्च सन्दर्शनरूपमुग्रं, ज्ञानात्मक चक्षुरियं तृतीयम् ॥ १६२ ॥ जाते सुविन्दोरवलोकने च, मृत्योर्भयं नास्ति सुसाधकानाम् । तथैव ससशयशल्यनाशो, भवेच्च योगामृतसेवकानाम् ॥ १६३ ॥ एतस्य बोधार्थमिदं वदन्ति, ह्युद्धाटनं शम्भुतृतीयनेत्रम् । तदा जगत्सगयशल्यरूपं, लयं व्रजेत्सर्वमिदं प्रधाय॑म् ।। १६४ ॥ विन्दोस्त्रिकुट्यामवलोकनान्तर, यथा यथा साधकसज्जनानाम् ॥ स्यान्चेत्प्रकाशो हि विशेषतो मुदा, तथा तथा विन्दुविशेषता च, विकाशते सर्वमयी विदां