Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh

View full book text
Previous | Next

Page 367
________________ संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३४१ तन्मुक्तावसङ्ख्यानां, प्राणिनां प्रेषके पतौ ॥ ५१२ ॥ मुक्ती श्रियः समग्राया, लक्षगेति समन्वये । निरूपणे तथाऽवश्यं, यनः कार्यो विशेषतः ॥ ५१३ ॥ यश्च 'सद्धपतेश्चापि, वसुसम्पत्तितो *रहः । सम्पत्तिमन्तं कृतवानिति जानीत ज्ञानतः ॥ ५१४ ॥ वैराग्यस्य समग्रस्य-चतुष्टयाऽनन्तसम्पत्प्रातिहााद्यनेकधा। धर्मसम्पत्सईसम्पत्कीर्तिसम्पत्तथाऽपरा ॥ ५१५ ॥ अष्टैव प्रातिहार्याख्यासुरवैभवसम्पदः । एतावत्यो यत्र सन्ति, भगवत्यखिलेश्वरे ॥ ५१६ ॥ तद्गार्हस्थ्योऽपि वैराग्यसम्पत्तिरुपहिता । तथाऽनासंक्तिसम्पत्तिर्वरीवर्ति स्म तत्र चै ॥ ५१७ ॥ [तदद्भुतं चमत्कारं, को वा वर्णयितुं क्षम.॥] पुष्कळं भोगमासाद्य, तनोत्पय स्वयं प्रभु । पङ्कजं पङ्कजमिव, पृथगेव विभाव्यते ॥५१८॥ सेयं तत्त्यागवैराग्यसम्पत्ति, सिद्धिदायिनी । विद्योतते भगवति, वैराग्यस्येति लक्षणम् ॥ ५१९ ॥ मोक्षस्याथ समग्रस्यापुनरावृत्तिरूपकः । समन्वयो यथार्ह वे, जायते तनिशम्यताम् ॥५२०॥ आचाराझं तथा व्याख्यासुप्रज्ञयादिरूपका । आधारभूतेतिहासाच, सिद्धं तनिर्विवादतः ॥५२१॥ महावीरभगवान् दीक्षादशातः पूर्वतोऽपि वा । पुद्गलस्यप्रवन्धेषु, पदार्थे वन्धने पुन ॥५२२॥ भावसयतयुक्तोऽभून्नापेक्षा विद्यते विभोः। सर्वथा ते च मुक्त्यर्थ, सचेष्टा सन्ति भावत ॥ ५२३ ॥ सम्बन्धे चात्र चैतावत्कथनं जातमलं तथा । अनन्तचतुष्टयमाप्य, जातः सिद्ध सकायिकः ॥ ५२४ ॥ जीवन्मुक्तोऽभवत्तत्र, विज्ञेयं तच्चरित्रकम् । प्राणिनस्तस्य शरणं, समायाताश्च येडपनिशम् ॥ ५२५ ॥ स्वयं तेभ्यः सुमोक्षस्य, सम्प्रदायरहस्यकम् । खसमास्ते कृतास्तेन, तत्सहाशु निसेवनम् ॥ ५२६ ॥ मुक्तिमूलं परं स्थानं, तदस्तीति विभावय । तन्त्र मोक्षसमग्रस्य, समन्वयप्रसक्तितः ॥ कथं प्रश्नावकाशः स्यादित्यं च बुध्यतां धिया ॥ ५२७ ॥ अतो भगवते मोक्षसमग्रस्य समन्वय । षष्टमलक्षणस्याऽयं, समन्वय इति स्फुटम् ॥ ५२८ ॥ अथोपसंहारः-एवमुक्तषडाख्यानाऽऽलक्षणाना समन्वयात् । सिद्धो जातस्तु जगति, "वीरस्तु भगवान् खयम्" ॥५२९॥ अस्ति सर्वज्ञ इत्थं य., समदर्शी च वीर्यवान् । हितैषी सर्वजीवाना, तथाप्तोऽनन्तशक्तिमान् ॥ ५३० ॥ शास्ता सार्च स एव स्याजगद्गुरुरिहार्तिह. । अतस्तलक्षणं प्रोकं, निम्नगं तमिवोधतः ॥ ५३१॥ "गुकारस्त्वन्धकारस्तु, रुकारस्तनिरोधकः । अन्धकारविनाशेन, गुरुरित्यभिधीयते" ॥ अज्ञानं च गुशब्दस्य, - * भाचार्याणामष्ट सम्पदिति भावः॥

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445