________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तराध्ययन सूत्रम ॥८८१॥
भाषांतर अध्य०१५ ॥८८१॥
व्या०–स भिक्षुर्भवेत् , स इति कः ? यो गृहं द्रव्यभावभेदेन द्विविधं त्यक्त्वैक एकाकी रागद्वेषरहितोऽसहायो वा चरतीत्येकचरः स्यात्. कथंभूतः सः? अशिल्पजीवी शिल्पेन विज्ञानेन जीवते आजीविकां करोतिती शिल्पजीवी, न शिल्पजीवी अशिल्पजीवी, चित्रकरणादिविज्ञानेनाजीविकां न करोतीत्यर्थः. पुनः कीदृशः? अगृहो न विद्यते गृहं यस्य सोऽगृहः स्त्रीपरिचयरहितः, अथवा गृहस्थैः सह परिचयरहितः. पुनः कीदृशः ? अमित्रः शत्रुमित्ररहितः, पुनः कीशः जितेंद्रियः, पुनः कीदृशः ? सर्वतो विप्रमुक्तो बाह्याभ्यंतरसंयोगाद्विप्रमुक्तः सर्वपरिग्रहरहितः पुनः कीदृशः ? अणुकषायो मंदकषायीत्यर्थः पुनः कीदृशः? लघ्वल्पभक्षी, लघूनि निःसाराणि वल्ल चणकनिःपावककुलत्थमाषादिषासुकाहाणि, तानि स्तोकानि भक्षितुं शीलं यस्य म लघ्वल्पभक्षी नीरसस्तोकाहारकारीत्यर्थः. अथवा लघु प्रासुकं च | तदल्पं च लघ्वल्पं तदाहारं भक्षितुं शीलं यस्य स लघ्वल्पभक्षी. अथवा लघुः क्षीणकर्मा स चासावल्पभक्षी च लघ्वल्पभक्षी, इत्यहं ब्रवीमीति सुधर्मास्वामी जंबूस्वामिनं पाह. ॥ १६ ॥ इति भिक्षुलक्षणाध्ययनं पंचदशं संपूर्ण. ॥१५॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां भिक्षुलक्षणा| ध्ययनं पंचदश संपूर्ण. ॥१५॥
भिक्षु तो ते कडेवायके जे-द्रव्य तथा भाव एका भेदथी बेय प्रकारना घरने त्यजीने एकाकी रागद्वेष रहित, अथवा असहाय रहीने विचरे, वळी अशिल्प जीव-चित्रकळा आदि शिल्प उपर जीविका न चलावनारो तथा अग्रः स्त्री परिचय रहित, अथवा गृहस्थनी सा परिचय नहि राखनारो तथा शत्रु मित्र रहित जीतेन्द्रीय अने बाह्य अभ्यंतर बेय प्रकारना संयोगथो विमुख, सर्व परि
For Private and Personal Use Only