Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
१५२
सूत्रार्थमुक्तावल्याम्
[ चतुर्थी
विकल्पप्रसङ्गेन तद्दोषतादवस्ध्यात्, अंत्रोच्यते, एकान्तेन भेदोऽभेदो वा तयोर्नाभ्युपगम्यते किन्त्ववaar एव तथाविधैकपरिणामादवयविद्रव्यतया व्यपदिश्यन्ते, त एव च तथाविधविचित्र परिणामापेक्षया अवयवा इति । अवयव्यभावे त्वेते घटावयवा एते पटावयवा इत्येवमसङ्कीर्णव्यवस्थाया असम्भवः प्रसज्येत । न च तयोर्भेदः स्याद्विरुद्धर्माध्यासादिति वक्तव्यम्, एकस्यैव प्रत्यक्षसंवेदनस्य B त्वया परमार्थापेक्षया भ्रान्तत्वेन संव्यवहारापेक्षया त्वभ्रान्तत्वेनाभ्युपगमात्, अत्रापि यदि भ्रान्तं तत्तर्हि कथमभ्रान्तमिति पर्यनुयोगस्य सम्भवात्, तथा चास्त्यवय विद्रव्यम्, अव्यभिचारितया तथैव प्रतिभासमानत्वात्, अवयववत्, नीलवद्वा, तथा प्रतिभासस्यानुभूयमानत्वादेव न हेतुरसिद्ध:, निखिलवस्तूनां व्यवस्थायाः प्रतिभासाधीनत्वान्नानैकान्तिकत्वविरुद्धत्वे, अन्यथा न किञ्चिद्वस्तु सिद्ध्येत् । ननु नास्त्यात्माऽनुपलभ्यमानत्वात् न ह्यसौ प्रत्यक्षेणोपलभ्यते, अतीन्द्रियत्वात्, नाप्य10 नुमानेन, लिङ्गलिङ्गिनोः साक्षात् सम्बन्धादर्शनात्, न वाऽऽगमवेद्यः, आगमानामन्योऽन्यं विसंवादादिति चेन्न, विकल्पानुपपत्तेः, अनुपलभ्यमानत्वं किमेकपुरुषापेक्षया, सकलपुरुषापेक्षया वा नाद्यः, सत्यपि वस्तुनि तस्य सम्भवात् न ह्येकस्य कस्यचिद्धटादिग्राहकप्रमाणाप्रवृत्तौ सर्वत्र सर्वदा तदभावो निर्णेतुं युज्यते, नापि प्रमाणनिवृत्तौ प्रमेयं निवर्त्तते, प्रमाणस्य प्रमेयकार्यत्वेन कार्याभावे कारणाभावस्यादृष्टत्वात् । न द्वितीयः पक्षः, असिद्धेः, सकलपुरुषाश्रितानुपलम्भस्यासर्वज्ञदुर्ज्ञेय - 15 स्वात् । किन विद्यते आत्मा, प्रत्यक्षादिभिरुपलभ्यमानत्वात्, घटादिवदित्यनुमानेन तत्सिद्धिः, अस्मदादिप्रत्यक्षेण ह्यात्मा गम्यते, ज्ञानाभिन्नत्वात्तस्य तदभिन्नत्वञ्च ज्ञानस्य तद्धर्मत्वात् ज्ञानन्तु स्वसंविदितरूपम्, नीलज्ञानमुत्पन्नमासीदिति स्मृतेः न ह्यस्वसंविदिते स्मृतिरुदेति, अन्यथा पुरुषान्तरज्ञानस्यापि स्मृतिविषयताप्रसङ्गात्, तस्मात्तदव्यतिरिक्तज्ञानगुणप्रत्यक्षत्वे गुण्यपि प्रत्यक्ष एव, रूपगुणप्रत्यक्षतया घटादिगुणिप्रत्यक्षवत् । शरीरमिदं विद्यमानकर्तृकम्, भोग्यत्वादोदनवदित्यनुमानगम्योऽ20 प्यात्मा, न चौदनकर्तृवन्मूर्त्त आत्मा स्यादिति वाच्यम्, संसारिणो मूर्त्तत्वेनाभ्युपगमात् । 'एगे आया ' इत्यागमगम्योऽप्यात्मा, न चायमागम आगमान्तरैर्विसंवादीति वक्तव्यम्, अस्य सुनिश्चिताSSHप्रणीतत्वात् । सोऽयमात्मा सप्रदेशः, निरवयवत्वे हस्ताद्यवयवानामेकत्वप्रसङ्गः प्रत्यवयवं स्पर्शाद्यनुपलब्धिप्रसङ्गश्च स्यात् एवञ्च द्रव्यार्थतया एक आत्मेति, एक आत्मा कथचिदिति वा व्यवस्थितम् । प्रतिक्षणं सम्भवदपरापरकालकृत कुमारतरुणनरनारकत्वादिपर्यायैरुत्पादविनाशयेोगेऽपि द्रव्या25 तयास्यैकत्वात् कालकृतपर्यायैरुत्पादविनाशेऽपि सर्वथा न नाशः स्वपरपर्यायरूपानन्तधर्मात्मकत्वाद्वस्तुनः । प्रतिक्षणं सर्वथा विनाशे हि 'प्रतिक्षणं क्षयिणो भावा:' इति वचनात् क्षणभङ्गविज्ञानं न स्यात्, असंख्यात समयैरेव वाक्यार्थग्रहणपरिणामात् एकैकमप्यक्षरं हि पदसत्कं संख्यातीतसमयसम्भूतं संख्यातानि चाक्षराणि पदं, पदसंघातश्च वाक्यम्, तदर्थग्रहणपरिणामाच्च सर्व क्षणभङ्गुरमिति विज्ञानं भवेत्, तच्च न समय विनश्वरस्य सम्भवति, तस्मादात्मोत्पादव्ययधौव्या30 त्मकः, स्थिररूपापेक्षया नित्यो नित्यत्वाच्चैकः, उत्पादव्ययापेक्षया त्वनित्यत्वादनेक इति । एक आत्मा कथञ्चिदिति प्रथमव्याख्याने च सामान्यविशेषरूपत्वाद्वस्तुनः सामान्यापेक्षया एको विशेषापेक्षयास्वनेक इति, सर्वात्मनां तुल्यं रूपमुपयोगः, सर्वात्मसूपयोगाभावेऽनात्मत्वप्रसङ्गादिति ॥ २ ॥
"

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340