Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
२७४
सूत्रार्थमुक्तावल्याम् -
[पञ्चमी नस्यारात्रिभोजिनोऽबद्धकच्छस्य पञ्च मासान् यावत् पञ्चमी प्रतिमा भवति । प्रकटप्रकाशभुक्, न निशायामत्ति किन्तु प्रकटे प्रकाशे दिवा अशनाद्यभ्यवहरति, अयम्भावः प्रतिपञ्चकोक्तानुष्ठानयुक्तस्य ब्रह्मचारिणः षण्मासान यावत् षष्ठीप्रतिमा भवतीति । सचित्तपरिज्ञातः सचेतनाहारः परिज्ञातः तत्स्वरूपपरिज्ञानात् प्रत्याख्यातो येन सः सचित्तपरिज्ञातः श्रावकः, पूर्वोक्तप्रतिमाषट्रानुष्ठानयुक्तस्य प्रासु5 काहारस्य सप्त मासान् यावत्सप्तमी प्रतिमा भवतीति । आरम्भपरिज्ञातः, आरम्भः पृथिव्याधुपमर्दनलक्षणः परिज्ञातः तथैव प्रत्याख्यातः येनासौ, समस्तपूर्वोक्तानुष्ठानयुक्तस्यारम्भवर्जनमष्टौ मासान् यावदष्टमीप्रतिमेति । प्रेष्यपरिज्ञातः, प्रेष्या आरम्भेषु व्यापारणीयाः परिज्ञाताः तथैव प्रत्याख्याता येन सः, पूर्वोक्तानुष्ठानवत आरम्भं परैरप्यकारयतो नवमासान यावन्नवमी प्रतिमा भवतीति । उद्दिष्टभक्तपरिज्ञातः-तमेव श्रावकमुद्दिश्य कृतोदनादेानपूर्वं परित्यक्ता, पूर्वोक्तगुणयुक्तस्य आधार्मिक10 भोजनपरिहारवतः क्षुरमुण्डितशिरसः शिखावतो वा केनापि किश्चिद्गृहव्यतिकरे पृष्टस्य तज्ज्ञाने सति
जानामीति अज्ञाने च सति न जानामीति ब्रुवाणस्य दश मासान् यावदुत्कर्षेण एवंविधविहारस्य दशमी प्रतिमेति । श्रमणभूत:-श्रमणो निम्रन्थः, तद्वद्यः तदनुष्ठानात्स श्रमणभूतः पूर्वोक्तसमग्रगुणोपेतस्य क्षुरमुण्डस्य कृतलोचस्य वा गृहीतसाधुनेपथ्यस्य ईर्यासमित्यादिकं साधुधर्ममनुपालयतो मिक्षार्थ
गृहिकुलप्रवेशे सति श्रमणोपासकाय प्रतिमाप्रतिपन्नाय भिक्षा दत्तेति भाषमाणस्य कस्त्वमिति कस्मिंश्चित् 15 पृच्छति प्रतिमाप्रतिपन्नः श्रमणोपासकोऽहमिति ब्रुवाणस्यैकादशमासान् यावदेकादशी प्रतिमेति ॥८॥
विहितप्रतिमस्य सम्भोगसम्भवात्तान्निरूपयति
उपधिश्रुतभक्तपानाञ्जलिप्रग्रहदाननिकाचनाभ्युत्थानकृतिकर्मवैयावृत्त्यसमवसरणसन्निषद्याकथाप्रबन्धा द्वादश सम्भोगाः ॥ ९ ॥
. उपधीति, सम्-एकीभूय समानसमाचाराणां साधूनां भोजनं सम्भोगः स चोपध्यादिलक्षण20 विषयभेदात् द्वादशविधा, तत्रोपधिर्वस्त्रपात्रादिस्तं साम्भोगिकः साम्भोगिकेन सार्द्धमुद्गमोत्पादनैषणादोषैर्विशुद्धं गृह्णन् शुद्धः, अशुद्धं गृह्णन् प्रेरितः प्रतिपन्नप्रायश्चित्तो वारत्रयं यावत्संभोगार्हश्चतुर्थवेलायां प्रायश्चित्तं प्रतिपद्यमानोऽपि विसम्भोगार्ह इति, विसम्भोगिकेन पार्श्वस्थादिना वा संयत्या वा सार्धमुपधि शुद्धमशुद्धं वा निष्कारणं गृह्णन् प्रेरितः प्रतिपन्नप्रायश्चित्तोऽपि वेलात्रयस्योपरि न सम्भोग्यः,
एवमुपधेः परिकर्म परिभोगं वा कुर्वन् सम्भोग्यो विसम्भोग्यश्चेति । साम्भोगिकस्यान्यसाम्भोगिकस्य 25 वोपसम्पन्नस्य श्रुतस्य वाचनाप्रच्छनादिकं विधिना कुर्वन् तथा शुद्धः, तस्यैवाविधिनोपसम्पन्नस्यानुप
सम्पन्नस्य वा पार्श्वस्थादेर्वा स्त्रिया वा वाचनादि कुर्वन् तथैव वेलायोपरि विसम्भोग्यः । भक्तपानमुपधिद्वारवदवसेयम् , परन्तु भोजनं दानं च परिकर्म परिभोगयोः स्थाने वाच्यमिति । साम्भोगिकानामन्यसाम्भोगिकानां वा संविमानां प्रणाममञ्जलि प्रग्रहं नमः क्षमाश्रमणेभ्य इति भणनं आलोचना
सूत्रार्थनिमित्तनिषद्याकरणश्च कुर्वन् शुद्धः पार्श्वस्थादेरेतानि कुर्वन् तथैव सम्भोग्यो विसम्भोग्यश्चेति । 80 दानं, तत्र साम्भोगिकः साम्भोगिकाय अन्यसाम्भोगिकाय वा शिष्यगणं यच्छन् शुद्धः, निष्कारणं विसम्भोगिकस्य पार्श्वस्थादेर्वा संयत्या वा तं यच्छंस्तथैव सम्भोग्यो विसम्भोग्यश्चेति । निकाचनं

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340