Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 299
________________ २७२ सूत्रार्थमुक्तावल्याम् - . [पञ्चमी द्वे सागरोपमे स्थितिः । तथाविधानां द्वयोरर्धमासयोरन्ते उच्छासादयः द्वयोर्वर्षसहस्रयोरन्ते आहारपुद्गलग्रहणम् । ये देवा आभङ्करादि चन्द्रोत्तरावतंसकावसानं विमानमासाद्य देवत्वेनोत्पन्नास्तेषामुत्कपेण त्रीणि सागरोपमाणि स्थितिः त्रयाणामर्धमासानामन्ते उच्छ्रासादयः त्रयाणां वर्षसहस्राणामन्ते आहारपुद्गलग्रहणम् । कृष्ट्यादि कृष्टयुत्तरावतंसकावसानं विमानमासाद्य ये देवत्वेनोत्पन्नास्तेषामुत्कर्षण 5 चत्वारि सागरोपमाणि स्थितिः, तदनुसारेणोच्छासादयः । वातसुवातादि वायुत्तरावतंसकावसानं विमानमासाद्य ये देवत्वेनोत्पन्नास्तेषामुत्कर्षेण पञ्च सागरोपमाणि स्थितिः। स्वयम्भूवयंभूरमणादि वीरोत्तरावतंसकावसानं विमानमासाद्य देवत्वेनोत्पन्नानामुत्कर्षतः षट् सागरोपमाणि स्थितिः समसमप्रभादि सनत्कुमारावतंसकान्तं विमाने देवत्वेनोत्पन्नानामुत्कर्षेण सप्त सागरोपमाणि स्थितिः, अर्चिरर्चिमाल्यादि अनुत्तरावतंसकावसाने विमाने देवत्वेनोत्पन्नानामुत्कर्षण अष्ट सागरोपमाणि स्थितिः । 10 पद्मसुपद्मादि रुचिलोत्तरावतंसकावसाने विमाने देवत्वेनोत्पन्नानामुत्कर्षेण नव सागरोपमाणि स्थितिः, घोषसुघोषादि ब्रह्मलोकावतंसकावसाने विमाने देवत्वेनोत्पन्नानामुत्कर्षतो दश सागरोपमाणि स्थितिः एवमग्रेऽपि भावनीयम् ॥ ६॥ चित्तसमाधिमन्तरेण विशिष्टदेवगत्यभावात्तत्स्थानान्याह धर्मचिन्तास्वप्नदर्शनसंज्ञिज्ञानदेवदर्शनावधिज्ञानदर्शनमनःपर्यवकेव15 लज्ञानदर्शनकेवलिमरणानि दश चित्तसमाधिस्थानानि ॥ ७ ॥ धर्मचिन्तेति, चित्तस्य मनसः समाधिः-समाधानं प्रशान्तता तस्य स्थानानि-आश्रया भेदा वा चित्तसमाधिस्थानानि, तपोविशेषयुतानां ज्ञानदर्शनचारित्रलक्षणसमाधिप्राप्तानां धर्मशुक्रुध्यानं ध्यायमानानां साधूनां कदाप्यतीतकालेऽसमुत्पन्नपूर्वाणि दशचित्तसमाधिस्थानानि भवन्तीति भावः। तत्र धर्मो नाम स्वभावः जीवाजीवद्रव्याणां तद्विषया चिन्ता-सत्यं धर्म ज्ञातुं किममी जीवादयो नित्याः उता20 नित्याः, रूपिण उतारूपिण इत्यादिरूपा, अथवा धर्मचिन्ता-यथा सर्वे कुसमया अशोभना अनिर्वा.. हकाः पूर्वापरविरुद्धाः, अतः सर्वधर्मेषु शोभनतरोऽयं धर्मो जिनप्रणीत इत्येवं रूपा इत्येकम् । इयञ्च यः कल्याणभागी तस्य साधोः पूर्वस्मिन्नतीते कालेऽनुपजाता तदुत्पादें ह्यपार्धपुद्गलपरावर्त्तान्ते कल्याणस्यावश्यम्भावात् , अस्याश्च प्रयोजनं परोक्तद्रव्यस्वभावं श्रुतादि वा ज्ञपरिज्ञया विज्ञाय प्रत्याख्यानपरिज्ञया परिहारः । स्वप्नदर्शनं यथा भगवतो वर्धमानस्वामिनः प्रज्ञप्त्यां प्रतिपादितं स्वप्नफलम् , सर्वथा 25 निर्व्यभिचारं तस्य भवनम् , अवश्यम्भाविनो मुक्त्यादेः शुभस्वप्नफलस्य अनुभवनाय साधोः स्वप्नदर्शनमुपजायते, कल्याणसूचकावितथस्वप्नदर्शनाञ्च चित्तसमाधिर्भवतीति द्वितीयं चित्तसमाधिस्थानम् । संज्ञिज्ञान-संज्ञानं संज्ञा सा च यद्यपि हेतुवाददृष्टिवाददीर्घकालिकोपदेशभेदेन क्रमेण विकलेन्द्रियसम्यग्दृष्टिसमनस्कसम्बन्धित्वात् त्रिधा भवति तथापीह दीर्घकालिकोपदेशसंज्ञा ग्राह्या, सा यस्यास्ति स संज्ञी समनस्कः तस्य ज्ञानं संज्ञिज्ञानम् , तच्चेहाधिकृतसूत्रान्यथानुपपत्तेर्जातिस्मरणमेव, तस्य तदस30 मुत्पन्नपूर्वं पूर्वभवान् स्मर्तुं समुत्पद्यते, स्मृतपूर्वभवस्य च संवेगात् समाधिरुत्पद्यते इति समाधिस्थान मेतत् तृतीयम्, देवदर्शनं-देवाहितस्य गुणित्वाद्दर्शनं ददति, तच्च तस्यासमुत्पन्नपूर्व प्रधानपरिवारादि

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340