SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २७२ सूत्रार्थमुक्तावल्याम् - . [पञ्चमी द्वे सागरोपमे स्थितिः । तथाविधानां द्वयोरर्धमासयोरन्ते उच्छासादयः द्वयोर्वर्षसहस्रयोरन्ते आहारपुद्गलग्रहणम् । ये देवा आभङ्करादि चन्द्रोत्तरावतंसकावसानं विमानमासाद्य देवत्वेनोत्पन्नास्तेषामुत्कपेण त्रीणि सागरोपमाणि स्थितिः त्रयाणामर्धमासानामन्ते उच्छ्रासादयः त्रयाणां वर्षसहस्राणामन्ते आहारपुद्गलग्रहणम् । कृष्ट्यादि कृष्टयुत्तरावतंसकावसानं विमानमासाद्य ये देवत्वेनोत्पन्नास्तेषामुत्कर्षण 5 चत्वारि सागरोपमाणि स्थितिः, तदनुसारेणोच्छासादयः । वातसुवातादि वायुत्तरावतंसकावसानं विमानमासाद्य ये देवत्वेनोत्पन्नास्तेषामुत्कर्षेण पञ्च सागरोपमाणि स्थितिः। स्वयम्भूवयंभूरमणादि वीरोत्तरावतंसकावसानं विमानमासाद्य देवत्वेनोत्पन्नानामुत्कर्षतः षट् सागरोपमाणि स्थितिः समसमप्रभादि सनत्कुमारावतंसकान्तं विमाने देवत्वेनोत्पन्नानामुत्कर्षेण सप्त सागरोपमाणि स्थितिः, अर्चिरर्चिमाल्यादि अनुत्तरावतंसकावसाने विमाने देवत्वेनोत्पन्नानामुत्कर्षण अष्ट सागरोपमाणि स्थितिः । 10 पद्मसुपद्मादि रुचिलोत्तरावतंसकावसाने विमाने देवत्वेनोत्पन्नानामुत्कर्षेण नव सागरोपमाणि स्थितिः, घोषसुघोषादि ब्रह्मलोकावतंसकावसाने विमाने देवत्वेनोत्पन्नानामुत्कर्षतो दश सागरोपमाणि स्थितिः एवमग्रेऽपि भावनीयम् ॥ ६॥ चित्तसमाधिमन्तरेण विशिष्टदेवगत्यभावात्तत्स्थानान्याह धर्मचिन्तास्वप्नदर्शनसंज्ञिज्ञानदेवदर्शनावधिज्ञानदर्शनमनःपर्यवकेव15 लज्ञानदर्शनकेवलिमरणानि दश चित्तसमाधिस्थानानि ॥ ७ ॥ धर्मचिन्तेति, चित्तस्य मनसः समाधिः-समाधानं प्रशान्तता तस्य स्थानानि-आश्रया भेदा वा चित्तसमाधिस्थानानि, तपोविशेषयुतानां ज्ञानदर्शनचारित्रलक्षणसमाधिप्राप्तानां धर्मशुक्रुध्यानं ध्यायमानानां साधूनां कदाप्यतीतकालेऽसमुत्पन्नपूर्वाणि दशचित्तसमाधिस्थानानि भवन्तीति भावः। तत्र धर्मो नाम स्वभावः जीवाजीवद्रव्याणां तद्विषया चिन्ता-सत्यं धर्म ज्ञातुं किममी जीवादयो नित्याः उता20 नित्याः, रूपिण उतारूपिण इत्यादिरूपा, अथवा धर्मचिन्ता-यथा सर्वे कुसमया अशोभना अनिर्वा.. हकाः पूर्वापरविरुद्धाः, अतः सर्वधर्मेषु शोभनतरोऽयं धर्मो जिनप्रणीत इत्येवं रूपा इत्येकम् । इयञ्च यः कल्याणभागी तस्य साधोः पूर्वस्मिन्नतीते कालेऽनुपजाता तदुत्पादें ह्यपार्धपुद्गलपरावर्त्तान्ते कल्याणस्यावश्यम्भावात् , अस्याश्च प्रयोजनं परोक्तद्रव्यस्वभावं श्रुतादि वा ज्ञपरिज्ञया विज्ञाय प्रत्याख्यानपरिज्ञया परिहारः । स्वप्नदर्शनं यथा भगवतो वर्धमानस्वामिनः प्रज्ञप्त्यां प्रतिपादितं स्वप्नफलम् , सर्वथा 25 निर्व्यभिचारं तस्य भवनम् , अवश्यम्भाविनो मुक्त्यादेः शुभस्वप्नफलस्य अनुभवनाय साधोः स्वप्नदर्शनमुपजायते, कल्याणसूचकावितथस्वप्नदर्शनाञ्च चित्तसमाधिर्भवतीति द्वितीयं चित्तसमाधिस्थानम् । संज्ञिज्ञान-संज्ञानं संज्ञा सा च यद्यपि हेतुवाददृष्टिवाददीर्घकालिकोपदेशभेदेन क्रमेण विकलेन्द्रियसम्यग्दृष्टिसमनस्कसम्बन्धित्वात् त्रिधा भवति तथापीह दीर्घकालिकोपदेशसंज्ञा ग्राह्या, सा यस्यास्ति स संज्ञी समनस्कः तस्य ज्ञानं संज्ञिज्ञानम् , तच्चेहाधिकृतसूत्रान्यथानुपपत्तेर्जातिस्मरणमेव, तस्य तदस30 मुत्पन्नपूर्वं पूर्वभवान् स्मर्तुं समुत्पद्यते, स्मृतपूर्वभवस्य च संवेगात् समाधिरुत्पद्यते इति समाधिस्थान मेतत् तृतीयम्, देवदर्शनं-देवाहितस्य गुणित्वाद्दर्शनं ददति, तच्च तस्यासमुत्पन्नपूर्व प्रधानपरिवारादि
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy