________________
२७१
मुक्ता] . . समवायमुक्तासरिका।. पूर्वाषाढा उत्तराषाढा च, त्रितारा अभिजित् श्रवणा च, धनिष्ठा पञ्चतारा शततारा शतभिषा द्वितारा पूर्वाप्रोष्ठपदा उत्तराप्रोष्ठपदा च द्वाविंशतितारा रेवतीति ॥ ३ ॥
नक्षत्राणां देवविशेषत्वात् देवानां स्थितिविशेषानाचष्टे___ एकपल्योपमस्थितयः रत्नप्रभानैरयिका असुरकुमाराश्चमरबलिवर्जभवनवासिनोऽसंख्येयवर्षायुस्संक्षिपञ्चेन्द्रियतिर्यग्योनिका असंख्येयवर्षायु-5 कगर्भव्युत्क्रान्तिकसंज्ञिमनुष्याः वानव्यन्तरदेवाः सौधर्मकल्पदेवा ईशानकल्पदेवाश्च ॥ ४॥
एकेति, एकं पल्योपमं स्थितियेषान्ते, केचन नैरयिकाः रत्नप्रभापृथिव्यामेकपल्योपमस्थितयो वर्तन्ते सा च चतुर्थे प्रस्तरे मध्यमाऽवसेया उत्कर्षेणैषां स्थितिस्तु एकं सागरोपमम् । असुरकुमाराणान्तूत्कर्षेण स्थितिः साधिकमेकं सागरोपमम् । असुरकुमारेन्द्रवर्जितानां भवनवासिनां देवानां केषांचित् 10 मध्यमा एकपल्योपमं स्थितिः, उत्कृष्टा तु देशोने द्वे पल्योपमे तथाविधतिर्यग्योनिकानामेकं पल्योपमं स्थितिः सा च हेमवतैरण्यवतवर्षयोरुत्पन्नानां विज्ञेया वानव्यन्तरा अपि देवा एव ग्राह्याः, न तु देव्यस्तासामर्धपल्योपमस्थितित्वात् सौधर्मे कल्पे देवशब्देन देवा देव्यश्च गृहीताः, सौधर्मे हि पल्यो- . पमाद्धीनतरा स्थितिर्जघन्यतोऽपि नास्ति, इयश्च प्रथमप्रस्तरे जघन्याऽवसेया । ईशानकल्पदेवा इत्यत्रापि देवा देव्यश्च ग्राह्याः तत्र हि सातिरेकपल्योपमादन्या जघन्यतः स्थितिरेव नास्ति ॥ ४ ॥ 15
तथाद्वित्रिपल्योपमस्थितिका अपि ॥ ५॥
द्वीति, रत्नप्रभायां नैरयिकाणां द्विपल्योपमास्थितिश्चतुर्थप्रस्तरे मध्यमा असुरेन्द्रवर्जभवनवासिनां द्वे देशोने पल्योपमे स्थितिरौदीच्यनागकुमारादीनाश्रित्य तथाविधतिरश्चां मनुष्याणाञ्च हरिवर्षरम्यकवर्षजन्मनां द्विपल्योपमा स्थितिरिति एवमन्यत्रापि भाव्यम् । रत्नप्रभानारकाणां असुरकुमाराणां 20 सौधर्मेशानकल्पदेवानान्तु त्रिचतुःपञ्चषट्सप्ताष्टनवादिपल्योपमानि स्थितयः ॥ ५॥
स्थित्यनुसारेण देवानामुच्छासादीनाह
यावत्सागरोपमस्थितिकस्य देवस्य तावदर्धमासेपूच्छ्वासस्तावद्वर्षसहौराहारः॥६॥
यावदिति, यथा ये देवाः सागरादिलोकहितावसानं विमानमासाद्य देवत्वेनोत्पन्ना न तु 25 देवीत्वेन तासां सागरोपमस्थितेरसम्भवात् तेषां देवानामेकं सागरोपमं स्थितिः विमानमेतत्सप्तमे प्रस्तरे, येषाञ्चैकसागरोपमं स्थितिः ते देवा एकस्यार्धमासस्यान्ते उच्चसन्ति निःश्वसन्ति वा तेषामेकस्य वर्षसहस्रस्यान्ते आहारार्थमाहारपुद्गलानां ग्रहणमाभोगतो भवति अनाभोगतस्तु प्रतिसमयमेव ग्रहणं विग्रहगतेरन्यत्र भवति । ये शुभादि सौधर्मावतंसकावसानं विमानमासाद्य देवत्वेनोत्पन्नाः तेषामुत्कर्षण