________________
अथ समवायमुक्तासरिका।
अथ समवायाङ्गस्य सारार्थमाख्यातुमाह
उक्तो जीवादीनामेकत्वादिक्रमः॥१॥
उक्तेति, स्थानाङ्गसारवर्णनावसर इति शेषः, कथञ्चिदात्मा एकः प्रदेशार्थतयाऽसंख्यात5 प्रदेशोऽपि प्रतिक्षणं पूर्वखभावत्यागपरस्खभावग्रहणयोगेनानन्तभेदोऽपि द्रव्यार्थतया कालत्रयानुगामिचैतन्यमात्रापेक्षया एकः, अजीवोऽपि प्रदेशार्थतया संख्येयासंख्येयानन्तप्रदेशोऽपि तथाविधैकपरिणामरूपद्रव्यार्थापेक्षया एकः, एवं दण्डक्रियादीनामप्येकरूपत्वं त्रसस्थावरादिभेदेन द्वैविध्यादिकमप्युक्तमेव, अत्र च यदनुक्तं तेषामेवात्र किञ्चित्समवायः क्रियत इति भावः ॥ १॥
जीवाद्याश्रयभूतं क्षेत्रमवलम्ब्याह
जम्बूद्वीपाप्रतिष्ठाननरकपालकविमानमहाविमानानि एकयोजनशतसहस्रमानानि ॥२॥
जम्बूद्वीपेति, जम्ब्वा सुदर्शनापरनाम्याऽनादृतदेवावासभूतयोपलक्षितो द्वीपो जम्बूप्रधानो वा द्वीपः सर्वद्वीपानां धातकीखण्डादीनां सर्वसमुद्राणां लवणोदादीनां सर्वात्मनाऽभ्यन्तरः सकलति
र्यग्लोकमध्यवर्ती आयामेन विष्कम्भेन च योजनशतसहस्रप्रमाणः जम्बूद्वीपानां बहुत्वेऽपि उक्तप्र15 माण एक एवेत्यर्थः । अप्रतिष्ठाननरकः सप्तमनरकपृथिवीरूपः पञ्चानां कालादीनां नरकावासानां मध्यवर्ती नरकावासः, यत्र महारम्भाः कुटुम्बिनो चक्रवर्तिनो वासुदेवाः तन्दुलमत्स्यप्रभृतयो माण्डलिको राजानश्चातिशयेन गच्छन्ति सोऽपि आयामविष्कम्भत एकयोजनशतसहस्रमानः, पालकं यानविमानं सौधर्मेन्द्रसम्बन्ध्याभियोगिकपालकाभिधानदेवकृतं वैक्रियं पारियानिकमिति यदुच्यते, इदमपि तावन्मानम् तथा सर्वार्थसिद्धमहाविमानमपि तावन्मानमिति ॥ २ ॥ 20 ज्योतिष्काश्रयेणाह
आर्द्राचित्राखातय एकैकाः ॥३॥
आर्दृति, नक्षत्राण्यष्टाविंशतिः, अभिजिदादीन्युत्तराषाढापर्यवसानानि, सर्वेषां कालविशेषाणामादौ चन्द्रयोगमधिकृत्याभिजिन्नक्षत्रस्य प्रवर्तमानत्वात् , सर्वेषामपि हि सुषमसुषमादिरूपाणां कालविशेषाणामादिर्युगम् , तस्य चादिः श्रावणे मासि बहुलपक्षे प्रतिपदि तिथौ बालवकरणेऽभिजिति 25 नक्षत्रे चन्द्रेण सह योगमुपगच्छति, एतानि सर्वाणि नक्षत्राणि प्रत्येकं द्वे द्वे, तारकापेक्षया तु आर्द्रादयः
सूत्रोक्ताः एकैकाः त्रितारा अश्विनी भरणी च, षट्तारा कृत्तिका, रोहिणी पश्चतारा, मृगशिरा त्रितारा, पञ्चतारा पुनर्वसू, त्रितारा पुष्या, आश्लेषा षट्तारा, सप्ततारा मघा, फाल्गुनीद्वयमपि द्वि द्वि तारकम् , पञ्चतारा हस्ता विशाखा च, चतुस्तारा अनुराधा, त्रितारा ज्येष्ठा, एकादशतारा मूला, चतुस्तारा