________________
मुका] स्थानमुक्तासरिका।
२६९ शयामास, शक्रोऽपि कोपाजाज्वल्यमानस्फारस्फुरत्स्फुलिङ्गशतसमाकुलं कुलिशं तं प्रति मुमोच, स च भयात् प्रतिनिवृत्य भगवत्पादौ शरणं प्रपेदे, शक्रोऽप्यवधिज्ञानावगततद्व्यतिकरस्तीर्थकराशातनाभयात् शीघ्रमागत्य वनमुपसञ्जहार, बभाण च मुक्तोऽस्यहो भगवतः प्रसादान्नास्ति मत्तस्ते भयमिति । अष्टाभिरधिकं शतमष्टशतं तच्च ते सिद्धाश्च-निर्वृताः अष्टशतसिद्धाः, इदमप्यनन्तकालजातमित्याश्चर्यमिति, असंयता असंयमवन्तः आरम्भपरिग्रहप्रसक्ता अब्रह्मचारिणस्तेषु पूजा-सत्कारः, सर्वदा हि किल । संयता एव पूजाहाः, अस्यान्त्ववसर्पिण्यां विपरीतं जातमित्याश्चर्यमिति ॥ २३८॥
स्थानाङ्गजलधिमध्याद्विमला मुक्ताः समुद्धृता एताः। नूनं बालमतीनां मानसमोदं वितन्वन्तु ॥
इति श्रीतपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजय...... कमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पधरेण विजय
लब्धिसूरिणा सङ्कलितायां सूत्रार्थमुक्तावल्यां स्थानाङ्ग
लक्षणा चतुर्थी मुक्तासरिका वृत्ता ।