________________
[चतुर्थी
२६८
सत्रार्थमुक्तावल्याम् उपसर्गेति, आ-विस्मयतश्चर्यन्तेऽवगम्यन्ते इत्याश्चर्याण्यद्भुतानि, तत्रोपसृज्यते क्षिप्यते च्याव्यते प्राणी धर्मादेभिरित्युपसर्गा देवादिकृतोपद्रवाः, ते च भगवतो महावीरस्य छद्मस्थकाले केवलिकाले च नरामरतिर्यकृता अभूवन् , इदश्च किल न कदाचिद्भूतपूर्व तीर्थकरादि अनुत्तरपुण्यसम्भा. रतया नोपसर्गभाजनमपि तु सकलनरामरतिरश्चां सत्कारादिस्थानमेवेति अनन्तकालभाव्ययमों लोकेऽद्भुतभूत इति । गर्भस्य-उदरसत्त्वस्य हरणं-उदरान्तरसंक्रामणं गर्भहरणम् , एतदपि तीर्थकरापेक्षयाऽभूतपूर्व सद्भगवतो महावीरस्य जातम् , पुरन्दरादिष्टेन हरिणेगमेषिदेवेन देवानन्दाभिधानब्राह्मण्युदरात्रिशलाभिधानाया राजपन्या उदरे सङ्क्रमणात्, एतदप्यनन्तकालभावित्वादाश्चर्यमेवेति । स्त्री योषित् , तस्यास्तीर्थकरत्वेनोत्पन्नायाः तीर्थ द्वादशाङ्गं सङ्घो वा, तीथं हि पुरुषसिंहाः पुरुषवरगन्धहस्तिनत्रिभुवनेऽप्यव्याहतप्रभुभावाः प्रवर्त्तयन्ति, इह त्ववसर्पिण्यां मिथिलानगरीपतेः कुम्भकराजस्य 10 दुहिता मल्लयभिधाना एकोनविंशतितमतीर्थकरस्थानोत्पन्ना तीथं प्रवर्तितवतीत्यनन्तकालजातत्वादस्य
भावस्याश्चर्यतेति । चारित्रधर्मस्यायोग्या पर्षत्-तीर्थकरसमवसरणश्रोतृलोकः अभव्यपर्षत्, श्रूयते हि भगवतो वर्द्धमानस्य जृम्भिकग्रामनगराद्वहिरुत्पन्नकेवलस्य तदनन्तरं मिलितचतुर्विधदेवनिकायविरचितसमवसरणस्य भक्तिकुतूहलाकृष्टसमायातानेकनरामरविशिष्टतिरश्चां स्वस्वभाषानुसारिणाऽतिमनो
हारिणा महाध्वनिना कल्पपरिपालनायैव धर्मकथा बभूव, यतो न केनापि तत्र विरतिः प्रतिपन्ना, न 15 चैतत्तीर्थकृतः कस्यापि भूतपूर्वमितीदमाश्चर्यम् । कृष्णस्य नवमवासुदेवस्यावरकङ्का-राजधानी गतिविषया जातेति अजातपूर्वत्वादाश्चर्यम् , श्रूयते हि पाण्डवभार्या द्रौपदी धातकीखण्डभरतक्षेत्रापरकंकाराजधानीनिवासिपद्मराजेन देवसामर्थेनापहृता, द्वारकावतीवास्तव्यश्च कृष्णो वासुदेवो नारदादुपलब्धतद्वत्तः समाराधितसुस्थिताभिधानलवणसमुद्राधिपतिर्देवः पञ्चभिः पाण्डवैः सह द्वियोजनलक्ष
प्रमाणं जलधिमतिक्रम्य पद्मराज रणविमर्दन विजित्य द्रौपदीमानीतवान् , तत्र च कपिलवासुदेवो मुनि20 सुव्रतजिनात्कृष्णवासुदेवागमनवार्तामुपलभ्य स बहुमानं कृष्णदर्शनार्थमागतः, कृष्णश्च तदा समुद्रमुल्लंघयति स्म ततस्तेन पाञ्चजन्यः पूरितः कृष्णेनापि तथैव ततः परस्परशङ्खशब्दश्रवणमजायतेति । भगवतो महावीरस्य वन्दनार्थमवतरणमाकाशात्समवसरणभूम्यां चन्द्रसूर्ययोः शाश्वतविमानोपेतयोः बभूवेदमप्याश्चर्यमेवेति । हरेः पुरुषविशेषस्य वंशः-पुत्रपौत्रादिपरम्परा हरिवंशः तल्लक्षणं यत्कुलं तस्योत्पत्तिः, कुलं ह्यनेकधा अतो हरिवंशेन विशिष्यते, एतदप्याश्चर्यमेवेति, श्रूयते हि भरतक्षेत्रापेक्षया 26 यत्तृतीयं हरिवर्षाख्यं मिथुनकक्षेत्रं ततः केनापि पूर्वविरोधिना व्यन्तरसुरेण मिथुनकमेकं भरतक्षेत्रे क्षिप्तं तेन पुण्यानुभावाद्राज्यं प्राप्तं ततो हरिवर्षजातहरिनाम्नः पुरुषाद्यो वंशः स तथेति । चमरस्य-असुरकुमारराजस्योत्पतनमूर्ध्वगमनं चमरोत्पातः सोऽप्याकस्मिकत्वादाश्चर्यम्, श्रूयते हि चमरचञ्चाराजधानीनिवासी चमरेन्द्रोऽभिनवोत्पन्नः सन्नूर्ध्वमवधिनाऽऽलोकयामास, ततः स्वशीर्षोपरि सौधर्मव्यवस्थितं शक्रं ददर्श, ततो मत्सराध्मातः शक्रतिरस्काराहितमतिरिहागत्य भगवन्तं महावीरं छद्मस्थावस्थ30 मेकरात्रिकी प्रतिमा प्रतिपन्नं सुसुमारनगरोद्यानवर्त्तिनं सबहुमानं प्रणम्य भगवंस्त्वत्पादपंकजं मे शरणमरिपराजितस्येति विकल्प्य विरचितघोररूपो लक्षयोजनमानशरीरः परिघरत्नं प्रहरणं परितो भ्रामयन् गर्जनास्फोटयन् देवांस्त्रासयन् उत्पपात, सौधर्मावतंसकविमानवेदिकायां पादन्यासं कृत्वा शक्रमाक्रो