________________
मुक्ता]
स्थानमुक्तासरिका। सोऽयं धर्मः स्थविरैः कृतो भवतीति तानाह
ग्रामनगरराष्ट्रप्रशास्तृकुलगणसंघजातिश्रुतपर्यायसम्बन्धिनः स्थविराः॥ २३६ ॥
- ग्रामेति, दुर्व्यवस्थितं जनं सन्मार्गे स्थापयन्ति-स्थिरीकुर्वन्तीति स्थविराः तत्र ये प्रामनगरराष्ट्रेषु व्यवस्थाकारिणो बुद्धिमन्त आदेयाः प्रभविष्णवस्ते तत्तत्स्थविराः, प्रशासति शिक्षयन्ति ये ते । प्रशास्तारः-धर्मोपदेशकाः, ते च स्थविराः । कुलस्य गणस्य संघस्य च लौकिकस्य लोकोत्तरस्य च ये व्यवस्थाकारिणः तद्भश्च निग्राहकाः स्थविरास्ते तथा । षष्टिवर्षप्रमाणजन्मपर्याया जातिस्थविराः । समवायाद्यङ्गधारिणः श्रुतस्थविराः विंशतिवर्षप्रमाणप्रव्रज्यापर्यायवन्तः पर्यायस्थविरा इति ॥ २३६ ॥
प्रामस्थविरादयः संसारिण इति तत्पर्यायविशेषानाह
- बालक्रीडामन्दबलप्रज्ञाहायनीप्रपञ्चाप्राग्भारामुमुखीशायनीभेदा-10 दशा ॥ २३७॥
बालेति, यत्र काले मनुष्याणां वर्षशतमायुः स कालो वर्षशतायुष्कः, तत्र यः पुरुषः सोऽप्युपचाराद्वर्षशतायुष्को मुख्यवृत्त्या वर्षशतायुषि पुरुषे गृह्यमाणे पूर्वकोट्यायुष्कपुरुषकाले वर्षशतायुषः पुरुषस्य कस्यचित्कुमारत्वेऽपि बालादिदशादशकसमाप्तिः स्यात् , न चैवम् , ततः उपचार एव युक्तः, वर्षदशकप्रमाणाः कालकृता अवस्था दशा, वर्षशतायुग्रहणं विशिष्टतरदशस्थानकानुरोधात् , विशिष्ट-15 तरत्वञ्च वर्षदशकप्रमाणत्वात् , अन्यथा पूर्वकोट्यायुषोऽपि बालाद्या दशावस्था भवन्त्येव, केवलं दशवर्षप्रमाणा न भवन्ति, बहुवर्षा वा अल्पवर्षा वा स्युरिति । तत्र बालस्येयमवस्था धर्मधर्मिणोरभेदाद्वाला जातमात्रस्य जन्तोः प्रथमा दशा सुखदुःखानामत्यन्तविज्ञानाभावात् । क्रीडाप्रधाना दशा क्रीडा द्वितीया कामभोगेषु तीव्रमत्यनुदयात् । विशिष्टबलबुद्धिकार्योपदर्शनासमर्थो भोगानुभूतावेव च समर्थो यस्यामवस्थायां सा मन्दा तृतीया भोगोपार्जने मन्दत्वात् । यस्यां पुरुषस्य बलं भवति सा बलयोगा-20 दूला चतुर्थी बलदर्शनसामर्थ्यात् । ईप्सितार्थसम्पादनविषयायाः कुटुम्बाभिवृद्धिविषयाया वा बुद्धेर्योगादशापि प्रज्ञा पञ्चमी, हापयति-इन्द्रियाण्यपटूनि करोति यस्यां दशायां सा हायनी षष्ठी, कामेषु विरजनादिन्द्रियाणां क्षीणशक्तित्वाच्च । प्रपश्चयति-स्रंसयत्यारोग्यादिति प्रपञ्चा सप्तमी रोगजालोद्भूतः, प्राग्भारं ईषदवनतं गात्रं यस्यां भवति सा प्राम्भारा अष्टमी संकुचितवलिचर्मत्वात् , मोचनं-मुक् जराराक्षसीसमाकान्तशरीरगृहस्य जीवस्य मुचं प्रति मुखं यस्यां सा मुमुखी नवमी, शाययति-निद्रावन्तं करोति 25 यस्यां सा शायनी दशमी हीनभिन्नखरत्वाद्दीनत्वाहुर्बलत्वाञ्चेति ॥ २३७ ॥
अथ मङ्गलरूपं भगवन्तं महावीरं विघ्नविघाताय स्मरन् दशाऽऽश्चर्याण्याह
उपसर्गगर्भहरणस्त्रीतीर्थाभव्यपर्षत्कृष्णावरकंकागमनचन्द्रसूर्यावतरणहरिवंशकुलोत्पत्तिचमरोत्पाताष्टशतसिद्धासंयतपूजा आश्चर्याणि ॥ २३८ ॥