________________
२६६ . सूत्रार्थमुक्कावल्याम्
[चतुर्थी रुचिः । येन ह्याचारादिकं श्रुतमर्थतोऽधिगतं भवति सोऽभिगमरुचिः। विस्तारो व्यासः, ततो रुचियस्य सः, येन हि धर्मास्तिकायादिद्रव्याणां सर्वपर्यायाः सर्वैर्नयप्रमाणैर्शाता भवन्ति स विस्ताररुचिः,
ज्ञानानुसारिरुचित्वात् । क्रियानुष्ठानं तत्र रुचिर्यस्य, यस्य दर्शनाद्याचारानुष्ठाने भावतो रुचिरस्ति स . क्रियारुचिः। संक्षेपः संग्रहः तत्र रुचिर्यस्य, यो ह्यप्रतिपन्नकपिलादिदर्शनो जिनप्रवचनानभिज्ञश्च संक्षे5 पेणैव चिलातिपुत्रवदुपशमादिपदत्रयेण तत्त्वरुचिमवाप्नोति स संक्षेपरुचिः। धर्मे श्रुतादौ रुचिर्यस्य, यो हि धर्मास्तिकायं श्रुतधर्म चारित्रधर्म च जिनोक्तं श्रद्धत्ते स धर्मरुचिरिति ॥ २३३ ॥
अयश्च सम्यग्दृष्टिदशानामपि संज्ञानां क्रमेण व्यवच्छेदं करोतीति ता आह
आहारभयमैथुनपरिग्रहक्रोधमानमायालोभलोकौघाः संज्ञाः ॥२३४॥
आहारेति, संज्ञानं संज्ञा, आभोग इत्यर्थः, मनोविज्ञानमित्यन्ये, संज्ञायते वा आहाराद्यर्थी 10 जीवोऽनयेति संज्ञा वेदनीयमोहनीयोदयानया ज्ञानदर्शनावरणक्षयोपशमाश्रयाः च विचित्रा आहारादि
प्राप्तये क्रियैवेत्यर्थः, सा चोपाधिभेदाद्भिद्यमाना दशप्रकारा भवतीति, तत्र क्षुद्वेदनीयोदयात्कवलाद्याहारार्थं पुद्गलोपादानक्रियैव संज्ञायतेऽनयेति आहारसंज्ञा, भयवेदनीयोदयाद्भूयोद्धान्तस्य दृष्टिवदनवि
काररोमाञ्चोद्भेदादिक्रियैव संज्ञायतेऽनयेति भयसंज्ञा, पुंवेदाादयान्मैथुनाय रूयाद्यङ्गालोकनप्रसन्न.. वदनस्तंभितोरुवेपथुप्रभृतिलक्षणा च क्रियैव संज्ञायतेऽनयेति मैथुनसंज्ञा, लोभोदयात् प्रधानभव15 कारणाभिष्वङ्गपूर्विका सचित्तेतरद्रव्योपादानक्रिया च संज्ञायतेऽनयेति परिग्रहसंज्ञा, क्रोधोदयात्तदावेश
गर्भा प्ररूक्षमुखनयनदन्तच्छदचेष्टैव संज्ञायतेऽनयेति क्रोधसंज्ञा, मानोदयादहङ्काराधिकोत्सेकादिपरिणतिरेव संज्ञायतेऽनयेति मानसंज्ञा, मायोदयेनाशुभसंक्लेशादनृतसम्भाषणादिक्रियैव संज्ञायतेऽनयेति मायासंज्ञा, लोभोदयाल्लालसत्वान्वितात्सचित्तेतरद्रव्यप्रार्थनैव संज्ञायतेऽनयेति लोभसंज्ञा, मतिज्ञानाद्यावरणक्षयोपशमाऽच्छन्दाद्यर्थगोचरा सामान्यावबोधक्रियैव संज्ञायतेऽनयेत्योघसंज्ञा, तद्विशेषावबोध20 क्रियैव संज्ञायतेऽनयेति लोकसंज्ञा, ततश्चोघसंज्ञादर्शनोपयोगः, लोकसंज्ञा ज्ञानोपयोग इति ॥२३४॥
संज्ञावन्तो व्यवस्थावन्तोऽपि भवन्तीति सामान्येन धर्म निरूपयति
ग्रामनगरराष्ट्रपाखण्डकुलगणसंघश्रुतचारित्रास्तिकाया धर्माः ॥२३५॥
ग्रामेति, जनपदाश्रया ग्रामास्तेषां तेषु वा धर्म:-समाचारो व्यवस्थेति प्रामधर्मः, स प्रतिप्रामं भिन्नः, अथवा ग्रामः इन्द्रियग्रामो रूढेस्तद्धर्मों विषयाभिलाषः । नगरधर्मो नगराचारः सोऽपि 26 प्रतिनगरं प्रायो भिन्न एव, राष्ट्रधर्मो देशाचारः, पाखण्डधर्मः पाखण्डिनामाचारः, कुलधर्म:-उपादिकुलाचारः, अथवा कुलं चान्द्रादिकमाहतानां गच्छसमूहात्मकं तस्य धर्मः सामाचारी, गणधर्मो मल्लादिगणव्यवस्था, जैनानां वा कुलसमुदायो गणः कोटिकादिस्तद्धर्मः तत्सामाचारी, संघधर्मो गोष्ठीसमाचारः, आर्हतानां वा गणसमुदायरूपश्चतुर्वर्णो वा संघस्तद्धर्मस्तत्समाचारः, श्रुतमेवाचारादिकं
दुर्गतिप्रपतज्जीवधारणाद्धर्मः श्रुतधर्मः, चयरिक्तीकरणाच्चारित्रं तदेव धर्मश्चारित्रधर्मः, अस्तयः प्रदेशा30 स्तेषां कायो राशिरस्तिकायः स एव धर्मः, गतिपर्याये जीवपुद्गलयोर्धारणादित्यस्तिकायधर्म इति ॥२३५॥