SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ मुक्ता ] स्थानमुक्तासरिका । २६५ त्वान्निरवशेषमिति । केतनं केतचिह्नमङ्गुष्ठमुष्टिग्रन्थिगृहादिकं स एव केतकः तत्सहितं सकेतकम् । अद्धा कालः पौरुष्यादिकालमानमाश्रित्येति भावः ॥ २३९ ॥ प्रत्याख्यानस्य साधुसामाचारीत्वादन्यामपि सामाचारीं निरूपयति— इच्छामिथ्यातथाकारावश्यकीनैवेधिक्यापृच्छनाप्रतिपृच्छाछन्दनानि - मंत्रणोपसम्पदः सामाचार्यः ॥ २३२ ॥ इच्छेति, संव्यवहारः सामाचारी, इच्छाकारः बलाभियोगमन्तरेण करणम्, इच्छापूर्वकं करणं न बलाभियोगपूर्वकमित्यर्थः । मिथ्याकारो मिथ्याक्रिया तथा च संयमयोगे वितथाचरणे विदितजिनवचनसाराः साधवस्तत्क्रियावैतथ्यप्रदर्शनाय मिथ्याकारं कुर्वते मिथ्याक्रियेयमिति । तथाकरणं तथाकारः स च सूत्रप्रश्नादिगोचरः यथा भवद्भिरुक्तं तथैवेदमित्येवंस्वरूपः, अयन पुरुष विशेष विषय एव प्रयोक्तव्यः । अवश्यकर्त्तव्यैर्योगैर्निष्पन्नाऽऽवश्यकी, एतत्प्रयोग आश्रयान्निर्गच्छत आवश्य- 10 कयोगयुक्तस्य साधोर्भवति । नैषेधिकी-व्यापारान्तरनिषेधरूपा, प्रयोगश्चास्या आश्रये प्रविशत इति । आपृच्छनमापृच्छा सा विहारभूमिगमनादिषु प्रयोजनेषु गुरोः कार्या । प्रतिपृच्छा-प्रतिप्रश्नः, सा च प्राभियुक्तेनापि करणका कार्या पूर्वं निषिद्धेन वा प्रयोजनतस्तदेव कर्त्तुकामेनेति । छन्दना प्राग्गृहीतेनाशनादिना कार्या । निमंत्रणा - अगृहीतेनैवाशना दिना भवदर्थमहमशनादिकमानयाम्येवम्भूता । उपसम्पत् - इतो भवदीयोऽहमित्यभ्युपगमः सा च ज्ञानदर्शनचारित्रार्थत्वात्रिधा, तत्र ज्ञानोपसम्पत् 15 सूत्रार्थयोः पूर्वगृहीतयोः स्थिरीकरणार्थं तथा वित्रुटितसन्धानार्थं तथा प्रथमतो ग्रहणार्थं उपसम्पद्यते दर्शनोपसम्पदप्येवं किन्तु दर्शनप्रभावकसम्मत्यादि शास्त्रविषया, चारित्रोपसम्पश्च वैयावृत्त्यकरणार्थं क्षपणार्थञ्चोपसम्पद्यमानस्येति ॥ २३२ ॥ I दर्शनविषयाप्युपसम्पद्भवति तच दर्शनं सरागसम्यग्दर्शनमपीति तन्निरूपयति— निसर्गोपदेशाज्ञासूत्रबीजाधिगमविस्तारक्रियासंक्षेपधर्मरुचयः सराग - 20 5 सम्यग्दर्शनानि ॥ २३३ ॥ निसर्गेति, सरागस्य - अनुपशान्ताक्षीणमोहस्य यत्सम्यग्दर्शनं तत्त्वार्थश्रद्धानं तत्तथा । तत्र निसर्गः - स्वभावस्तेन रुचिः - तत्त्वाभिलाषरूपाऽस्येति निसर्गतो रुचिरिति वा निसर्गरुचिः, यो हि जातिस्मरणप्रतिभादिरूपया स्वमत्याऽवगतान् सद्भूतान् जीवादिपदार्थान् श्रद्दधाति स निसर्गरुचिः । उपदेशो गुर्वादिना कथनम्, तेन रुचिर्यस्येत्युपदेशरुचिः, यो हि जिनोक्तानेव जीवादीनर्थान् तीर्थक- 25 रशिष्यादिनोपदिष्टान् श्रद्धत्ते स उपदेशरुचिः । आज्ञा - सर्वज्ञवचनं, तथारुचिर्यस्य स तथा, यो हि प्रतनुरागद्वेषमिथ्याज्ञानतयाऽऽचार्यादीनामाज्ञयैव कुग्रहाभावाज्जीवादि तथेति रोचते माषतुषादिवत् स आज्ञारुचिः । सूत्रेण रुचिर्यस्य स सूत्ररुचिः, यो हि सूत्रागममधीयानस्तेनैवाङ्ग प्रविष्टादिना सम्यक्त्वं लभते गोविन्दवाचकवत् स सूत्ररुचिः बीजमिव बीजं यदेकमप्यनेकार्थप्रतिबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः यस्य ह्येकेनापि जीवादिना पदेनावगतेनानेकेषु पदार्थेषु रुचिरुपैति स बीज - 30 सू० मु० ३४
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy