SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ मुक्ता] समवायमुक्तासरिका। २७३ रूपां दिव्यां देवर्द्धिविशिष्टां शरीराभरणादिदीप्तिं उत्तमवैक्रियकरणादिप्रभावं दर्शयितुं समुत्पद्यते, देवदर्शनाच्चागमार्थेषु श्रद्धानदाढ्यं धर्मे बहुमानश्च भवतीति ततश्चित्तसमाधिरिति देवदर्शनं चित्तसमाधिस्थानं चतुर्थम् । अवधिज्ञान-तदपि तस्यासमुत्पन्नपूर्व मर्यादया नियतद्रव्यक्षेत्रकालभावरूपेण लोकज्ञानाय समुत्पद्यते ततश्चित्तसमाधिर्भवतीति पश्चमम् । एवमवधिदर्शनमपीति षष्ठम् । मनःपर्यवज्ञानम्तत्तस्यासमुत्पन्नपूर्वं अर्धतृतीयद्वीपसमुद्रेषु संज्ञिनां पञ्चेन्द्रियाणां पर्याप्तकानां मनोगतभावज्ञानाय 5 समुत्पद्यते इति सप्तमम् । केवलज्ञानं तस्यासमुत्पन्नपूर्वं लोकालोकस्वरूपवस्तुज्ञानाय समुत्पद्यते समाधिभेदत्वाच्च केवलज्ञानस्य चित्तसमाधिस्थानता, इह चामनस्कतया केवलिनश्चित्तं चैतन्यमवसेयमित्यष्टमम् । तथा केवलदर्शनं नवमम् । केवलिमरणं तस्यासमुत्पन्नपूर्वं सर्वदुःखप्रहाणाय भवेत्, इदन्तु केवलिमरणं सर्वोत्तमसमाधिस्थानमेवेति दशममिति ॥ ७ ॥ अथ समाध्यन्तरेण श्रावकप्रतिमानामभावात् ता आह 10 दर्शनश्रावककृतव्रतकर्मसामायिकपौषधोपवासरात्रिपरिमाणप्रकटप्रकाशभुक्सचित्तारम्भप्रेष्योद्दिष्टभक्तपरिज्ञातश्रमणभूता एकादशोपासकप्रतिमाः॥८॥ दर्शनश्रावकेति, श्रमणान् ये उपासन्ते सेवन्ते ते उपासका:-श्रावकास्तेषां प्रतिमा:-प्रतिज्ञा अभिग्रहरूपा उपासकप्रतिमाः, तत्र दर्शनं सम्यक्त्वं प्रतिपन्नः श्रावको दर्शनश्रावकः, प्रतिमाप्रकरणे- 15 ऽप्यत्र तद्वतोऽभिधानमभेदोपचारात्, एवमुत्तरत्रापि, सम्यग्दर्शनस्य शङ्कादिशल्यरहितस्याणुव्रतादिगुणविकलस्य योऽभ्युपगमः मासं यावत् , सा प्रतिमा प्रथमा, सम्यग्दर्शनादिप्रतिपत्तिश्चास्य पूर्वमप्यासीत् केवलमिह शंकादिदोषराजाभियोगाद्यपवादवर्जितत्वेन तथाविधसम्यग्दर्शनाचारविशेषपालनाभ्युपगमेन च प्रतिमात्वम् । कृतव्रतकर्मा-येनाणुव्रतादीनां श्रवणज्ञानवाञ्छाप्रतिपत्तिढिमासपर्यन्तं कृता स प्रतिपन्नदर्शनः कृतव्रतकर्मा, प्रतिपन्नाणुव्रतादिरिति भाव इतीयं द्वितीया । कृतसामायिकः 20 येन देशतः सावद्ययोगपरिवर्जननिरवद्ययोगासेवनस्वभावं सामायिकं विहितं स कृतसामायिकः, तदेवं प्रतिपन्नपौषधस्य दर्शनव्रतोपेतस्य प्रतिदिनमुभयसंध्यं मासत्रयं यावत्सामायिककरणमिति तृतीया प्रतिमा । पोष-पुष्टिं धत्ते कुशलधर्माणां यदाहारत्यागादिकमनुष्टानं तत्पौषधं तेनोपवसनम्-अवस्थानं अहोरात्रं यावदिति पौषधोपवासः, यद्वा पौषधं पर्वदिनमष्टम्यादि, तत्रोपवासः-अभक्तार्थः पौषधोपवास इति, इयं व्युत्पत्तिरेव, प्रवृत्तिस्त्वस्य शब्दस्य आहारशरीरसत्कारा ब्रह्मचर्यव्यापारपरिवर्जनेष्विति, 25 तत्र कृतपौषधोपवासः पौषधोपवासे निरतः-आसक्तः इत्यर्थः, एवंविधश्रावकस्य चतुर्थी प्रतिमा, अयमत्र भावः पूर्वप्रतिमात्रयोपेतः अष्टमीचतुर्दश्यमावास्यापौर्णमासीष्वाहारपौषधादि चतुर्विधं पौषधं प्रतिपद्यमानस्य चतुरो मासान् यावच्चतुर्थी प्रतिमा भवतीति । तथा पञ्चमीप्रतिमायामष्टम्यादिषु पर्वस्वेकरात्रिकप्रतिमाकारी भवति, तथा शेषदिनेषु कृतरात्रिपरिमाणः रात्रौ कृतं स्त्रीणां तद्भोगानां वा परिमाणं-प्रमाणं येन तथाविधः, दिवा तु ब्रह्मचारी, अयम्भावः दर्शनव्रतसामायिकाष्ठम्यादि-30 पौषधोपेतस्य पर्वस्वेकरात्रिकप्रतिमाकारिणः शेषदिनेषु दिवा ब्रह्मचारिणो रात्रावब्रह्मपरिमाणकृतोऽना सू.मु०३५
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy