Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 324
________________ मुक्ता] समवायङ्गिमुक्तासरिका । वयवे समुदायोपचारात् , ऋतुरेव मासः परिपूर्णत्रिंशदहोरात्रप्रमाणः ऋतुमासः कर्ममासः सावनमास इति वा व्यवह्रियते, युगश्च चन्द्रश्चन्द्रोऽभिवर्द्धितश्चन्द्रोऽभिवर्द्धितश्चेति पञ्चभिः संवत्सरैर्मीयमानः कालविशेषः स च प्रमाणेनाष्टादशशतमितः त्रिंशदुत्तराण्यहोरात्राणां भवति, तस्य च प्रमाणस्य त्रिंशता भागाहारे लब्धा एकषष्टिः ऋतुमासा इति ॥ ५३ ॥ युगस्य चन्द्रमासगर्भितत्वेन चन्द्रस्य प्रतिदिनावस्थामाह पक्षयोः प्रत्यहं चन्द्रो द्विषष्टिभागान् हीयते वर्द्धते च ॥ ५४॥ पक्षयोरिति, कृष्णशुक्लपक्षयोरित्यर्थः, चन्द्रमसो वृद्ध्यपवृद्धी अष्टौ मुहूर्तशतानि पञ्चाशीत्यधिकानि, एकस्य मुहूर्त्तस्य त्रिंशतं द्वाषष्टिभागान् यावत् । एकस्य चन्द्रमासस्य मध्ये एकस्मिन् पक्षे चन्द्रमसो वृद्धिरेकस्मिंश्चापवृद्धिः, चन्द्रमासस्य परिमाणमेकोनत्रिंशद्रात्रिन्दिनानि एकस्य रात्रिंदिवस्य द्वात्रिंशहाषष्टिभागाः, रात्रिंदिवं च त्रिंशन्मुहूर्तकरणार्थमेकोनत्रिंशता गुण्यते, जातान्यष्टौ शतानि सप्तत्यधि- 10 कानि मुहूर्तानाम् । येऽपि द्वाषष्टिभागा रात्रिंदिवस्य तेऽपि मुहूर्तसत्का भागकरणार्थं त्रिंशता गुण्यन्ते, जातानि नवशतानि षट्यधिकानि तेषां द्वाषष्ट्या भागो ह्रियते लब्धाः पञ्चदश मुहूर्ताः ते मुहूर्तराशौ प्रक्षिप्यन्ते जातानि मुहूर्तानामष्टौ शतानि पञ्चाशीत्यधिकानि शेषाश्च त्रिंशहाषष्टिभागा मुहूर्तस्य । तत्र चन्द्रश्चत्वारि मुहूर्तशतानि द्वाचत्वारिंशदधिकानि षट्चत्वारिंशतश्च द्वाषष्टिभागान् मुहूर्तस्य यावदपवृद्धिं गच्छति-राहुविमानप्रभया रज्यते, प्रतिपत्तिथौ परिसमाप्नुवत्यां परिपूर्ण प्रथमं पश्चदशं भागं यावद्र-15 ज्यते, एवं द्वितीयादितिथिषु यावत्पश्चदश्यां तिथौ परिसमाप्नुवयां परिपूर्ण पञ्चदशभागं यावत् , तस्याश्च पञ्चदश्याश्चरमसमये चन्द्रः सर्वात्मना राहुविमानप्रभया रक्तो भवति, यस्तु षोडशो भागो द्वाषष्टिभागद्वयात्मकोऽनावृत्य तिष्ठति स स्तोकत्वाददृश्यत्वाच न गण्यते ॥ ५४॥ ननु जम्बूद्वीपे पञ्चषष्टिः सूर्यमण्डलानामुक्ता, तत्र कुत्र कियन्ति मण्डलानि वर्तन्त इत्यत्राह निषधे नीलवति च त्रिषष्टिस्सूर्यमण्डलानि ॥ ५५ ॥ निषध इति, महाविदेहस्य दक्षिणस्यां हरिवर्षस्योत्तरस्यां पौरस्त्यलवणोदस्य पश्चिमायां पश्चिमलवणसमुद्रस्य पूर्वस्यां जम्बूद्वीपे निषधो नाम वर्षधरपर्वतश्चत्वारियोजनशतानि ऊर्वोच्चत्वेन योजनशतान्युद्वेधेन भूप्रवेशेन मेरुवर्जसमयक्षेत्रगिरीणां स्वोच्चत्वचतुर्थांशेनोद्वेधत्वात् , षोडशयोजनसहस्राणि द्विचत्वारिंशदधिकानि अष्टौ च योजनशतानि द्वौ चेकोनविंशतिभागौ योजनस्य विष्कम्भेण वर्त्तते, महाहिमवतो द्विगुणविष्कम्भमानत्वात् , यत्र बहूनि कूटानि निषधसंस्थानसंस्थितानि, यत्र च निषधो नाम 25 देवोऽधिपतित्वमुद्वहति, तत्पर्वतस्य चोपरि तथा महाविदेहस्योत्तरेण रम्यकवर्षस्य दक्षिणेन पूर्वलवणसमुद्रस्य, पश्चिमेन पश्चिमलवणोदस्य पूर्वेण निषधसमानमानो नीलवन्नाम वर्षधरपर्वतो नीलवन्नामकदेवाधिष्ठितो वर्तते तस्य चोपरि त्रिषष्टिः सूर्यमण्डलानि भवन्ति, हरिवर्षजीवाकोट्यां रम्यकजीवाकोट्याश्च द्वे मण्डले भवतः ॥ ५५ ॥ केचित्प्रतिमाविशेषभृतो ज्योतिष्कदेवत्वेनोत्पद्यन्त इति प्रतिमाविशेषमाह अष्टाष्टमिका प्रतिमा चतुःषष्ठिरात्रिंदिवप्रमाणा ॥ ५६ ॥ सू० मु. ३०

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340