Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 329
________________ ३०२ सूत्रार्थमुक्तावल्याम् [पञ्चमी दाह उपशान्तस्तेन शीतल इति नाम । पञ्चविंशतिपूर्वसहस्राणि कुमारत्वे राज्ये च पञ्चाशदिति गृहवासोऽस्य पञ्चसप्ततिः पूर्वसहस्राणि, ततः प्रव्रज्य केवलीभूतः, व्रतपर्यायोऽस्य पश्चविंशतिः पूर्वाणां सहस्राणि । शान्तिः भरतवर्षे वर्तमानावसर्पिण्यां जातः षोडशतीर्थकरः, अस्मिन् गर्भगते पूर्व यन्महदशिवमासीत्तस्योपशमो जातस्तेन कारणेन शान्तिजिनः, अस्य भगवतः कुमारत्वे पञ्चविंशतिवर्षसह5 स्राणि माण्डलिकत्वेऽपि पञ्चविंशतिवर्षसहस्राणि चक्रित्वे पञ्चविंशतिसहस्राणि श्रामण्ये च पञ्चविंशतिवर्षसहस्राणि दीक्षापर्यायः सर्वायुश्च वर्षलक्षमेकं जातम् ॥ ६६ ॥ तीर्थपतिप्रोक्तभवनावासानाह विद्युत्कुमाराणां षट्सप्ततिर्भवनावासलक्षाणि ॥ ६७ ॥ विद्युदिति, भवनवासिनां देवानां दशस्वपि निकायेषु संपीड्य चिन्त्यमानानि सर्वाण्यपि भव10 नानि सप्तकोट्यो द्वासप्ततिश्च शतसहस्राणि, एतानि चाशीतिसहस्राधिकलक्षयोजनबाहल्याया रत्नप्रभायाश्चाध उपरि च प्रत्येकं योजनसहस्रमेकं मुक्त्वा यथासम्भवमावासा इति, शेषेऽष्टसप्ततिसहस्राधिकलक्षयोजनप्रमाणे मध्यभागेऽवगन्तव्यानि, अन्ये त्वाहुर्नवयोजनसहस्राणामधस्ताद्भवनानि, अन्यत्र चोपरितनमधस्तनञ्च योजनसहस्रं मुक्त्वा सर्वत्रापि यथासम्भवमावासा इति, तत्रासुरकुमारादीनां दक्षिणोत्तरदिग्भाविनां सर्वसंख्यया भवनानि चतुःषष्टिशतसहस्राणि, नागकुमाराणां चतुरशीतिलक्षा:, 15 सुवर्णकुमाराणां द्विसप्ततिलक्षाः, वायुकुमाराणां षण्णवतिर्लक्षाः, द्वीपकुमारदिकुमारोदधिकुमारविद्यु कुमारस्तनितकुमाराग्निकुमाराणां षण्णामपि दक्षिणोत्तरदिग्वतिलक्षणयुग्मरूपाणां प्रत्येकं षट्सप्ततिलक्षा भवन्ति भवनानाम्, एषाश्च सर्वेषामप्येकत्र मीलने प्रागुक्ताः संख्या भवन्तीति ॥ ६७ ॥ देवाधिकारागर्दतोयादिपरिवारमाह गर्दतोयतुषितानां परिवारः सप्तसप्ततिसहस्राणि ॥६॥ 20 गईतोयेति, ब्रह्मलोकस्याधस्तात् रिष्टाख्यो विमानप्रस्तटो वर्त्तते, एतस्य आखाटकवत् समचतुरस्रसंस्थानसंस्थिता अष्ट कृष्णराजयः कालपुद्गलपंक्तियुक्तक्षेत्रविशेषा वर्तन्ते, एतासामष्टानां कृष्णराजीनामष्टस्खवकाशेषु राजीद्वयमध्यलक्षणेषु अष्टौ लोकान्तिकविमानानि भवन्ति, एषु चाष्टविधेषु लोकान्तिकविमानेषु सारस्वतादित्यवह्निवरुणगईतोयतुषिताव्याबाधाग्नेयनामानोऽष्टविधा देवनिकाया भवन्ति तत्र गर्दतोयानां तुषितानाश्च देवानामुभयपरिवारसंख्यामीलनेन सप्तसप्ततिर्देवसहस्राणि परिवारः॥६॥ 25 परिवारः स्वामिनो भवति अतः सुवर्णद्वीपकुमारावाससंख्यापूर्वकं स्वामिनमाहअष्टसप्तत्याः सुवर्णद्वीपकुमारावासशतसहस्राणां वैश्रवणो महाराजा ॥६९॥ अष्टसप्तत्या इति, सोमयमवरुणवैश्रवणाभिधानानां लोकपालानां चतुर्थ उत्तरदिपालो वैश्रवणः, स हि वैश्रवणदेवनिकायानां सुवर्णकुमारदेवदेवीनां द्वीपकुमारदेवदेवीनां व्यन्तरव्यन्तरीणा लाधिपत्यं करोति, तदाधिपत्याच्च तन्निवासानामप्याधिपत्यमसौ करोतीत्युच्यते, तत्र सुवर्णकुमाराणां 30 दक्षिणस्यामष्टत्रिंशद्भवनलक्षाणि द्वीपकुमाराणाञ्च चत्वारिंशदित्येवमष्टसप्ततिरिति ॥ ६९ ॥

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340