Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 334
________________ मुक्का ] समवायाङ्गमुक्तासरिका । ३०७ भावात्सर्वायुः पञ्चनवतिर्वर्षसहस्राणि भवन्ति । मौर्यपुत्रो महावीरस्य सप्तमगणधरस्तस्य सर्वायुः पश्चनवतिर्वर्षाणि, गृहस्थस्वछद्मस्थत्व केवलित्वेषु क्रमेण पञ्चषष्टिचतुर्दशषोडशानां वर्षाणां भावात् ॥ ८३ ॥ भवानावासादपि गणधरा आगच्छन्तीति भवनसंख्याविशेषमाह वायुकुमाराणां षण्णवतिर्भवनलक्षाणि ॥ ८४ ॥ वारिवति, असुरनागविद्युत्सुवर्णाग्निवायुस्तनितोदधिद्वीपदिकुकुमारा दशविधा भवनवासिनः, 5 तत्र भवनानि दक्षिणोत्तर दिग्भावीनि सर्वसंख्यया चतुःषष्टिशतसहस्राण्यसुरकुमाराणाम्, नागकुमाराणां चतुरशीतिलक्षाः, सुवर्णकुमाराणां द्विसप्ततिलक्षाः, वायुकुमाराणां षण्णवतिलक्षाः, शेषाणां प्रत्येकं षट्सप्ततिलक्षा भवनानां भवन्ति ॥ ॥ ८४ ॥ कुमाराणामष्टविधकर्माश्रयत्वात्तदुत्तरभेदानाचष्टे— अष्टानां कर्मप्रकृतीनां सप्तनवतिरुत्तरप्रकृतयः ॥ ८५ ॥ अष्टानामिति, यो मिध्यात्वादिकलुषितरूपतयाऽसातादिवेदनीयादिकर्मणामभिनिर्वर्त्तकस्तत्फलस्य च विशिष्ट सातादेरुपभोक्ता नरकादिभवेषु च यथा कर्मविपाकोदयं संसर्त्ता सम्यग्दर्शनज्ञानचारित्र सम्पन्नरत्नत्रयाभ्यासप्रकर्षवशाच निःशेषकर्मांशापगमतः परिनिर्वाता स जीवः, तेन जीवेन येन मिध्यात्वाविरतिकषाययोगलक्षणसामान्यकारणेन क्रियते विधीयतेऽञ्जनचूर्णपूर्ण समुद्गकवन्निरन्तर पुद्गलनिचिते लोके क्षीरनीरन्यायेन वह्नययः पिण्डवद्वा कर्मवर्गणाद्रव्यमात्मसम्बद्धं येन तत्कर्म - आत्मत्वेना - 15 विशिष्टानामात्मनां देवासुरमनुज तिर्यगादिनृपतिदरिद्रमनीषिमन्दादिवैचित्र्यहेतुत्वेन सिद्धम्, तच्च कर्म यैर्मथ्यात्वादिभिश्चतुर्भिः क्रियते ज्ञानावरणदर्शनावरणवेदनीयमोहनीयान्तरायायुर्नामगोत्ररूपेणाष्टविधम्, कर्मणामेषां मूलप्रकृतिरूपाणामुत्तरप्रकृतयो यथा पञ्च ज्ञानावरणस्य नव दर्शनावरणस्य वेदनीयस्य द्वे मोहनीयस्याष्टाविंशतिरन्तरायस्य पश्चाऽऽयुषश्चतस्त्रो नानो द्विचत्वारिंशद्गोत्रस्य द्वे इति सर्वसंख्यया सप्तनवतिरिति ॥ ८५ ॥ पृथ्वीमयनन्दनस्य कर्मप्रकृतिजातत्वात्तदाश्रयेणाह - 10 20 नन्दनवनस्योपरिष्टाच्चरमान्ततः पाण्डुकवनस्याधस्तनचरमान्तं यावदष्टनवतिर्योजनसहस्राण्यन्तरं नन्दनवनस्य पूर्वचरमान्तात्पश्चिमचरमान्तं यावन्नवनवतिर्योजनशतानि च ॥ ८६ ॥ नन्दनवनस्येति, नन्दनवनं मेरोः पञ्च योजनशतोच्छ्रितप्रथममेखलाभाविपचयोजनशतो- 25 च्छ्रितं तद्गततावन्मानोच्छ्रितकूटाष्टकस्य तद्ग्रहणेन ग्रहणात् पाण्डुकवनं सौमनसवनस्य बहुसमभूमिभागादूर्ध्वं षटूत्रिंशद्योजन सहस्राण्युत्प्लुत्यास्मिन्मन्दरपर्वते शिखरतले वर्त्तमानम्, तत्र नवनवत्या मेरोरुचैस्त्वस्याद्ये सहस्रेऽपकृष्टे यथोक्तमन्तरं भवति । मेरोर्विष्कम्भो मूले दशसहस्राणि, नन्दनवनस्थाने तु नवनवतिर्योजनशतानि चतुःपञ्चाशच योजनानि षट् योजनैकादशभागा बाह्यो गिरिविष्कम्भो नन्दनवनाभ्यन्तरस्तु मेरुविष्कम्भ एकोननवतिः शतानि चतुःपञ्चाशदधिकानि षट् चैकादशभागास्तथा पञ्च - 30 शतानि नन्दनवनविष्कम्भः, तदेवमभ्यन्तर गिरिविष्कम्भो द्विगुणनन्दनवनविष्कम्भच मिलितो यथाक्तमन्तरं प्रायो भवतीति ॥ ८६ ॥

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340