Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 332
________________ मुक्ता] समवायाजमुक्तासरिका। ३०५ गणधरोक्तमन्तरविशेषमाह मेरुपूर्वान्तगोस्तूभचरमान्तयोरन्तरं सप्ताशीतिरष्टाशीतिश्च योजनसहस्राणि ॥ ७७॥ मेर्विति, मेरोः पौरस्त्यान्ताद्गोस्तूभस्यावासपर्वतस्य पश्चिमचरमान्तं यावदन्तरं सप्ताशीतियोजनसहस्राणि, पूर्वान्ताज्जम्बूद्वीपान्तः पञ्चचत्वारिंशद्योजनसहस्राणि द्विचत्वारिंशद्योजनसहस्राणि । लवणजलधिमवगाह्य गोस्तूभो वेलंधरनागराजावासपर्वतः प्राच्यां दिशि वर्त्ततेऽत उक्तमन्तरं भवति, गोस्तूभस्य पूर्वचरमान्तविवक्षायान्तु गोस्तूभस्य सहस्रयोजनविष्कम्भत्वात्तस्यापि मीलनेनाष्टाशीतियोजनसहस्राण्यन्तरं भवतीति ॥ ७७॥ ___ मेरौ ऋषभेति शाश्वतनामभृन्मूर्तेः सत्त्वात्तत्संबन्धादृषभनिर्वाणकालमाह ऋषभजिनोऽवसर्पिणीसुषमदुःषमायामेकोननवतिपक्षशेषे संसारादु- 10 परतः ॥ ७८॥ ऋषभेति, ऋषभोऽहन्नैक वर्षसहस्रं छद्मस्थपर्यायं पूरयित्वैकं पूर्वलक्षं वर्षसहस्रोनं केवलिपर्यायं प्राप्य चतुरशीतिपूर्वलक्षाणि सर्वायुरुपभुज्य माघमासकृष्णपक्षत्रयोदशीदिने दशभिरनगारसहनैः साधं संपरिवृतोऽष्टापदशैलशिखरे चतुर्दशेन भक्तनापानकेन पद्मासनेन निषण्णोऽस्यामवसर्पिण्या सुषमदुःषमायामेकोननवतिपक्षेषु शेषेषु नक्षत्रेणाभिजिता योगमुपागते चन्द्रे पूर्वाह्नकालस-15 मये कालं गतः सर्वदुःखप्रहीणो जातः ।। ७८॥ तीर्थंकरसाम्यात्तद्विशेषमाह अजितस्य शान्तिनाथस्य च गणा गणधराश्च नवतिर्नवतिवर्षाणि च खयम्भुवो विजयः॥७९॥ ___ अजितस्येति, सुगमम् , स्वयम्भूरस्यामवसर्पिण्यां जातस्तृतीयो वासुदेवस्तस्य नवतिवर्षाणि 20 पृथिवीसाधनव्यापारः ॥ ७९ ॥ तीर्थकृतामपि वैयावृत्त्यं भवतीति वैयावृत्त्यमाह परवैयावृत्त्यकर्मप्रतिमा एकनवतिः ॥ ८॥ परेति, परेषां स्वव्यतिरिक्तानां वैयावृत्त्यकर्मणि भक्तपानादिभिरुपष्टम्भक्रियाविषये प्रतिमा अभिप्रहविशेषाः, एतानि प्रतिमात्वेनाभिहितानि कचिदपि नोपलब्धानि केवलं विनयबैयावृत्त्यभेदा 25 एते सम्भवन्ति, तथाहि-दर्शनगुणाधिकेषु सत्कारादिर्दशधा विनयः, तत्र सत्कारो वन्दनादिः, अभ्युत्थानं-आसनत्यागः, सन्मानो-वस्त्रादिपूजनम् , आसनाभिग्रहः-तिष्ठत एवासनानयनपूर्वकमुपविशतात्रेति भणनम् , आसनानुप्रदानं-आसनस्य स्थानात् स्थानान्तरसञ्चारणम् , कृतिकर्म अञ्जलिप्रमहो गच्छतोऽनुगमनं स्थितस्य पर्युपासनमागच्छतोऽभिमुखगमनम् । तथा तीर्थंकरादीनां पञ्चदशानां पदानामनाशावनादिपदचतुष्टयगुणितत्वे षष्टिविधोऽनाशातनाविनयो भवति । औपचारिकविनयः सप्तथा 30 अभ्यासासनं-उपचरणीयस्यान्तिकेऽवस्थानम्, छन्दोऽनुवर्तनं-अभिप्रायानुवृत्तिः, कृतप्रतिकृतिः' सू.मु. ३९

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340