Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 330
________________ मुका] समवापानमुक्तासरिका। दिग्विशिष्टस्थितत्वाद्वैश्रमणस्य दिगुपस्थितेस्तद्गतद्वारान्तरमाह विजयादिद्वाराणामन्योन्यमन्तरं सातिरेकाण्येकोनाशीतियोजनसहस्राणि ॥ ७० ॥ विजयेति, जम्बूद्वीपस्य जगत्याश्चत्वारि द्वाराणि विजयवैजयन्तजयन्तापराजिताभिधानानि चतुश्चतुर्योजनविष्कम्भानि गव्यूतपृथुलद्वारशाखानि क्रमेण पूर्वादिदिक्षु भवन्ति, तेषां द्वारस्य चान्योऽन्यं । एकोनाशीतियोजनसहस्राणि सातिरेकाणीत्येवंलक्षणं व्यवधानरूपमन्तरं भवति, जम्बूद्वीपपरिधेः ३१६२२७ योजनानि क्रोशाः ३ धनूंषि १२८ अङ्गुलानि १३ सार्धानीत्येवंलक्षणस्यापकर्षितद्वारद्वारशाखाविष्कम्भस्य चतुर्विभक्तस्यैवंफलत्वादिति ॥ ७० ॥ द्वारान्तरस्य परिमाणरूपत्वेन परिमाणविशेषमाह श्रेयांसस्त्रिपृष्ठोऽचलश्चोर्द्धत्वेनाशीतिधनुर्देहमानः ॥ ७१॥ 10 श्रेयांस इति, अस्यामवसर्पिण्या जात एकादशो जिनः श्रेयांसः, स एकविंशतिवर्षलक्षाणि कुमारत्वे तावन्त्येव प्रव्रज्यायां द्विचत्वारिंशद्राज्य इति चतुरशीतिमायुः पालयित्वा सिद्धः, तस्य देहमानमुत्सेधाङलेनाशीतिधनुः, आत्माङ्गुलेन च सर्वे जिनाश्चतुर्विंशतिरपि विंशत्यधिकशताङ्गुलप्रमाणदेहाः, श्रेयांसजिनकालभावी त्रिपृष्ठो वासुदेवः प्रथमः चतुरशीतिवर्षलक्षायुष्कः, चत्वारि लक्षाणि कुमारत्वे, शेषन्तु महाराज्ये । अचलो बलदेवोऽपरविदेहे सलिलावतीविजये वीतशोकायां नगर्या जितशत्रोः 15 राज्ञो मनोहारीभार्यायामुत्पन्नः ॥ ७१ ॥ देहस्य सारं व्रतधारणं चेति व्रतात्मकप्रतिमाविशेषमाह नवनवमिकायां प्रतिमायामेकाशीतिरात्रिंदिनानि ॥७२॥ नवेति, नव नवमानि दिनानि यस्यां सा, नवसु नवकेषु नव नवमदिनानि भवन्ति तस्याश्च प्रतिमायां एकाशीती रात्रिंदिनानि भवन्ति, नवानां नवकानामेकाशीतिरूपत्वात् , तत्र प्रथमे नवके 20 प्रतिदिनमेकैका भिक्षा, एवमेकोत्तरया वृद्ध्या नवमे नवके नव नवेति सर्वासां पिण्डने चत्वारि पञ्चोतराणि भिक्षाशतानि भवन्ति ॥ ७२ ॥ प्रतिमाप्रतिपादकमहावीरस्य गर्भसङ्क्रमणकालमाह महावीरो व्यशीत्यहोरात्रातिकमे त्र्यशीतितमे दिने गर्भादर्भान्तरं । नीतः॥७३॥ ___ महावीर इति, चतुर्विंशतितमस्तीर्थकरो महावीरः स देवानन्दाब्राह्मणीकुक्षीतः त्रिशलाभिधानक्षत्रियाकुक्षि आषाढशुक्लषष्ठ्या आरभ्य व्यशीत्यां रात्रिंदिवेष्वतिक्रान्तेषु व्यशीतितमे दिने वर्तमाने आश्वयुजकृष्णत्रयोदश्यां अईदादयः अत्याधमतुच्छदरिद्रकृपणभिक्षाककुलेषु न कदाप्युत्पद्यन्ते किन्तु उप्रभोगराजन्येक्ष्वाकुक्षत्रियहरिवंशादिकुलेषु विशुद्धजातिकुलवंशेष्वेवेति विचिन्तितेन देवेन्द्रेण प्रेषितेन हरिनैगमेषिणा नीतः ॥ ७३ ॥ 26

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340