Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 338
________________ मुक्ता] समवायाङ्गमुक्तासरिका। अनुत्तरः प्रधानः संसारेऽन्यस्य तथाविधस्याभावादुपपातो येषां ते तथा, त एवानुत्तरोपपातिकास्तद्वक्तव्यताप्रतिपादका दशाः दशाध्ययनोपलक्षिता अनुत्तरोपपातिकदशाः, तत्रानुत्तरोपपातिकानां-साधूनां नगराण्युद्यानानि चैत्यानि वनखण्डा राजान एवमादयो वर्ण्यन्ते तथा परममाङ्गल्यत्वेन जगद्धितानि तीर्थकरसमवसरणानि जिनातिशेषा अत्रैव द्वात्रिंशसूत्रे उक्ता अतिशयाः जिनशिष्याणां श्रमणोत्तमानां गणधरादीनां स्थिरयशसां परीषहवृन्दप्रमईकानां तपोदीप्तज्ञानचारित्रदर्शनानां प्रशस्तक्षमागुणध्वजानां । श्लाघा आख्यायन्ते तथा ये यत्र यावन्ति च भक्तानि छेदयित्वा लब्ध्वा च समाधिमुत्तमं जिनवरध्यानयोगयुक्ता उपपन्ना मुनिवरोत्तमा यथा अनुत्तरेषु प्राप्नुवन्ति चानुत्तरविमानेषु यथा विषयसुखं तत्सर्वमनुत्तरोपपातिकदशावाख्यायते ॥ ९६ ॥ अथ दशमानवक्तव्यतां विशदीकरोति प्रश्ना अप्रश्नाः प्रश्नाप्रश्ना विद्यातिशया यक्षादिभिः संवादादयः 10 प्रश्नव्याकरणेषु ॥ ९७ ॥ प्रश्ना इति, प्रश्नः प्रतीतः, तन्निर्वचनं व्याकरणं प्रश्नानां व्याकरणानाञ्च योगात् प्रश्नव्याकरणानि, तत्राङ्गुष्ठबाहुप्रभादिका मंत्रविद्याः प्रश्नाः, याः पुनर्विद्या मंत्रविधिना जप्यमाना अपृष्टा एव शुभाशुभं कथयन्ति ता अप्रश्नाः, तथाऽङ्गुष्ठादिप्रभभावं तदभावं च प्रतीत्य या विद्याः शुभाशुभं कथयन्ति ताः प्रश्नाप्रभाः, तथा अन्ये विद्यातिशयाः स्तम्भस्तोभवशीकरणविद्वेषीकरणोच्चाटनादयः, भवनपतिविशे-15 धैर्नागसुपर्णैर्यक्षादिभिश्च सह साधकस्य तात्त्विकाः शुभाशुभगताः संलापा एवमादयोऽत्र वर्ण्यन्ते ॥९७॥ अथैकादशाङ्गवक्तव्यतामाख्याति-- शुभाशुभकर्मणां फलविपाको विपाकश्रुते ॥ ९८॥ शुभेति, विपचनं विपाकः-शुभाशुभकर्मपरिणामस्तत्प्रतिपादकं श्रुतं विपाकश्रुतम्, तस्मिन् फलरूपो विपाको द्विविधो दुःखविपाकः सुखविपाकश्चेति, तत्र दुःखविपाकानां नगरोद्यानचैत्यवनख- 20 ण्डराजानो मातापितरौ समवसरणानि धर्माचार्या धर्मकथा नगरगमनानि संसारप्रबन्धो दुःखपरम्परा वर्ण्यन्ते तथा सुखविपाकानां नगरादयः समवसरणधर्माचार्यधर्मकथा इहपरलौकिकर्द्धयः प्रव्रज्याः श्रुतपरिग्रहास्तपोपधानानि परित्यागाः प्रतिमाः संलेखनाः भक्तप्रत्याख्यानानि पादपोपगमनानि देवलोकगमनानि सुकुलप्रत्यायातिः, पुनर्बोधिलाभोन्तक्रिया उपवर्णिता विस्तरेण ॥ ९८॥ अथ द्वादशाङ्गवक्तव्यतां प्ररूपयति 25 दृष्टिवादे सर्वभावप्ररूपणा ॥ ९९ ॥ दृष्टीति, दृष्टयो दर्शनानि, वदनं वादः दृष्टीनां वादो यत्रासौ दृष्टिवादः तत्र सर्वभावप्ररूपणा क्रियते, स समासतः पञ्चविंधः परिकर्मसूत्राणि पूर्वगतं अनुयोगः चूलिका चेति, परिकर्म सप्तविधं सिद्धश्रेणिकापरिकर्म मनुष्यश्रेणिकापरिकर्म पृष्टश्रेणिकापरिकर्म अवगाहनाश्रेणिकापरिकर्म उपसम्पद्यश्रेणिकापरिकर्म विप्रत्यक्तश्रेणिकापरिकर्म च्युताच्युतश्रेणिकापरिकर्मेति षडादिमानि परिकर्माणि स्वसाम-30 यिकान्येव, गोशालकप्रवर्तिताऽऽजीविकपाखण्डिकसिद्धान्तमतेन पुनश्च्युताच्युतश्रेणिकापरिकर्मसहितानि सप्त, एतेषामुत्तरभेदतः त्र्यशीतिविधत्वम् । सूत्राणि ऋजुकादीनि द्वाविंशतिः, विभागतोऽष्टाशीतिः,

Loading...

Page Navigation
1 ... 336 337 338 339 340