Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 313
________________ २८६ सूत्रार्थमुक्तावल्याम् [पञ्चमी नया परकीयमायां जयेत् स महामोहं विधत्ते । योऽविद्यमानदुश्चेष्टितं निजकृतऋषिघातादि दुष्टव्यापारारोपाळ्शयति सोऽपि तथा । योऽनृतमेतदिति जानानोऽपि सभायां किञ्चित्सत्यानि बह्वसयानि सत्यमृषारूपाणि वाक्यानि भाषते स तथा । यो विचक्षणोऽमात्योऽनायकराजदारान् अर्थागमद्वारान् वा ध्वंसयित्वा नायकं वा संक्षोभ्य तद्भोगान् विदारयति अनुकूलयितुं समीपमागच्छन्तमपि 5 नायकं प्रतिकूलैर्वचोभिरवरुध्य विशिष्टान् भोगान् विदारयति सोऽपि तथा । योऽकुमारब्रह्मचारी सन् कुमारभूतोऽहं कुमारब्रह्मचार्यहमिति वदन् स्त्रीषु गृद्धः सोऽप्येवम् । यः स्त्रीगृङ्ख्याऽब्रह्मचारी सन् तत्काल एव ब्रह्मचारी साम्प्रतमहमित्यतिधूर्ततया परप्रवञ्चनाय वदति स तथा । यो जीविकालाभेन राजादि सेवते राजादेः सत्कोऽयमिति लब्धप्रतिष्ठश्च तस्यैव राजादेर्वित्ते लुभ्यति सोऽपि तथा । राजादिनेश्वरीकृतो यो लब्धसम्पत्तिरुपकारकारकराजादिविषये दुष्टान्तःकरणोऽन्तरायं करोति सोऽप्येवम् । यः 10 पोषयितारं सेनापति राजानं वा ऽमात्यं वा धर्मपाठकं वा विहिनस्ति सोऽप्येवम् , तन्मरणे बहुजन दुःस्थता प्रसङ्गात् । यो राष्ट्रस्य नायकं सति प्रयोजने निगमस्याशास्तारं बहुयशसं श्रेष्ठिनञ्च हन्ति स महामोहं विधत्ते । बहुजननायकं प्रावचनिकादिपुरुषं हेयोपादेयवस्तुस्तोमप्रकाशकं हत्वा महामोहं प्रकरोति । प्रविब्रजिषु प्रबजितं संयतं सुसमाहितं व्रतचारित्रधर्माद्यो भ्रंशयति सोऽपि तथा । ज्ञानाद्य नेकातिशयसम्पन्नत्वेन भुवनत्रये प्रसिद्धान् जिनान् प्रत्यवर्णवादी यः सोऽपि तथा । न्यायमार्गस्य सम्य15 ग्दर्शनादेर्द्विष्टोऽपकरोति यः तथाऽन्यांश्च तत्र द्वेषेण वासयति स तथा । आचार्योपाध्यायादीन् निजशिक्षकान् अल्पज्ञाना एते इति ज्ञानतः, अन्यतीर्थिकसंसर्गकारिण इति दर्शनतः, मन्दधर्माणः पार्श्वस्थादिस्थानवर्तिन इति चारित्रतश्च निन्दति स तथा । श्रुतदानग्लानावस्थाप्रतिचरणादिभिरुपकृतानाचार्यादीन् यो विनयाहारोपध्यादिभिर्न प्रत्युपकरोति, नासेवते मानवांश्च सोऽप्येवम् । अबहुश्रुतो यः श्रुतवानहमनुयोगधरोऽहमित्यात्मानं श्लाघते स महामोहकारी । अतपस्वी य आत्मानं तपस्विनं कथयति 20 स तथा । यः कश्चिदाचार्यादिः समर्थः ग्लाने उपस्थिते उपदेशेनौषधादिदानेन च स्वतोऽन्यतश्चोपकारं १. 'समर्थोऽपि सन्न ममाप्येष किञ्चनापि करोतीति विद्वेषेण असमर्थोऽयं बालत्वादिना किं कृतेनास्य ? पुनरुपकर्तुमशक्तत्वादिति लोभेन न करोति सोऽतथा कौटिलीयादिहिंसाप्रवर्तकशास्त्राणि राजकथादीनि यंत्रादीनि च पुनःपुनः प्रयुक्ते यः सोऽपि सर्वतीर्थनाशनाय प्रवृत्तेस्तथा । यः श्लाघायै निमित्तवशी करणादिप्रयोगान् प्रयुनक्ति सोऽपि तथा । यः पारलोकिकभोगेष्वतृप्यन् मानुष्यकान् भोगानभिलषति 25 सोऽपि तथा । यो देवानां ऋद्धिद्युतियशोवर्णबलवीर्यप्रभृतिष्ववर्णवान् सोऽप्येवम् । यो देवानपश्यनपि पश्यामीति ब्रूते जिनस्येव च पूजामर्थयते गोशालकवत् सोऽपि महामोहं प्रकरोतीति ॥ २७ ॥ महामोहनीयस्थानानामनासेवी सिद्धो भवतीति तद्गुणानाह आभिनिबोधिकश्रुतावधिमनःपर्यवकेवलज्ञानचक्षुरचक्षुरवधिकेवलदर्शनावरणनिद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानर्द्धिसातासातवेदनीयद90 र्शनचारित्रमोहनीयनारकतिर्यमनुष्यदेवायुरुच्चनीचगोत्रशुभाशुभनामदान'लाभभोगोपभोगवीर्यान्तरायक्षयाः सिद्धादिगुणाः॥२८॥

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340