Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 318
________________ मुक्ता ] समवायमुकासारिका । सर्वसंख्या एकोनसप्ततिः, शेत्रेषु च चतुर्षु प्रस्तरेषु पूर्ववत् प्रत्येकं क्रमेणाधोऽधोऽष्टकाष्टकहानि, ततः सर्वसंख्यया तत्रावलिकाप्रविष्टा नरकावासा द्वे शते पञ्चषष्ट्यधिके, शेषाः पुष्पावकीर्णका द्वे लक्षे नवनवतिसहस्राणि सप्तशतानि पञ्चत्रिंशदधिकानि, उभयमीलने सर्व संख्यया तिस्रो लक्षा नरकावासाः, प्रथमचतुर्थ पञ्चम पृथिवीनरकावाससंख्यानां मीलने च त्रिचत्वारिंशच्छतसहस्राणीति ॥ ३५ ॥ ऋषिभाषिताध्ययनेष्वपि नारकावासवर्णनात्तान्याह - २९१ 5 ऋषिभाषिताध्ययनानि चतुश्चत्वारिंशत् ॥ ३६ ऋषीति, पश्यन्तीति ऋषयोऽतिशयज्ञानवन्तः, गणधरव्यतिरिक्ताः शेषा जिन शिष्याः, यद्वा ऋषयः प्रत्येकबुद्धसाधवः, ते चात्र नेमिनाथतीर्थवर्त्तिनो नारदादयो विंशतिः, पार्श्वनाथतीर्थवर्त्तिनः पञ्चदश, वर्धमानस्वामितीर्थवर्त्तिनो दश, तैर्भाषितानि अध्ययनानि कालिकश्रुतविशेषभूतानि अङ्गबा - यानि भवन्तीति भावः ॥ ३६ ॥ 10 ऋषयः समयक्षेत्रे भवन्तीति समयक्षेत्रादिप्रमाणमाह समयक्षेत्रं सीमन्तक उडुविमानमीषत्प्राग्भारपृथिवी च पञ्चचत्वारिंशद्योजनशतसहस्राण्यायामविष्कम्भेण ॥ ३७ ॥ समयक्षेत्रमिति, समयः कालस्तेनोपलक्षितं क्षेत्रं समयक्षेत्रं मनुष्यक्षेत्रमित्यर्थः, कालो हि दिनमासादिरूपः सूर्यगतिसमभिव्यङ्ग्यो मनुष्यक्षेत्र एव न परतः, परतो हि नादित्याः सचरिष्णवः, 15 इन क्षेत्रमायामविष्कम्भेण पञ्चचत्वारिंशद्योजनशतसहस्रम् परिक्षेपेण चैका योजनकोटी द्वाचत्वारिंशत् शतसहस्राणि त्रिंशत्सहस्राणि किञ्चिद्विशेषाधिकैकोनपञ्चाशद्युते द्वे योजनशते । प्रथमपृथिव्यां प्रथमप्रस्तरे मध्यभागवर्त्ती वृत्तो नरकेन्द्रः सीमन्तक उच्यते, तस्यापि प्रमाणमायामविष्कम्भेण तावदेव सौधर्मेशानयोः प्रथमप्रस्तरवर्तिचतसृणां विमानावलिकानां मध्यभागवर्त्ति वृत्तं विमान केन्द्रकमुडुविमानकम् । ईषदल्पः रत्नप्रभाद्यपेक्षया प्राग्भार उच्छ्रयादिलक्षणो यस्याः सा ईषत्प्राग्भारा, ऊर्ध्वलो - 20 कायस्थः सिद्धानां निवासभूतः पृथिवीभेदः, स च शंखदलचूर्णवत् श्वेत उत्तानच्छत्रसंस्थानसंस्थितः सुवर्णमयः । मध्ये बाहुल्यन्तु अष्टयोजनप्रमाणम्, सा च पृथिवी परितो हीयमाना चरमान्तेषु सकलदिग्विभागवर्त्तिषु पर्यन्तप्रदेशेषु मक्षिकापत्रादपि तनुतरी, अत्रैव सिद्धा उपरि भागविशेषे निवसन्तीति सिद्धालय इत्यप्युच्यत इति ॥ ३७ ॥ समयक्षेत्र एव दृष्टिवादादेः प्रादुर्भावात्तमाह दृष्टिवादस्य मातृकापदानि ब्राह्मी लिप्यां मातृकाक्षराणि च षट्चत्वारिंशत् ॥ ३८ ॥ दृष्टिवादस्येति, जिनप्रणीतवस्तुतत्त्वप्रतिपत्तिर्दृष्टिः, तस्या वादो दृष्टिवादः द्वादशाङ्गरूपः, तस्य सकलवाङ्मयस्याकारादिमातृकापदानीव दृष्टिवादार्थप्रसवनिबन्धनत्वेन मातृका पदानि - उत्पाद • व्ययधौव्यलक्षणानि तानि च सिद्धश्रेणिमनुष्य श्रेण्यादिना विषयभेदेन कथमपि भिद्यमानानि षट् - 30 चत्वारिंशद्भवन्तीति सम्भाव्यते । ब्राह्मी ऋषभदेवस्य सुमङ्गलायां देव्यां भरतेन सह जाता पुत्री, 25

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340