Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 319
________________ २९२ सूत्रार्थमुक्तावल्याम् [पञ्चमी लिपि: पुस्तकादावक्षरविन्यासः, साचाष्टादशप्रकारापि ब्राह्मया या दर्शिताऽक्षरलेखनप्रक्रिया सा ब्राह्मीलिपिः, तस्यां लेख्यविधौ मातृकाक्षराणि षट्चत्वारिंशत् , तानि चाकारादीनि हकारान्तानि क्षकारसहितानि ऋ ऋल लु ळ इत्येवं तदक्षरपश्चकवर्जितानि संभाव्यन्त इति ॥ ३८॥ सूत्ररूपेण तस्य प्रतिपादकमाह अग्निभूतिः सप्तचत्वारिंशद्वर्षस्यान्तोऽनगारी ॥ ३९॥ अग्निभूतिरिति, श्रीमतो महावीरस्य द्वितीयो गणधरो मगधदेशजो गौतमगोत्रः कृत्तिकानक्षप्रजोऽग्निभूतिः, पिताऽस्य वसुभूतिर्माता पृथिवी तस्यागारवासः सप्तचत्वारिंशद्वर्षाणि, आवश्यके तु षट्चत्वारिंशद्वर्षाण्युक्तानि, सप्तचत्वारिंशत्तमवर्षस्यापूर्णत्वात्तत्राविवक्षा कृता, समवायाङ्गे चापूर्णस्यापि पूर्णत्वविवक्षया सप्तचत्वारिंशद्वर्षाण्युक्तानि । सूत्रेऽन्तश्शब्दो मध्यपरः । अस्य छद्मस्थपर्यायो द्वाद10 शवर्षाणि जिनपर्यायः षोडशवर्षाणि ॥ ३९ ॥ गणधरविषयकवक्तव्यत्वादत्रापि तदेवाह- धर्मजिनस्याष्टचत्वारिंशद्गणा गणधराश्च ॥ ४०॥ धर्मजिनस्येति, अयं पञ्चदशतीर्थंकरः दुर्गतौ प्रपतन्तं सत्त्वसंघातं धारयतीति धर्मः, गर्भस्थेऽस्मिन् जननी दानादिधर्मपरा जातेति नाम्ना धर्मः, अस्य गणास्तावन्मानाः, गणश्चैकवाचना15 ऽऽचारक्रियास्थानाम् । गणधरा अपि तावन्तः, अनुत्तरज्ञानदर्शनादिधर्मगणं धरन्तीति गणधराः, आवश्यके तु त्रिचत्वारिंशद् गणा गणधराश्च पठ्यन्ते ॥ ४०॥ गणधरप्रकाशितप्रतिमाविशेषमाह सप्तसप्तकिकाभिक्षुप्रतिमा एकोनपञ्चाशद्वात्रिंदिवैः ॥ ४१ ॥ सप्तसप्तकिकेति, यमनियमव्यवस्थितः कृतकारितानुमोदितपरिहारेण भिक्षते इत्येवंशीलो 20 भिक्षुः-पचनपाचनस्यावद्यानुष्ठानरहिततया निर्दोषाहारभोजी साधुः, नामस्थापनाद्रव्यभावैः स निक्षेप्यः, नामस्थापने सुगमे, द्रव्यभिक्षुः आगमतो नोआगमतश्च, ज्ञाताऽनुपयुक्त आद्यः, द्वितीयस्तु त्रिविधः, ज्ञशरीरं भव्यशरीरं तदुभयव्यतिरिक्तश्च, भिक्षुपदार्थज्ञस्य जीवापेतं शरीरं ज्ञशरीरम् , भूतभावत्वात् । यस्तु बालको नेदानी भिनुशब्दार्थमवबुध्यते भोत्स्यतेऽनेनैव. शरीरेण तस्य शरीरं भव्यशरीरं भाविभावत्वात् । तदुभयव्यतिरिक्तश्च त्रिधा, एकभविकः, बद्धायुष्कः, अभिमुखनामगोत्रश्च, यो नैरयि25 कस्तिर्यमनुष्यो वा देवो वाऽनन्तरभवे भिक्षुर्भावी स एकभविकः । येन भिक्षुपर्यायनिमित्तमायु र्बद्धं स बद्धायुष्कः, यस्य भिक्षुपर्यायप्रवर्तनाभिमुखे नामगोत्रे कर्मणी स चाऽऽर्यक्षेत्रे मनुष्यभवे भाविभिक्षुपर्याये समुद्यमानः, यद्वा स्वजनधनादि परित्यज्य गुरुसमीपे प्रव्रज्याप्रतिपत्त्यर्थं स्वगृहादहिर्गच्छति सोऽभिमुखनामगोत्रः । भावभिक्षुर्द्विधा, आगमतो नोआगमतश्च, आगमतो भिक्षुशब्दार्थवेत्ता तत्र चोपयुक्तः । नोआगमतस्तु सम्यक् त्रिविधं त्रिविधेन समस्तसावद्यादुपरतस्संयतः । गृहस्था अन्य30 तीर्थिकलिङ्गिनो वा न नोआगमतो भावभिक्षवः, भिक्षुशब्दप्रवृत्तिनिमित्तस्य तत्राभावात् , भिक्षुशब्दस्य हि द्वे निमित्ते, व्युत्पत्तिनिमित्तं प्रवृत्तिनिमित्तम्ब, भिक्षत इत्येवंशीलो भिक्षुरिति व्युत्पत्त्या भिक्षणं व्युत्पत्तिनिमित्तम् , तेन भिक्षणेनैकार्थे समवायितया यदुपलक्षितमिह परलोकाशंसाविप्रमुक्ततया यमनि

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340