Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 316
________________ मुक्का ] समवायमुक्तासरिका | २८९ प्राणिगणबाधा न भवति, न वा मारिर्भवति, स्वकीयराजसैन्यं तदुपकारि न भवति, परचक्रमपि न भवति, अतिवृष्ट्यपि न भवति, अनावृष्टिरपि न भवति, दुर्भिक्षमपि न भवतीति अत्राद्याश्चत्वारोSतिशया जन्मप्रभृतित एकोनविंशतिर्देवकृताः एकादश घातिकर्मणां क्षयाद्भवन्तीति ॥ ३१ ॥ तीर्थकृतां सातिशयवचनत्वाद्वचनातिशयानाचष्टे - संस्कारवदुदात्तोपचारोपेतगम्भीरशब्दादयो वचनातिशयाः ॥ ३२ ॥ संस्कारवदिति, वचनं हि गुणवद्वक्तव्यं तद्यथा - संस्कारवत्त्वं - लक्षणयुक्तत्वम्, उदात्तत्वमुचैर्वृत्तिता, उपचारापेतत्वं- अप्राम्यता, मेघस्येव गम्भीरशब्दम्, अनुनादित्वं-प्रतिरवोपेतता, दक्षि णत्वं - सरलता, उपनीतरागत्वं - मालकोशादिग्रामरागयुक्तता, एते सप्त शब्दापेक्षया अतिशयाः अन्ये त्वर्थापेक्षया । महार्थत्वं - बृहदभिधेयता, अव्याहतपौर्वापर्य - पूर्वापर वाक्याविरोधः, शिष्टत्वंअभिमतसिद्धान्तोक्तार्थता वक्तुः शिष्टतासूचकं वा, असन्दिग्धत्वं - असंशयकारित्वम्, अपहृतान्यो- 10 त्तरत्वं - परदूषणाविषयता, हृदयग्राहित्वं - श्रोतृमनोहरता, देशकालाव्यतीतत्वं - प्रस्तावोचितता, तत्त्वानुरूपत्वं - विवक्षितवस्तुस्वरूपानुसारिता, अप्रकीर्णप्रसृतत्वं - सुसम्बन्धस्य सतः प्रसरणं अथवाऽसम्बन्धानधिकारित्वातिविस्तरयोरभावः, अन्योऽन्यप्रगृहीतत्वं - परस्परेण पदानां वाक्यानां वा सापेक्षता, अभिजातत्वं-वक्तुः प्रतिपाद्यस्य वा भूमिकानुसारिता, अतिस्निग्धमधुरत्वं - अमृतगुडादिवत्सुखकारि अपर मर्मवेधत्वं - परमर्मानुद्धट्टनस्वरूपम्, अर्थधर्माभ्यासान पेतत्वं - अर्थधर्मप्रतिबद्धत्वम् - 15 उदारत्वं-अभिषेयार्थस्यातुच्छत्वं गुम्फगुणविशेषो वा, परनिन्दात्मोत्कर्षविप्रयुक्तत्वमिति प्रतीतमेव, उपगतश्लाघत्वं-उक्तगुणयोगात् प्राप्तश्लाघता, अनपनीतत्वं - कारककालवचन लिङ्गादिव्यत्ययरूपवचनदोषापेतता, उत्पादिताच्छिन्नकौतूहलत्वं - स्वविषये श्रोतॄणां जनितमविच्छिन्नं कौतुकं येन तत्तथा, तद्भावस्तत्त्वम्, अद्भुतत्वं, अनतिविलम्बितत्वञ्च प्रतीतम्, विभ्रम विक्षेप किलकिचितादिविप्रमुक्तंविभ्रमो - वक्तमनसो भ्रान्तता, विक्षेप:- तस्यैवाभिधेयार्थ प्रत्यनासक्तता, किलकिञ्चितं - रोषभयाभिला - 20 षादिभावानां युगपत्सकृद्वा करणं आदिशब्दान्मनोदोषान्तरपरिग्रहस्तैर्विमुक्तता । अनेकजातिसंश्रयाद्विचित्रत्वम्, इह जातयोवर्णनीयवस्तुस्वरूपवर्णनानि, आहित विशेषत्वं - वचनान्तरापेक्षया ढौकितविशेषता, साकारत्वं- विच्छिन्नवर्णपदवाक्यत्वेनाकारप्राप्तत्वम्, सत्त्वपरिगृहीतत्वं - साहसोपेतता, अपरिखेदित्वं—अनायाससम्भवः, अव्युच्छेदित्वं - विवक्षितार्थानां सम्यक् सिद्धिं यावदनवच्छिन्नवचनप्रमेयतेति पञ्चत्रिंशातिशयाः ॥ ३२ ॥ वाण्यतिशयवतां संपत्तिविशेषानाह त्वम् महावीरस्याऽऽर्याणां षट्त्रिंशत्सहस्राणि कुन्थोः सप्तत्रिंशद्गुणा गणधराश्च पार्श्वस्याष्टत्रिंशदार्थिकासहस्राणि नमेरेकोनचत्वारिंशदाधोऽवधिकशतानि अरिष्टनेमेश्चत्वारिंशदार्थिकासहस्राणि नमेरेकचत्वारिंशदार्थिकासह - स्त्राणि भवन्ति ॥ ३३ ॥ . महावीरस्येति, सुगमम् महांश्चासौ वीरश्च कर्मविदारण सहिष्णुर्महावीरः, 'विदारयति सू० मु० ३७ " 5 25 30

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340