Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 315
________________ सूत्रार्थमुक्तावल्याम् [ पञ्चमी पार्श्वतस्थितिः, तथाssसन्नं निषीदनं पुरो निषीदनं पार्श्वतो निषीदनम्, विचारभूमिं गतयो: शैक्षस्य पूर्वतरमाचमनम्, पूर्वं गमनागमनालोचनम्, रात्निकेन रात्रौ को जागर्त्तीति पृष्टे तद्वचनाश्रवणम्, रात्निकस्य पूर्वमाउपनीयं कंचन शैक्षस्य पूर्वतरमालपनम्, लब्धाशनादेः पूर्वमेवालोचनम्, अन्यस्य तदुपदर्शनम्, अन्यस्य निमंत्रणम्, अनापृच्छ्याऽन्यस्मै दानम्, प्रधानतरस्य स्वयं भोजनम्, कचि - 5 त्प्रयोजने व्याहरतो रात्निकस्य वचसोऽप्रतिश्रवणम्, रात्निकस्य पुरतो बृहता शब्देन बहुधा भाषम्, व्याहृतेन मस्तकेन वन्दे इति वक्तव्ये किं भणसीति कथनम्, रात्निके प्रेरयति सति कस्त्वं प्रेरणायामिति भणनम्, आर्य ! ग्लानं किं न प्रतिचरसीति उक्ते त्वं किं न तं प्रतिचरसीत्यभिधानम्, धर्म कथयति गुरौ अन्यमनस्कताऽऽसेवनम् कथयति गुरौ न स्मरसीति कथनम्, धर्मकथाया आच्छेदनम्, भिक्षावेला वर्त्तत इति वदन् पर्षदो भेदनम्, गुरुपर्षदोऽनुत्थितायास्तथैव व्यवस्थिताया धर्मस्य कथ10 नम्, गुरोः संस्तारकस्य पादेन घट्टनम् गुरुसंस्तार के निषीदनम्, उच्चासने निषीदनम्, समासने निषीदनम्, आलपतो रात्निकस्य आसनादि स्थित एव प्रतिश्रवणं आगत्य हि प्रत्युत्तरं देयमिति शैक्षस्याऽऽशातनाः ॥ ३० ॥ " २८८ आशातनाप्रतिपादकस्यातिशयानाह - तीर्थकरस्यातिशया अवर्द्धमान केशनिरामयशरीरपाण्डुरमांसशोणि15 तादयः ॥ ३१ ॥ तीर्थकरस्येति, अवृद्धिस्वभावास्तीर्थकृतः केशाः श्मश्रूणि रोमाणि नखाश्च, नीरोगं निर्मलच शरीरम्, गोक्षीरपाण्डुरं मांसशोणितम्, पद्मोत्पलगन्धिनावुच्छ्वास निःश्वासौ अभ्यवहरणमूत्रपुरीषोत्सर्गौ च मांसचक्षुषाऽदृश्यौ, आकाशगतं धर्मचक्रम्, आकाशगतं छत्रत्रयम्, प्रकाशे प्रकीर्णके श्वेतवरचामरे, सपादपीठं आकाशमिवाच्छस्फटिकमयं सिंहासनम्, अतितुङ्गलघुपताकातिमनोहरस्येन्द्र20. ध्वजस्य जिनस्य पुरतो गमनम्, यत्र यत्र भगवन्तस्तिष्ठन्ति तत्र तत्र तदैव पत्रसंछन्नपुष्पफलोपशोभितछत्रघण्टापताकालङ्कृताशोकवरपादपोऽभिसंजायते, ईषत्पश्चाद्भागे मस्तकप्रदेशे प्रभापटलं येन दशदिशो ऽन्धकारेऽपि प्रभासन्ते, अतिसममनोहर भूप्रदेशः, अधश्शिरः कण्टकाः, अविपरीतास्सुखस्पर्शा ऋतवः, संवर्त्तकवातेन सुखस्पर्शेन शीतलेन सुवासितेन योजनं यावत् क्षेत्रशुद्धिः, उचितबिन्दु - पातेन निहतरजोरेणुर्गन्धोदकवर्षाकरो मेघः, जानूत्सेधप्रमाणमात्रः पञ्चवर्णोर्ध्वमुखप्रभूतपुष्पप्रकरः, 28 कालागुर्वादिगन्धद्रव्योद्भूता तिसौरभगन्धादतिमनोहरं तन्निषीदनस्थानम्, उपर्युक्तस्थानद्वये अमनोज्ञशब्दाद्यभावो मनोज्ञानां प्रादुर्भावश्चेति द्वयं वा, व्याकुर्वतो भगवतो हृदयंगमो यो जानाति विक्रमी स्वरः, अर्धमागधीभाषातो धर्माख्यानम्, षण्णां भाषाविशेषाणां मध्ये या मागधी नाम भाषा सासमाश्रितस्वकीयसमग्रलक्षणाऽर्धमागधीत्युच्यते, तस्याश्चार्यानार्यदेशोत्पन्नानां द्विपदचतुष्पदमृगपशुपक्षिसरीसृपाणां आत्मनो भाषात्वेन परिणमनम्, पूर्वबद्धवैरा अपि देवासुरादयः प्रसन्नचित्ता धर्मं तं 30 निशमयन्ति, अन्यतीर्थिकप्रावचनिका अपि भगवन्तं वन्दन्ते, आगतास्सन्तोऽर्हतः पादमूले निष्प्रतिवचना भवन्ति, यन्त्र यन्त्र भगवानास्ते तत्र तत्र पश्चविंशतियोजनेषु धान्याद्युपद्रवकारि प्रचुरमूषकादि -

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340