Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 311
________________ सुत्रार्थमुक्तावल्याम् [पञ्चमी . मिथ्यात्वमोहनीयेति, मोहयति सदसद्विकलं करोत्यात्मानमिति मोहनीयम् , यथा हि मद्यपानमूढः प्राणी सदसद्विकलो भवति तथाऽनेनापि कर्मणा मूढो जंतुरपि तथा भवति, तच्च दर्शनचारित्रमोहनीयभेदभिन्नम् । कषायाः पूर्वोक्ताः षोडशविधाः, यद्वशात् स्त्रियाः पुंस्यभिलाषः पुरुषस्य त्रियं प्रत्यभिलाषः नपुंसकस्य तदुभयं प्रत्यभिलाषो भवति ते स्त्रीवेदपुंवेदनपुंसकवेदाः । यदुदयात्स5 निमित्तमनिमित्तं वा हसति तत्कर्म हास्यम् , मोहनीयकर्मभेदः। यदुदयाज्जीवस्य सचित्ताचित्तेषु बाह्यद्रव्येषु अरति मोहनीयजो मनोविकारः रतिर्वोत्पद्यते तदरतिरतिकर्मणी नोकषायवेदनीयकर्मभेदौ । यदुदयेन भयवर्जितस्यापि जीवस्येहलोकादिसप्तप्रकारं भयमुत्पद्यते तद्भयकर्म मोहान्तर्गता नोकषायरूपा प्रकृतिः । येन शोकरहितोऽपि प्रियविप्रयोगादिविकलचेतोवृत्तितयाऽऽक्रन्दनादि करोति तच्छोककर्म नोकषायवेदनीयकर्मभेदः । यदुदयात् सनिमित्तमनिमित्तं वा जीवस्याशुभवस्तुविषया जुगुप्सा भवति 10 तजुगुप्सामोहनीयम् स्त्रीवेदादयः सर्वा नोकषायप्रकृतयः, भवैर्नास्ति सिद्धिर्येषां तेषामेतानि कर्माणि सदैव . स्युर्यद्यपि भवसिद्धिकानामपि भवावस्थायां भवन्ति तथापि न सदैव चरमे भवे तदभावादिति ॥२३॥ तत्सत्ताविरोध्यनगारगुणानाचष्टे व्रतपञ्चकपञ्चेन्द्रियनिग्रहक्रोधमानमायालोभविवेकभावकरणयोगसत्यक्षमावैराग्यमनोवाक्कायसमाहरणताज्ञानदर्शनचारित्रसम्पन्नतावेदना- . 16 मारणान्तिकातिसहनताः अनगारगुणाः ॥ २४ ॥ व्रतपश्चकेति, अनगाराणां साधूनां गुणाश्चारित्रविशेषरूपाः, तत्र महाव्रतानि इन्द्रियनिग्रहाश्च पञ्च क्रोधादिविवेकाश्चत्वारः, सत्यानि त्रीणि, तत्र भावसत्यं शुद्धान्तरात्मता, करणसत्यं यत्प्रतिलेखनाक्रियां यथोक्तां सम्यगुपयुक्तः कुरुते, योगसत्यं-योगानां मनःप्रभृतीनामवितथत्वम् , क्षमा-द्वेषसंज्ञितस्याप्रीतिमात्रस्याभावः, अथवा क्रोधमानयोरुदयनिरोधः, क्रोधमानविवेकशब्दाभ्यां तदुदय20 प्राप्तयोस्तयोनिरोधोऽभिहित इति न पुनरुक्तता, वैराग्यं अभिष्वङ्गमात्रस्याभावः, अथवा मायालोभयोरनुदयः, मनोवाक्कायानां समाहरणता अकुशलानां निरोधरूपाः, ज्ञानादिसम्पन्नताः तिस्रः, वेदनातिसहनता शीताद्यतिसहनम्, मारणान्तिकातिसहनता-कल्याणमित्रबुद्ध्या मारणान्तिकोपसर्गसहनमिति ॥ २४ ॥ ____ अनगारविशेषाणां विशिष्टदेवगतिसम्भवात् तद्वतियोग्यकर्माण्याह28 देवगतिपञ्चेन्द्रियवैक्रियतैजसकार्मणसमचतुरस्रवैक्रियाङ्गोपाङ्गवर्ण गन्धरसस्पर्शदेवानुपूर्व्यगुरुलघूपघातपराघातोच्छ्वासप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकयशःकीर्तिनिर्माणनामानि स्थिरास्थिरयोः शुभाशुभयोरादेयानादेययोरन्यतरच्च देवगतिं बभन्नाम्न उत्तरप्रकृतीबध्नाति, एवं नैरयि कोऽपि नानात्वं तु अप्रशस्तविहायोगतिहुण्डास्थिरदुर्भगाशुभदुःखराना90 देयायशःकीर्तिनिर्माणनामभिः ॥२५॥

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340