________________
सुत्रार्थमुक्तावल्याम्
[पञ्चमी . मिथ्यात्वमोहनीयेति, मोहयति सदसद्विकलं करोत्यात्मानमिति मोहनीयम् , यथा हि मद्यपानमूढः प्राणी सदसद्विकलो भवति तथाऽनेनापि कर्मणा मूढो जंतुरपि तथा भवति, तच्च दर्शनचारित्रमोहनीयभेदभिन्नम् । कषायाः पूर्वोक्ताः षोडशविधाः, यद्वशात् स्त्रियाः पुंस्यभिलाषः पुरुषस्य त्रियं प्रत्यभिलाषः नपुंसकस्य तदुभयं प्रत्यभिलाषो भवति ते स्त्रीवेदपुंवेदनपुंसकवेदाः । यदुदयात्स5 निमित्तमनिमित्तं वा हसति तत्कर्म हास्यम् , मोहनीयकर्मभेदः। यदुदयाज्जीवस्य सचित्ताचित्तेषु बाह्यद्रव्येषु अरति मोहनीयजो मनोविकारः रतिर्वोत्पद्यते तदरतिरतिकर्मणी नोकषायवेदनीयकर्मभेदौ । यदुदयेन भयवर्जितस्यापि जीवस्येहलोकादिसप्तप्रकारं भयमुत्पद्यते तद्भयकर्म मोहान्तर्गता नोकषायरूपा प्रकृतिः । येन शोकरहितोऽपि प्रियविप्रयोगादिविकलचेतोवृत्तितयाऽऽक्रन्दनादि करोति तच्छोककर्म
नोकषायवेदनीयकर्मभेदः । यदुदयात् सनिमित्तमनिमित्तं वा जीवस्याशुभवस्तुविषया जुगुप्सा भवति 10 तजुगुप्सामोहनीयम् स्त्रीवेदादयः सर्वा नोकषायप्रकृतयः, भवैर्नास्ति सिद्धिर्येषां तेषामेतानि कर्माणि सदैव . स्युर्यद्यपि भवसिद्धिकानामपि भवावस्थायां भवन्ति तथापि न सदैव चरमे भवे तदभावादिति ॥२३॥
तत्सत्ताविरोध्यनगारगुणानाचष्टे
व्रतपञ्चकपञ्चेन्द्रियनिग्रहक्रोधमानमायालोभविवेकभावकरणयोगसत्यक्षमावैराग्यमनोवाक्कायसमाहरणताज्ञानदर्शनचारित्रसम्पन्नतावेदना- . 16 मारणान्तिकातिसहनताः अनगारगुणाः ॥ २४ ॥
व्रतपश्चकेति, अनगाराणां साधूनां गुणाश्चारित्रविशेषरूपाः, तत्र महाव्रतानि इन्द्रियनिग्रहाश्च पञ्च क्रोधादिविवेकाश्चत्वारः, सत्यानि त्रीणि, तत्र भावसत्यं शुद्धान्तरात्मता, करणसत्यं यत्प्रतिलेखनाक्रियां यथोक्तां सम्यगुपयुक्तः कुरुते, योगसत्यं-योगानां मनःप्रभृतीनामवितथत्वम् , क्षमा-द्वेषसंज्ञितस्याप्रीतिमात्रस्याभावः, अथवा क्रोधमानयोरुदयनिरोधः, क्रोधमानविवेकशब्दाभ्यां तदुदय20 प्राप्तयोस्तयोनिरोधोऽभिहित इति न पुनरुक्तता, वैराग्यं अभिष्वङ्गमात्रस्याभावः, अथवा मायालोभयोरनुदयः, मनोवाक्कायानां समाहरणता अकुशलानां निरोधरूपाः, ज्ञानादिसम्पन्नताः तिस्रः, वेदनातिसहनता शीताद्यतिसहनम्, मारणान्तिकातिसहनता-कल्याणमित्रबुद्ध्या मारणान्तिकोपसर्गसहनमिति ॥ २४ ॥
____ अनगारविशेषाणां विशिष्टदेवगतिसम्भवात् तद्वतियोग्यकर्माण्याह28 देवगतिपञ्चेन्द्रियवैक्रियतैजसकार्मणसमचतुरस्रवैक्रियाङ्गोपाङ्गवर्ण
गन्धरसस्पर्शदेवानुपूर्व्यगुरुलघूपघातपराघातोच्छ्वासप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकयशःकीर्तिनिर्माणनामानि स्थिरास्थिरयोः शुभाशुभयोरादेयानादेययोरन्यतरच्च देवगतिं बभन्नाम्न उत्तरप्रकृतीबध्नाति, एवं नैरयि
कोऽपि नानात्वं तु अप्रशस्तविहायोगतिहुण्डास्थिरदुर्भगाशुभदुःखराना90 देयायशःकीर्तिनिर्माणनामभिः ॥२५॥