SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ मुक्ता] समवायानमुक्तासरिका। २८५ देवगतीति, स्पष्टम् , स्थिरास्थिरयोः शुभाशुभयोरादेयानादेययोश्च परस्परं विरोधित्वेनैकदा बन्धाभावादन्यतरदित्युक्तम् , नारकोऽपि विंशतिस्ता एव प्रकृतयोऽष्टानान्तु स्थानेऽष्टावन्या बध्नाति ॥ २५॥ प्रोक्तनरकगतिकर्मबन्धनिदानभूतानि शास्त्राण्याह सूत्रवृत्तिवार्तिकभेदानि भौमोत्पातखानान्तरिक्षाङ्गखरव्यानलक्षणश्रुतानि विकथाविद्यामंत्रयोगान्यतीर्थिकप्रवृत्तानुयोगश्रुतानि पापश्रुतानि ॥ २६ ॥ __ सूत्रेति, पापोपादानहेतुभूतानि श्रुतान्येतानि, तत्र भौम-भूमिविकारदर्शनादेवास्मादिदं भवतीत्यादि फलाभिधानप्रवृत्तं निमित्तशास्त्रम्-तच्च सूत्रवृत्तिवार्तिकभेदत्रयवत् , एवमुत्पातादीन्यपि त्रिभेदानि, तत्राङ्गवर्जितानां सूत्रं सहस्रप्रमाणं वृत्तिर्लक्षप्रमाणा वार्तिकं वृत्तेर्व्याख्यानरूपं कोटिप्रमाणम् 10 अङ्गस्य तु सूत्रं लक्षं वृत्तिः कोटिः वार्त्तिकन्त्वपरिमितमिति । उत्पातश्रुतं सहजरुधिरवृष्ट्यादिलक्षणोसातफलनिरूपकं निमित्तशास्त्रम् । स्वप्नं-स्वप्नफलप्रकाशकम् , अन्तरिक्षं-आकाशजन्यग्रहयुद्धादिभावफलनिवेदकम् , अङ्गं-शरीरावयवप्रमाणस्पन्दितादिविकारफलोद्भावकम् , स्वरं-जीवाजीवाश्रितस्वरस्वरूपफलाभिधायकम् , व्यञ्जनं-मषादिव्यञ्जनफलोपदर्शकम् , लक्षणं लाञ्छनाद्यनेकविधलक्षणव्युत्पा--- दकमिति चतुर्विंशतिः, तथा-विकथानुयोग:-अर्थकामोपायप्रतिपादनपराणि कामन्दकवात्स्यायनादीनि 15 भरतादीनि वा शास्त्राणि । विद्यानुयोगः-रोहिणीप्रभृतिविद्यासाधनाभिधायकानि शास्त्राणि, मंत्रानुयोगः-चेटकादिमंत्रसाधकाभिधायकानि शास्त्राणि, योगानुयोग:-वशीकरणादिकानि हरमेखलादियोगाभिधायकशास्त्राणि, अन्यतीर्थिकेभ्यः कपिलादिभ्यः सकाशाद्यः प्रवृत्तः स्वकीयाचारवस्तुतत्त्वानां विचारः सोऽन्यतीर्थिकप्रवृत्तानुयोग इति ॥ २६॥ पापश्रुतप्रवक्ता च महामोहनीयस्थानपात्येवेति मोहनीयस्थानान्याह 20 त्रिंशन्महामोहनीयस्थानानि महावीरेण प्रवेदितानि ॥ २७ ॥ त्रिंशदिति, मोहनीयमष्टप्रकारं कर्म विशेषतश्चतुर्थी प्रकृतिर्वा तस्य स्थानानि निमित्तानि, वक्ष्यमाणानि समवसरणस्थेन महावीरेण प्रवेदितानि यानि स्थानानि तानि स्त्री वा पुरुषो वा समाचरन् पुनःपुनः शठाध्यवसायितया मोहनीयं कर्म प्रकरोतीति भावः, तत्र स्त्रीपुरुषगृहस्थपाषण्डिप्रभृतीन् त्रसान् वारिमध्ये प्रविश्योदकेन शस्त्रभूतेन पादादिना आक्रम्य मारयति मार्यमाणस्य महा- 25 मोहोत्पादकत्वात्संक्लिष्टचित्तत्वात् भवशते दुःखवेदनीयमात्मना महामोहं प्रकरोतीति समारणेनैक मोहनीयस्थानम् । प्राणिनां मुखादि हस्तेन संपिधायावरुध्य चाम्तनदन्तं मारयति स महामोहं प्रकरोति। वैश्वानरं प्रज्वाल्य महामण्डपवाटादि जनमवरुध्य मारयति स महामोहकृत् । उत्तमाङ्गादौ खड्गमुद्ररादिना प्रहृत्य प्राणिनाशको महामोहकरः । आर्द्रचर्मादिमयेन शीर्षावेष्टनेन यः कश्चित्रसान् वेष्टयित्वा मारयति स महामोहविधाता । मायया यो वाणिजकादिवेषं विधाय पथि गच्छता सह गत्वा विजने 30 तं मारयति तत उपहासादि च करोति स महामोहकृत् । यः प्रच्छन्नाचारवान् स्वकीयदुष्टाचारगोप
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy