________________
मुक्ता] समवायाङ्गमुक्तासरिका।
२८३ क्रीडितस्मरणवर्जनानि प्रणीताहारवर्जनं पञ्चेन्द्रियरागोपरतयः पञ्चविंशतिभावना महाव्रतस्य ॥ २२॥
ईर्येति, ईर्या गमनं तत्रोपयुक्तो भवेत् , असमितो हि प्राणिनो हिंस्यात् । संयतः समाहितः सन्नदुष्टं मनः प्रवर्तयेत् , दुष्टं हि मनः क्रियमाणं कायसंलीनतादिकेऽपि सति कर्मबन्धाय सम्पद्यते, श्रूयते हि प्रसन्नचन्द्रो राजर्षिर्मनोगुप्यभाविताहिंसाव्रतो हिंसामकुर्वन्नपि सप्तमनरकपृथिवीयोग्यं । कर्म निर्मितवानिति । एवं वाचमप्यदुष्टां प्रवर्तयेत् , दुष्टां प्रवर्तयन् जीवान् विनाशयेत् साधुः सर्वकालं सम्यगुपयुक्तः सन्नवलोक्य भुञ्जीत गृहीत वा पानभोजनम् , अयमर्थः-प्रतिगृहं पात्रमध्यपतितः पिण्डश्चक्षुराद्युपयुक्तेन तत्समुत्थागन्तुकसत्त्वरक्षणार्थं प्रत्यवेक्षणीयः, आगत्य च वसतौ पुनः प्रकाशवति प्रदेशे स्थित्वा सुप्रत्यवेक्षितं पानभोजनं विधाय प्रकाशप्रदेशावस्थितेन महति पात्रे भोक्तव्यम् , अनवलोक्य भुञ्जानस्य हि प्राणिहिंसा सम्भवीति । पात्रादेरागमानुसारेण प्रत्यवेक्षणप्रमार्जनपूर्वमादाननि- 10 क्षेपौ कार्यों, तत्र प्रमादी हि सत्त्वव्यापादनं विदध्यादिति प्रथममहाव्रतस्य पञ्च भावनाः। अनुविचिन्त्यसम्यग्ज्ञानपूर्वकं पर्यालोच्य भावको वक्ता, अनालोचितभाषी हि कदाचिन्मृषाप्यभिदधीत ततश्वात्मनो वैरपीडादयः सत्त्वोपघातश्च भवेत् । तथा यः क्रोधं लोभं भयमेव वा परिहरेत् स एव मुनिर्दिनरात्रं मोक्षमवलोकनशीलः सन् सर्वकालं निश्चयेन मृषापरिवर्जकः स्यात् , तत्परवशो हि वक्ता स्वपरनिरपेक्षो यत्किञ्चनभाषी मृषाऽपि भाषेत । एवं हास्यमपि वर्जयेत्, हास्येन ह्यनृतमपि ब्रूयादिति 15 द्वितीयमहाव्रतस्य । तृतीयस्य तु अवग्रहानुज्ञापना. तत्र चानुज्ञाते सीमापरिज्ञानम्, ज्ञातायाञ्च सीमायां स्वयमेवावग्रहस्य पश्चात्स्वीकरणम् , साधर्मिकाणां-गीतार्थसमुदायविहारिणां संविग्नानामवग्रहो मासादिकालमानतः पञ्चक्रोशादिक्षेत्ररूपतामेवानुज्ञाप्य तत्र वसतौ वस्तव्यम् , सामान्यश्च यद्भक्तादि तदाचार्यादिकमनुज्ञाप्य तस्य परिभोजनमिति । चतुर्थस्य च-स्त्रीभिस्सह परिचयं न कुर्यात्तत्संसक्तवसतितदुपभुक्तशयनासनादिसेवनेन, अन्यथा ब्रह्मव्रतभङ्गः स्यात् , तथाऽवगततत्त्वो मुनिः क्षुद्रामप्रशस्यां स्त्रीवि-20 षयां कथां न कुर्यात्, तत्कथासक्तस्य हि मानसोन्मादः सम्पयेत, तथा स्त्रियं तदङ्गान्यपि सस्पृहं न प्रेक्षेत, निरन्तरमनुपमवनितावयवविलोकने हि ब्रह्मबाधासम्भवः, पूर्व गृह्यवस्थायां स्त्रिया सह कृतान् क्रीडादीन् न संस्मरेत् , तथाऽऽहारे गुप्तः स्यात् , न पुनः स्निग्धमतिमात्रं भुञ्जीत यतो निरन्तरदृब्धस्निग्धमधुररसप्रीणितः प्रधानधातुपरिपोषणेन वेदोदयादब्रह्मापि सेवेत, अतिमात्राहारस्य तु न केवलं ब्रह्मव्रतविलोपविधायित्वाद्वर्जनं किन्तु कायक्लेशकारित्वादपीति । पञ्चमव्रतभावनाश्च-यो हि 25 साधुः शब्दरूपरसगन्धानागतानिन्द्रियविषयीभूतान् स्पर्शाश्च सम्प्राप्य मनोज्ञेष्वभिष्वङ्गं प्रद्वेषश्चामनोज्ञेषु न करोति स एव विदितसत्त्वो जितेन्द्रियः, अन्यथा शब्दादिषु मूर्छादिसद्भावागतविराधना भवेदिति ॥ २२॥
एतद्भावना अन्तरेण मोहनीयप्रकृतिसद्भावस्य नित्यत्वमाह
मिथ्यात्वमोहनीयषोडशकषायस्त्रीपुंनपुंसकवेदहास्यारतिरतिभयशो-30 कजुगुप्सा अभवसिद्धिकानां जीवानाम् सदैवसत्तायाम् ॥ २३ ॥