SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 5 २८२ सूत्रार्थमुक्तावल्याम् 25 [पञ्चमी तदादर्श कागमविशेषाश्रयेणाह - समय वैतालीयोपसर्गस्त्रीपरिज्ञानरकविभक्तिवीरस्तुति कुशीलपरिभा षिकवीर्यधर्मसमाधिमार्गसमवसरणयाथात्म्यग्रन्थयमती तगाथापुण्डरीकक्रियास्थानाहारपरिज्ञाऽप्रत्याख्यानक्रियाऽनगारश्रुतार्द्रकीय नालन्दीयानिसूत्रकृताङ्गाध्ययनानि ॥ २० ॥ समयेति, सूत्रकृताङ्गस्य प्रथमे श्रुतस्कन्धे समयादिषोडशाध्ययनानि, द्वितीये च पुण्डरीकादिसप्ताध्ययनानि भवन्ति ॥ २० ॥ एवंविधागमोपदेष्टुन् सकलजगद्वन्द्यान् निर्जितनिखिलारिगणानाहऋषभाजितसम्भवाभिनन्दनसुमतिपद्मप्रभसुपार्श्वचन्द्रप्रभसुविधि - 10 शीतलश्रेयांसवासुपूज्यविमलानन्तधर्मशान्ति कुन्थ्वरमल्लीनाथमुनिसुव्रतनमिनेमिपार्श्ववर्धमाना देवाधिदेवास्तीर्थकृतः ॥ २१ ॥ ऋषभेति, तीर्यते भवोदधिरनेन अस्मादस्मिन्निति वा तीर्थं हेतुताच्छील्यानुलोमतो ये भावतीर्थं कुर्वन्ति गुणतः प्रकाशयन्ति च ते तीर्थकराः, तत्र हेतौ - सद्धर्मतीर्थकरणहेतवः 'कृञो हेतुताच्छील्यानुलोम्येषु' (उ. २-२० पाणि० ) इत्यादिना टप्रत्ययविधानात्तीर्थकराः, यथा यशस्करी विद्ये15 त्यादि । ताच्छील्ये - कृतार्था अपि तीर्थकरनामकर्मोदयतः समग्रप्राणिगणानुकम्पा परतया च सद्धर्मतीर्थदेशकत्वात्तीर्थकराः, भरतादिक्षेत्रे प्रथमनरनाथकुलकरादिवदिति । आनुलोम्ये - स्त्रीपुरुषबालवृद्धस्थविरकल्पिकजिनकल्पिकादीनामनुरूपोत्सर्गापवाददेशनया अनुलोमसद्धर्मतीर्थकरणात्तीर्थकराः, यथा वचनकर इत्यादि, एवम्भूतास्तीर्थकराः अत एव सर्वासुमतां हितस्य मोक्षार्थस्य करणात्सर्वप्राण्युत्तमत्वादेवाधिदेवाः - ते च ऋषभादयः - चतुर्विंशतितीर्थकराः ॥ २१ ॥ 20 तेषां तीर्थकृतां जन्मभूमिषु निष्क्रमणचरणज्ञानोत्पत्तिनिर्वाणभूमिषु देवलोकभवनेषु मन्दिरेषु नन्दीश्वरीपादौ पातालभवनेषु यानि शाश्वतानि चैत्यानि तेषु अष्टापदादौ च यथासम्भवमभिगमनवन्दनपूजागुणोत्कीर्त्तनादितो मौनीन्द्राणां तीर्थकृतां ज्ञानात्मनः प्रवचनस्य यथावस्थिताशेषपदार्थाविर्भावतया सम्यग्भावयतोऽहिंसादिधर्माणामत्रैव तीर्थकृत्प्रवचने शोभनत्वमिति च भावयतः प्रशस्तभावनासद्भावाद्भावना निरूपयति — ईर्यासमितिर्मनोवाग्गुप्ती आलोकितपात्रभोजनं निक्षेपणासमितिरनुविचिन्त्यभाषणता क्रोध लोभभय हास्यविवेका अवग्रहानुज्ञापनाऽनुज्ञाते सीमापरिज्ञानं तत्र स्वयमेवावग्रहानुज्ञापना साधर्मिकावग्रहमनुज्ञाप्य वासस्तदनुज्ञया भक्ताद्युपभोगः ख्यादिसंसक्तशयनादिवर्जनं तत्कथेन्द्रियविलोकनपूर्व
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy