________________
मुक्ता]
15
समवायाजमुक्तासरिका।
२८१ आधाकर्म आधाय साधुप्रणिधानेन यत्तु सचेतनमचेतनं क्रियते अचेतनं वा पच्यते तदाधाकर्म भुञ्जानः शबलः, राजपिण्डो नृपाहारस्तद्भुञ्जानः शबलः क्रीतादि द्रव्यादिना क्रीतं साध्वर्थमुद्धारानीतं प्रामित्यं अनिच्छतोऽपि पुरुषादेः सकाशात् साधुदानाय गृहीतं नानुज्ञातं सर्वस्वामिभिः साधुदानाय स्वस्थानात् अभिमुखमानीय दीयमानञ्च भुञ्जानः शबलः । पुनः पुनः प्रत्याख्यातभुक्-अभीक्ष्णं प्रत्याख्यायाशनादि भुञ्जानः । गणान्तरसङ्क्रमणं-षण्णां मासानामन्त एकतो गणादन्यं गणं संक्रामन् शबलो निरालम्ब-6 नत्वात् । व्यधिकोदकलेपकृत्-मासस्यान्तः त्रीनुदकलेपान् कुर्वन् , उदकलेपश्च नाभिप्रमाणजलावगाहनम् । मायास्थानत्रयकृत्-मासस्य मध्ये त्रीणि मायास्थानानि तथाविधप्रयोजनमन्तरेणातिगूढमातृस्थानानि कुर्वन् । सागारिकपिण्डभुक्-वसतिदाता सागारिकस्तत्पिण्डभोजी, आकुट्टिप्राणातिपातकृत्उपेत्य पृथिव्यादिकं हिंसन्नित्यर्थः । आकुट्टया मृषावादकृत्-तथाऽऽकुट्याऽऽदत्तादानकृत् । आकुट्टयैवानन्तरितायां पृथिव्यां स्थानं वा नैषेधिकी वा चेतयन् कायोत्सर्गे स्वाध्यायभूमि वा कुर्वन् । आकुट्टपैव 10 सचित्तसरजस्कायां पृथिव्यां सचित्तवत्यां शिलायां लेष्टौ वा कोलावासे दारुणि स्थानादि कुर्वन, तथा तथैव सबीजादौ-बीजहरितनीहारादिसहिते स्थानादि कुर्वन् । मूलादिभुक्-मूलकन्दत्वक्प्रवालपत्रफलबीजहरितादीनां भोजनं कुर्वन् । दशोदकलेपकृत्-संवत्सरस्य मध्ये दश उदकलेपान् कुर्वन् । दशमायास्थानकृत् , वर्षस्यान्तर्दश मायास्थानानि कुर्वन् । शीतोदकेन व्यापारितेन हस्तेनागलद्विन्दुना भाजनेन वा दीयमानं अशनादि भुञ्जानः ॥ १८॥
शबलत्वञ्च क्षुधादिपरीषहाणां सहिष्णुत्वाभावे स्यादिति परीषहस्वरूपाण्याचष्टे
बुभुक्षापिपासाशीतोष्णदेशमशकाचेलारतिस्त्रीचर्यानिषद्याशय्याक्रोशवधयाचनाऽलाभरोगतृणस्पर्शमलसत्कारप्रज्ञाऽज्ञानदर्शनविषयाः परीषहाः ॥ १९ ॥
बुभुक्षेति, परीति समन्तात्स्वहेतुभिरुदीरिता मार्गाच्चयवननिर्जरार्थं साध्वादिभिः सह्यन्ते 20 ये ते परीषहाः, सुगमम् , भोक्तुमिच्छा बुभुक्षा, पातुमिच्छा पिपासा तृट् , शीतोष्णे प्रतीते, दंशाश्व मशकाश्च दंशमशकाः उभयेऽप्येते चतुरिन्द्रियाः महत्त्वामहत्त्वकृतश्चैषां विशेषाः, यद्वा दंशो दंशनं तत्प्रधाना मशका दंशमशकाः एते च यूकामत्कुणमत्कोटकमक्षिकादीनामुपलक्षणमिति । चेलानां वस्त्राणां बहुधननवीनावदातसुप्रमाणानां सर्वेषां वाऽभावोऽचेलत्वम् , सर्वाभावो जिनकल्पिकानाम् । अरतिर्मानसो विकारः, स्त्री प्रतीता, चर्या-ग्रामादिष्वनियतविहारित्वम् । निषद्या-सोपद्रवेतरा स्वाध्यायभूमिः, 25 शय्या-मनोज्ञामनोज्ञवसतिः संस्तारको वा, आक्रोशो दुर्वचनम् , वधो यष्ट्यादिताडनम्, याचनाभिक्षणं तथाविधे प्रयोजने मार्गणं वा, अलाभरोगौ प्रतीतौ, तृणस्पर्शः संस्तारकाभावे तृणेषु शयानस्य, मलः शरीरवस्त्रादेः, सत्कारः वस्त्रादिपूजनाभ्युत्थानादिसम्पादनेन सन्माननं । प्रज्ञा-स्वयं विमर्शपूर्वको वस्तुपरिच्छेदः, ज्ञान सामान्येन मत्यादि, तदभावोऽज्ञानम् , दर्शन-सम्यग्दर्शनं तदेव क्रियादिवादिनाँ विचित्रमतश्रवणेऽपि सम्यकू परिषह्यमाणं निश्चलचित्ततया धार्यमाणो दर्शनपरीषहः, यद्वा 30 दर्शनशब्देन दर्शनव्यामोहहेतुरैहिकामुष्मिकफलानुपलम्भादिरिह गृह्यते, ततः स एव परीषहो दर्शनपरीषहः॥१९॥"