Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
२८० . सूत्रार्थमुक्तावल्याम्
- [पञ्चमी वा दहनवत् । क्रोधनः-सकृत्क्रुद्धोऽत्यन्तक्रुद्धो भवति, अनुपशान्तवैरपरिणाम इति भावः । पृष्ठिमांसाशिक:-पराङ्मुखस्य परस्यावर्णवादकारी, अगुणभाषीति भावः, स चैवं कुर्वन् आत्मपरोभयेषाञ्च इह परत्र चासमाधौ योजयत्येव । अवधारयिता-अभीक्ष्णं शङ्कितस्याप्यर्थस्य निःशङ्कितस्येव एवमेवायमित्येवं वक्ता, अथवा अवहारयिता-परगुणानामपहारकारी यथा तथा हास्यादिकमपि परं प्रति तथा 5 भणति दासश्चौरस्त्वमित्यादि अदासादिकमपि । नवोत्पादयिता-नवानामनुत्पन्नानां प्रकरणादधिकरणानां कलहानामुत्पादयिता, तांश्चोत्पादयन्नात्मानं परश्चासमाधौ योजयति, यद्वा नवान्यधिकरणानि यंत्रादीनि तेषामुत्पादयिता । पुरातनोदीरयिता-पुरातनानां कलहानां क्षमितव्यवशमितानां मर्षितत्वेनोपशान्तानां पुनरुदीरयिता भवति । अकालस्वाध्यायी-अकाले स्वाध्यायं यः करोति, तत्र काल:-उत्कालिकसूत्रस्य दशवैकालिकादिकस्य संध्याचतुष्टयं त्यक्त्वाऽनवरतं भणनम् । कालिकस्य पुनराचाराङ्गादिक10 स्योद्घाटपौरुषीं यावद्भणनम् , दिवसस्यावसानयामं निशायाश्चाद्ययामञ्च त्यक्त्वा अपरस्त्वकाल एव । सर
जस्कपाणिपादः-यः सचेतनादिरजोगुण्डितेन दीयमानां भिक्षां गृह्णाति तथा स्थण्डिलादौ संक्रामन् पादौ न प्रमाटिं, अथवा यस्तथाविधकारणे सचित्तादिपृथिव्यां कल्पादिनाऽनन्तरितायामासनादि करोति, स चैवं कुर्वन् संयमेऽसमाधिना आत्मानं संयोजयति । कलहकरः-आक्रोशनादिना येन कलहो भवति तत्करोति, स चैवंविधो हि असमाधिस्थानं भवति । शब्दकरः-सुप्तेषु प्रहरमात्रादूर्ध्व रात्रौ महता 15 शब्देनोल्लापस्वाध्यायादिकारको गृहस्थभाषाभाषको वा वैरात्रिकं वा कालग्रहणं कुर्वन् महता शब्देनोल्लपति । भेदकर:-येन कृतेन गच्छस्य भेदो भवति मनोदुःखमुत्पद्यते तथा भाषते वा । सूरप्रमाणभोजी-सूर्योदयादस्तसमयं यावदशनपानाद्यभ्यवहारी, उचितकाले स्वाध्यायादि न करोति प्रतिप्रेरितो रुष्यति, अजीर्णे च बह्वाहारेऽसमाधिः संजायत इति दोषः । एषणाऽसमितः-एषणायां समितश्चापि
संयुक्तोऽपि नानैषणां परिहरति, प्रतिप्रेरितश्चासौ साधुभिः सह कलहायते, अनेषणीयमपरिहरन् जीवो20 परोधे वर्त्तते, एवश्चात्मपरयोरसमाधिकरणादसमाधिस्थानम् ॥ १७ ॥
असमाधिमान् शबलो भवतीति शबलानाह
हस्तकर्ममैथुनरात्रिभोजनाधाकर्मराजपिण्डकीतादिपुनःपुनःप्रत्याख्यातभुग्गणान्तरसङ्क्रमणत्यधिकोदकलेपकृन्मायास्थानत्रयकृत्सागारिकपिण्डभुगाकुद्विप्राणातिपातमृषावादादत्तादानकृदनन्तरितसचित्तपृथिव्युप26 योगबीजादिमस्थितिमूलादिभुक्दशोदकलेपकृद्दशमायास्थानकृच्छीतोदकव्याप्तपाणिदत्ताहारभोजिनः शबलाः ॥ १८ ॥
हस्तकमति, यैः क्रियाविशेषैनिमित्तभूतैश्चारित्रं कर्बुर भवति तद्योगात्साधवोऽपि शबला इति व्यपदिश्यन्ते ते एवं-हस्तकर्म-वेदविकारविशेषमुपशमं कुर्वन् कारयन्ननुजानन् वा शबलो भव
तीत्येकः, मैथुनमतिक्रमव्यतिक्रमातिचारैत्रिभिः प्रकारैर्दिव्यादित्रिविधं सेवमानः शबलो भवतीति 80 द्वितीयः, रात्रिभोजनं दिवागृहीतं दिवाभुक्तमित्यादिभिश्चतुर्भङ्गकैरतिक्रमादिभिश्च भुञ्जानः शबला,

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340