Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 305
________________ सूत्रार्थमुक्तावल्याम् [ पञ्चमी क्षमादिस्वरूपोपशमादिचरणलवविबन्धी चारित्रमोहनीयत्वात्तस्य न चोपशमादिभिरेव चारित्री, अल्पत्वात्, यथाऽमनस्को न संज्ञी, किन्तु मनसैव, तथा महता मूलगुणादिरूपेण चारित्रेण चारित्री । न विद्यते प्रत्याख्यानमणुत्रतादिरूपं यस्मिन् सोऽप्रत्याख्यानो देशविरत्यावारकः । सर्वविरर्ति यो वृणोति स प्रत्याख्यानः, संज्वलयति दीपयति सर्वसावद्यविरतिमिति संज्जलनः ॥ १३ ॥ तत्सद्भावासद्भावाभ्यां संयमासंयमौ भवत इति तावाहपृथिव्यप्तेजोवायुवनस्पतिकायद्वित्रिचतुःपञ्चेन्द्रियाजीवकायप्रेक्षोपेक्षापहृत्याप्रमार्जनमनोवाक्कायविषयौ संयमासंयमौ ॥ १४ ॥ पृथिवीति, पृथिव्यादिविषयेभ्यः संघट्टपरितापोपद्रावणेभ्य उपरमः तत्तत्संयमः, तद्विपरीतोऽसंयमः, अजीवकायासंयमो विकटसुवर्णबहुमूल्य वस्त्रपात्रपुस्तकादिग्रहणम्, तदुपरमः तत्संयमः, 10 प्रेक्षायामसंयमः स्थानोपकरणादीनामप्रत्युपेक्षणमविधिप्रत्युपेक्षणं वा, उपेक्षाऽसंयमोऽसंयमयोगेषु व्यापारणं संयमयोगेष्वव्यापारणं वा, अपहृत्यासंयमः अविधिनोच्चारादीनां परिष्ठापनतो यः सः, अप्रमार्जनासंयमः पात्रादेरप्रमार्जनयाऽविधिप्रमार्जनया वेति, मनोवाक्कायानामसंयमास्तेषामकुशलानामुदीरणानीति, असंयमविपरीतः संयम इति ॥ १४ ॥ संयमिनामेतदष्टादशस्थानानि भवन्तीति तान्याह - व्रतपटुकाय पट्राकल्पग्रहिभाजनपर्यङ्कनिषद्यास्नानशोभावर्जनानि अष्टादशनिर्मन्थानां सक्षुद्रकव्यक्तानां स्थानानि ॥ १५ ॥ व्रतषट्रेति, सह क्षुद्रकैर्व्यक्तैश्च ये ते तेषाम्, तत्र क्षुद्रका वयसा श्रुतेन वाऽव्यक्ताः, व्यक्तास्तु ये वयःश्रुताभ्यां परिणताः, तेषां स्थानानि परिहार सेवाश्रयवस्तूनि । तत्र व्रतपटूं - महाव्रतानि रात्रि 5 GT 15 भोजनविरतिश्च, कायषङ्कं पृथिवीकायादि, अकल्पः - अकल्पनीय पिण्डशय्यावस्त्रपात्ररूपः, गृहिभा20 जनं– स्थाल्यादि, पर्यङ्कः - मञ्चकादि, निषद्या स्त्रिया सहासनम्, स्नानं - शरीरक्षालनम्, शोभावर्जनं प्रसिद्धमिति ॥ १५ ॥ संयमिनां स्थानपुष्टिकरत्वाद्दृष्टान्तप्रतिपादकाध्ययनान्याह - 5 उत्क्षिप्तसंघाटकांडक कूर्मशैलक तुम्बरोहिणी महीमाकन्दी चन्द्रमोदावद्रवोदकमण्डूकतैतिलीनन्दिफलापरकं काकीर्णसुंसमापुण्डरीकज्ञातानि ज्ञा26 ताध्ययनानि ॥ १६ ॥ उत्क्षिप्तेति, ज्ञातानि दृष्टान्ताः तत्प्रतिपादकान्यध्ययनानि षष्ठाङ्गप्रथमश्रुतस्कन्धवर्त्तीनि, तत्र मेघकुमारजीवेन हस्तिभवे प्रवर्त्तमानेन यः पाद उत्क्षिप्तस्तेनोत्क्षिप्तेनोपलक्षितं मेघकुमारचरितमुत्क्षिप्तमेवोच्यते, उत्क्षिप्तमेव ज्ञातमुदाहरणं विवक्षितार्थसाधनमुत्क्षिप्तज्ञातम्, ज्ञातता चास्यैवं भावनीया, दयादिगुणवन्तः सहन्त एव दवदाहकष्टम्, उत्क्षिप्तैकपादो मेघकुमारजीवहस्ती वेति, एतदर्थाभिधायकं सूत्र80 मधीयमानत्वादृध्ययनमुक्तम् । एवं सर्वत्र | संघाटकः - श्रेष्ठिचौरयोरेकबन्धनबद्धत्वम्, इदमप्यमीष्टा -

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340