Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
२७६ सूत्रार्थमुक्तावल्याम्
[पञ्चमी .. अथेति, क्रिया-कर्मबन्धनिबन्धचेष्टा तस्याः स्थानानि भेदाः क्रियास्थानानि, तत्रार्थाय-शरीरखजनधर्मादिप्रयोजनाय दण्ड:-त्रसस्थावरहिंसा अर्थदण्डः, तद्विलक्षणोऽनर्थदण्डः, हिंसामाश्रित्य हिंसितवान् हिनस्ति हिंसिष्यति वाऽयं वैरिकादिौमित्येवं प्रणिधानेन दण्डो विनाशनं हिंसादण्डः,
अकस्मास्-अनभिसंधिनोऽन्यवधाय प्रवृत्त्या दण्डः-अन्यस्य विनाशोऽकस्माद्दण्डः, दृष्टेर्बुद्धेविपर्या5 सिका, विपर्यासिता वा दृष्टिदृष्टिविपर्यासिका मतिभ्रमः तेन दण्डः प्राणिवधो दृष्टिविपर्यासिकादण्डः, मित्रादेरमित्रा दिबुद्ध्या हननमिति भावः, मृषावादः-आत्मपरो भयार्थमलीकवचनं तदेव प्रत्ययः कारणं यस्य दण्डस्य स मृषावादप्रत्ययः, एवमदत्तादानप्रत्ययोऽपि, आध्यात्मिको बाह्यनिमित्तानपेक्षः मनसि भवः शोकादिभव इत्यर्थः, मानप्रत्ययः जात्यादिमदहेतुकः, मित्रद्वेषप्रत्ययः-मातापित्रादीनामल्पेऽप्यपराधे महादण्डनिवर्त्तनम् , मायाप्रत्ययो मायानिबन्धनः, एवं लोभप्रत्ययोऽपि, ऐर्यापथिकः-केवलयोग10 प्रत्ययः कर्मबन्धः-उपशान्तमोहादीनां सातवेदनीयबन्ध इति ॥ १०॥
क्रियास्थानाभावाय पूर्वज्ञानं भवतीति तान्याह
उत्पादाग्रायणीयवीर्यास्तिनास्तिप्रवादज्ञानप्रवादसत्यप्रवादात्मप्रवादकर्मप्रवादप्रत्याख्यानविद्यानुप्रवादावन्ध्यप्राणायुःक्रियाविशाललोकबिन्दुसा
राणि चतुर्दशपूर्वाणि ॥ ११ ॥ 15 उत्पादेति, तीर्थकरस्तीर्थप्रवर्तनकाले गणधरान् सकलश्रुतार्थावगाहनसमर्थानधिकृत्य पूर्व पूर्वगवसूत्रार्थ भाषते ततस्तानि पूर्वाण्युच्यन्ते, गणधराः पुनस्तत्र रचनां विदधते आचारादिक्रमेण स्थापयन्ति, तत्रोत्पादपूर्व-सर्वद्रव्याणां सर्वपर्यायाणाश्चोत्पादमधिकृत्य प्ररूपणा क्रियते, तस्य पदपरिमाणमेका पदकोटी । अग्रायणीयं अयं परिमाणं तस्यायनं गमनं परिच्छेद इत्यर्थः, तस्मै हितमग्रायणीयं, सर्वद्रव्यादिपरिमाणपरिच्छेदकारीति भावार्थः, तत्र हि सर्वद्रव्याणां सर्वपर्यायाणां सर्वजीवविशेषा20 णाञ्च परिमाणमुपवर्ण्यते, तस्य पदपरिमाणं षण्णवतिपदशतसहस्राणि । वीर्यप्रवाद-तत्र सकर्मतराणां जीवानामजीवानाञ्च वीर्यमुच्यते तस्य पदपरिमाणं सप्ततिपदशतसहस्राणि । अस्तिनास्तिप्रवाद-तत्र यद्वस्तु लोकेऽस्ति धर्मास्तिकायादि, यच्च नास्ति खरशृङ्गादि तत्प्रवदति, अथवा सर्व वस्तुस्वरूपेणास्ति पररूपेण नास्तीति प्ररूपणं क्रियते, तस्य पदपरिमाणं षष्टिः पदशतसहस्राणि । ज्ञानप्रवाद-मतिज्ञानादिभेदमिन्नं ज्ञानं, पंचप्रकारं सप्रपञ्चं वदति, तस्य पदपरिमाणं एका पदकोटी पदेनैकेन न्यूना । सत्यप्र25 वाद-सत्यं संयमो वचनं वा तत्सत्यं संयम वचनं वा प्रकर्षेण वदतीति सत्यप्रवादं तस्य पदपरिमाणं एका पदकोटी षभिः पदैरधिका । आत्मानं जीवमनेकधा नयमतभेदेन यत्प्रवदतीत्यात्मप्रवादं तस्य पदप्रमाणं षड्विंशतिपदकोट्यः । कर्मज्ञानावरणीयादिकमष्टप्रकारं प्रकृतिस्थित्यनुभागप्रदेशादिभेदैः सप्रपं. चं वदतीति कर्मप्रवादं तस्य पदपरिमाणं एका कोटी अशीतिश्च षट् सहस्राणि । प्रत्याख्यानं सप्रभेदं यद्वदति तत्प्रत्याख्यानप्रवादं तस्य प्रमाणं चतुरशीतिपदलक्षाणि । विद्यामनेकातिशयसम्पन्नामनुप्रवदति 30 साधनानुकूल्येन सिद्धिप्रकर्षेण चेति विद्यानुप्रवादं तस्य पदपरिमाणं एका पदकोटी दश च पदलक्षाः । वन्ध्यं निष्फलं न विद्यते यत्र तदवन्ध्यं, यत्र सर्वेऽपि ज्ञानतपःसंयमादयः शुभफलाः सर्वे च प्रमा

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340