________________
२७६ सूत्रार्थमुक्तावल्याम्
[पञ्चमी .. अथेति, क्रिया-कर्मबन्धनिबन्धचेष्टा तस्याः स्थानानि भेदाः क्रियास्थानानि, तत्रार्थाय-शरीरखजनधर्मादिप्रयोजनाय दण्ड:-त्रसस्थावरहिंसा अर्थदण्डः, तद्विलक्षणोऽनर्थदण्डः, हिंसामाश्रित्य हिंसितवान् हिनस्ति हिंसिष्यति वाऽयं वैरिकादिौमित्येवं प्रणिधानेन दण्डो विनाशनं हिंसादण्डः,
अकस्मास्-अनभिसंधिनोऽन्यवधाय प्रवृत्त्या दण्डः-अन्यस्य विनाशोऽकस्माद्दण्डः, दृष्टेर्बुद्धेविपर्या5 सिका, विपर्यासिता वा दृष्टिदृष्टिविपर्यासिका मतिभ्रमः तेन दण्डः प्राणिवधो दृष्टिविपर्यासिकादण्डः, मित्रादेरमित्रा दिबुद्ध्या हननमिति भावः, मृषावादः-आत्मपरो भयार्थमलीकवचनं तदेव प्रत्ययः कारणं यस्य दण्डस्य स मृषावादप्रत्ययः, एवमदत्तादानप्रत्ययोऽपि, आध्यात्मिको बाह्यनिमित्तानपेक्षः मनसि भवः शोकादिभव इत्यर्थः, मानप्रत्ययः जात्यादिमदहेतुकः, मित्रद्वेषप्रत्ययः-मातापित्रादीनामल्पेऽप्यपराधे महादण्डनिवर्त्तनम् , मायाप्रत्ययो मायानिबन्धनः, एवं लोभप्रत्ययोऽपि, ऐर्यापथिकः-केवलयोग10 प्रत्ययः कर्मबन्धः-उपशान्तमोहादीनां सातवेदनीयबन्ध इति ॥ १०॥
क्रियास्थानाभावाय पूर्वज्ञानं भवतीति तान्याह
उत्पादाग्रायणीयवीर्यास्तिनास्तिप्रवादज्ञानप्रवादसत्यप्रवादात्मप्रवादकर्मप्रवादप्रत्याख्यानविद्यानुप्रवादावन्ध्यप्राणायुःक्रियाविशाललोकबिन्दुसा
राणि चतुर्दशपूर्वाणि ॥ ११ ॥ 15 उत्पादेति, तीर्थकरस्तीर्थप्रवर्तनकाले गणधरान् सकलश्रुतार्थावगाहनसमर्थानधिकृत्य पूर्व पूर्वगवसूत्रार्थ भाषते ततस्तानि पूर्वाण्युच्यन्ते, गणधराः पुनस्तत्र रचनां विदधते आचारादिक्रमेण स्थापयन्ति, तत्रोत्पादपूर्व-सर्वद्रव्याणां सर्वपर्यायाणाश्चोत्पादमधिकृत्य प्ररूपणा क्रियते, तस्य पदपरिमाणमेका पदकोटी । अग्रायणीयं अयं परिमाणं तस्यायनं गमनं परिच्छेद इत्यर्थः, तस्मै हितमग्रायणीयं, सर्वद्रव्यादिपरिमाणपरिच्छेदकारीति भावार्थः, तत्र हि सर्वद्रव्याणां सर्वपर्यायाणां सर्वजीवविशेषा20 णाञ्च परिमाणमुपवर्ण्यते, तस्य पदपरिमाणं षण्णवतिपदशतसहस्राणि । वीर्यप्रवाद-तत्र सकर्मतराणां जीवानामजीवानाञ्च वीर्यमुच्यते तस्य पदपरिमाणं सप्ततिपदशतसहस्राणि । अस्तिनास्तिप्रवाद-तत्र यद्वस्तु लोकेऽस्ति धर्मास्तिकायादि, यच्च नास्ति खरशृङ्गादि तत्प्रवदति, अथवा सर्व वस्तुस्वरूपेणास्ति पररूपेण नास्तीति प्ररूपणं क्रियते, तस्य पदपरिमाणं षष्टिः पदशतसहस्राणि । ज्ञानप्रवाद-मतिज्ञानादिभेदमिन्नं ज्ञानं, पंचप्रकारं सप्रपञ्चं वदति, तस्य पदपरिमाणं एका पदकोटी पदेनैकेन न्यूना । सत्यप्र25 वाद-सत्यं संयमो वचनं वा तत्सत्यं संयम वचनं वा प्रकर्षेण वदतीति सत्यप्रवादं तस्य पदपरिमाणं एका पदकोटी षभिः पदैरधिका । आत्मानं जीवमनेकधा नयमतभेदेन यत्प्रवदतीत्यात्मप्रवादं तस्य पदप्रमाणं षड्विंशतिपदकोट्यः । कर्मज्ञानावरणीयादिकमष्टप्रकारं प्रकृतिस्थित्यनुभागप्रदेशादिभेदैः सप्रपं. चं वदतीति कर्मप्रवादं तस्य पदपरिमाणं एका कोटी अशीतिश्च षट् सहस्राणि । प्रत्याख्यानं सप्रभेदं यद्वदति तत्प्रत्याख्यानप्रवादं तस्य प्रमाणं चतुरशीतिपदलक्षाणि । विद्यामनेकातिशयसम्पन्नामनुप्रवदति 30 साधनानुकूल्येन सिद्धिप्रकर्षेण चेति विद्यानुप्रवादं तस्य पदपरिमाणं एका पदकोटी दश च पदलक्षाः । वन्ध्यं निष्फलं न विद्यते यत्र तदवन्ध्यं, यत्र सर्वेऽपि ज्ञानतपःसंयमादयः शुभफलाः सर्वे च प्रमा