SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ मुक्ता] समवावमुक्तासरिका। २७५ छन्दनं निमंत्रणमित्यनान्तरम् , तत्र शय्योपध्याहारैः शिष्यगणप्रदानेन स्वाध्यायेन च साम्भोगिकः साम्भोगिकं निमंत्रयन् शुद्धः, शेषं तथैव । अभ्युत्थानमासनत्यागरूपम् , तत्राभ्युत्थानं पार्श्वस्थादेः कुर्वस्तथैवासम्भोग्यः, अभ्युत्थानस्योपलक्षणत्वात् किंकरताश्च-प्राघूर्णकग्लानाद्यवस्थायां किं विश्रामणादि करोमीत्येवं प्रश्नलक्षणां, अभ्यासकरणं-पार्श्वस्थादिधर्माच्युतस्य पुनस्तत्रैव संस्थापनलक्षणं, तथा अवि. भक्ति-अपृथग्भावलक्षणां कुर्वन्नशुद्धोऽसम्भोग्यश्चापि, एतान्येव यथाऽऽगमं कुर्वन् शुद्धः संभोग्यश्चेति । । कृतिकर्म-वंदनं विधिना कुर्वन् शुद्धः, इतरथा तथैवासम्भोग्यः । तत्र चायं विधिः-यः साधुर्वा तेन स्तब्धदेह उत्थानादिकर्तुमशक्तः स सूत्रमेवास्खलितादिगुणोपेतमुच्चारयति, एवमावर्त्तशिरोनमनादि यच्छनोति तत्करोत्येवं चाशठप्रवृत्तिर्वन्दनविधिरिति भावः। वैयावृत्त्यं-आहारोपधिदानादिना प्रश्रवणादिमात्रकार्पणादिनाऽधिकरणोपशमनेन सहायदानेन वोपष्टम्भकरणं तस्मिंश्च विषये सम्भोगासम्भोगौ भवतः । समवसरणं-जिनस्नपनरथानुयानपट्टयात्रादिषु यत्र बहवः साधवो मिलन्ति तत्समवसरणम् , 10 इह च क्षेत्रमाश्रित्य साधूनां साधारणोऽवग्रहो भवति वसतिमाश्रित्य साधारणोऽसाधारणश्चेति, अनेन चान्येऽप्यवग्रहा उपलक्षिताः, ते चानेके-यथा वर्षावग्रहः ऋतुबद्धावग्रहो वृद्धवासावग्रहश्चेति, एकैकश्चायं साधारणावग्रहः प्रत्येकावग्रहश्चेति द्विधा, तत्र यत् क्षेत्रं वर्षाकल्पाद्यर्थं युगपद् व्यादिभिः साधुभिभिन्नगच्छस्थैरनुज्ञाप्यते स साधारणो यत्तु क्षेत्रमेके साधवोऽनुज्ञाप्याश्रिताः स प्रत्येकावग्रह इति, एवं चैतेष्ववग्रहेषु आकुट्टयाऽनाभाव्यं सचित्तं शिष्यमचित्तं वा वस्त्रादि गृहन्तोऽनाभोगेन च गृहीतं 15 तदनर्पयन्तः समनोज्ञा अमनोज्ञाश्च प्रायश्चित्तिनो भवन्त्यसम्भोग्याश्च, पार्श्वस्थादीनां चावग्रह एव नास्ति तथापि यदि तत् क्षेत्रं क्षुल्लकमन्यत्रैव च संविना निर्वहन्ति ततस्तरक्षेत्रं परिहरन्त्येव, अथ पार्थस्थादीनां क्षेत्रं विस्तीर्ण संविनश्चान्यत्र न निर्वहन्ति ततस्तत्रापि प्रविशंति, सचित्तादि च गृह्णन्ति प्रायश्चित्तिनोऽपि न भवन्तीति । सन्निषद्या-आसनविशेषः, सा च सम्भोगासम्भोगकारणं भवति, तथाहि संनिषद्यागत आचार्यो निषद्यागतेन साम्भोगिकाचार्येण सह श्रुतपरिवर्तनां करोति शुद्धः, अथामनो- 20 ज्ञपार्श्वस्थादिसाध्वीगृहस्थैः सह तदा प्रायश्चित्ती भवति, तथाऽक्षनिषद्यां विनाऽनुयोगं कुर्वतः शृण्वतश्च प्रायश्चित्तं तथा निषद्यामुपविष्टः सूत्रार्थों पृच्छति अतिचारान् वाऽऽलोचयति यदि तदा तथैवेति । कथावादादिका पंचधा तस्याः प्रबन्धनं-प्रबन्धेन करणम्-कथाप्रबन्धनं तत्र संभोगासंभोगौ भवतः, तत्र मतमभ्युपगम्य पश्चावयवेन व्यवयवेन वा वाक्येन यत्तत्समर्थनं स छलजातिविरहितो भूतार्थान्वेषणपरो वादः, स एव छलजातिनिग्रहस्थानपरो जल्पः, यत्रैकस्य पक्षपरिग्रहोऽस्ति नापरस्य सा दूषण- 25 मात्रप्रवृत्ता वितण्डा, तथा प्रकीर्णकथा चतुर्थी, सा चोपसर्गकथा द्रव्यास्तिकनयकथा वा, निश्चयकथा .. पञ्चमी सा चापवादकथा पर्यायास्तिकनयकथा वेति, तत्राद्यास्तिस्रः कथाः श्रमणीवजैः सह करोति, ताभिः सह कुर्वन् प्रायश्चित्ती, चतुर्थवेलायाश्चालोचयन्नपि विसम्भोगाई इति ॥ ९॥ विसंभोगाहेण साम्भोगिकत्वं पापायातः क्रियास्थानान्याह अर्थानर्थहिंसाकस्मादृष्टिविपर्यासमृषावादादत्तादानाध्यात्मिकमान-30 मित्रद्वेषमायालोभैर्यापथिकप्रत्ययदण्डास्त्रयोदशक्रियास्थानानि ॥ १०॥
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy