Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 304
________________ मुक्ता ] समवायमुक्तासरिका। २७७ दादयोऽशुभफला वर्ण्यन्ते, तस्य पदपरिमाणं षड्विंशतिपदकोट्यः । प्राणाः पञ्चेन्द्रियाणि त्रीणि मानसादीनि बलानि, उच्छासनिःश्वासौ चायुश्च यन चैतानि सप्रभेदमुपवर्ण्यन्ते तदुपचारतः प्राणायुः, तस्य पदपरिमाणमेका पदकोटी षट्पश्चाशच्च पदलक्षाणि । क्रियाः कायिक्यादयः संयमक्रियाछन्दःक्रियादयश्च ताभिः प्ररूप्यमाणाभिर्विशालं, क्रियाविशालम् , तस्य पदपरिमाणं नवपदकोट्यः । लोकबिन्दुसारं-लोके जगति श्रुतलोके वा अक्षरस्योपरि बिन्दुरिव सारं सर्वोत्तमं सर्वाक्षरसन्निपातलब्धिहेतु-b त्वालोकबिन्दुसारम् , तस्य पदपरिमाणमर्द्धत्रयोदशपदकोट्यः ॥ ११॥ एतद्विराधकाः परमाधार्मिककृतपीडा सहन्तीति तानाह अम्बाम्बरिषीश्यामशबलरौद्रोपरौद्रकालमहाकालासिपत्रधनुःकुम्भवालुकावैतरणीखरस्वरमहाघोषाः पञ्चदश परमाधार्मिकाः ॥ १२ ॥ अम्बेति, परमाश्च तेऽधार्मिकाश्च परमाधार्मिकाः संक्लिष्टपरिणामत्वात् असुरनिकायान्तर्वतिनो 10 ये तिसृषु पृथिवीषु नारकान् कदर्थयन्ति, ते च व्यापारभेदेन पञ्चदश भवन्ति, तत्र यः परमाधार्मिको देवो नारकान हन्ति पातयति बध्नाति नीत्वा चाम्बरतले विमुञ्चति सोऽम्ब इत्यभिधीयते, यो नारकानिहतान् कल्पनिकाभिः खण्डशः कल्पयित्वा भ्राष्ट्रपाकयोग्यान् करोति सोऽम्बरिषी, यस्तु रजुहस्तप्रहारादिना शातनपातनादि करोति वर्णतश्च श्यामः स श्यामः, यश्चांत्रवसाहृदयकालेयकादीन्युत्पाटयति वर्णतश्च कर्बुरः स शबलः, यश्शक्तिकुन्तादिषु नारकान् प्रोतयति स रौद्रत्वाद्रौद्रः, यस्तु तेषामङ्गो-15 पाङ्गानि भनक्ति सोऽत्यन्तरौद्रत्वादुपरौद्रः, यः कण्वादिषु पचति वर्णतः कालश्च स कालः, यः श्लक्ष्णमांसानि खण्डयित्वा खादयति वर्णतश्च महाकालः स महाकालः, यः खगाकारपत्रवद्वनं विकुळ तत्समाश्रितान्नारकानसिपत्रपातनेन तिलशश्छिनत्ति सोऽसिपत्रः, यो धनुर्विमुक्तार्धचन्द्रादिबाणैः कर्णादीनां छेदनभेदनादि करोति स धनुः, यः कुम्भादिषु तान् पचति स कुम्भः, यः कदम्बपुष्पाकारासु वनाकारासु वैक्रियवालुकासु तप्तासु चणकानिव तान् पचति स वालुका; यः पूयरुधिरत्रपुताम्रादिभिरति-20 तापात् कललायमानैर्भृतां विरूपं तरणं प्रयोजनमस्या इति वैतरणीति यथार्थी नदी विकुळ तत्तारणेन नारकान् कदर्थयति स वैतरणी, यो वज्रकण्टकाकुलं शाल्मलीवृक्षं नारकमारोप्य खरखरं कुर्वन्तं कुर्वन् वा कर्षति स खरखरः, यस्तु भीतान् पलायमानान् नारकान् पशूनिव वाटकेषु महाघोषं कुर्वनिरुणद्धि स महाघोष इति ॥ १२ ॥ तीव्रकषायैर्भवन्ति परमाधार्मिका इति कषायानाह अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनक्रोधमानमायालोभाः षोडशकषायाः ॥ १३॥ अनन्तेति, कष्यन्ते बाध्यन्ते प्राणिनोऽनेनेति कषं कर्म भवो वा तदायो लाभ यतस्ते कषायाः मोहनीयपुद्गलविशेषोदयसम्पाद्यजीवपरिणामविशेषाः क्रोधमानमायालोभाः, अनन्तं भवमनुबनात्यविच्छिन्नं करोतीत्येवंशीलोऽनन्तानुबन्धी अनन्तो वाऽनुबन्धो यस्येत्यनन्तानुबन्धी सम्यग्दर्शनसहभावि-30 25

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340