Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
[चतुर्थी
२०६
सूत्रार्थमुक्तावल्याम् अथ कषायाश्रयेणाह- . .
वंशीमूलमेषशृङ्गगोमूत्रिकावलेखनिकाकेतनसमा माया शैलास्थिदारुतिनिशलतास्तम्भसमानो मानः कृमिकर्दमखञ्जनहरिद्रारागरक्तवस्त्रसमो लोभः पर्वतपृथिवीरेणुजलराजिसमः क्रोधः ॥ ११० ॥ 5 वंशीमूलेति, केतनं सामान्यतो वक्र वस्तु, वंशीमूलञ्च तत्केतनञ्च वंशीमूलकेतनं, मेषशृङ्गं गोमूत्रिका च प्रतीता, अवलिख्यमानस्य वंशशलाकादेर्या प्रतन्वी त्वक् साऽवलेखनिकेति, वंशीमूलकेतनादिसमत्वञ्च मायायास्तद्वतामनार्जवभेदात् , तथा हि यथा वंशीमूलमतिगुपिलवक्रमेवं कस्यचिन्मायापीत्येवमल्पाल्पतराल्पतमानार्जवत्वेनान्यापि भावनीया, इयश्चानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनरूपा क्रमेण ज्ञेया, वंशीमूलकेतनसमानमायामनुप्रविष्टो जीवो मृत्वा नैरयिकेषूत्पद्यते, 10 मेषविषाणकेतनसमानमायामनुप्रविष्टस्तिर्यग्योनिषु गोमूत्रिकाकेतनसमानमायामनुप्रविष्टो मनुष्येषु, अवलेखनिकाकेतनसमानमायामनुप्रविष्टश्च देवेषु, एवं मानाद्यनुप्रविष्टोऽपि । अनुप्रविष्ट उदयवर्तीत्यर्थः । शैलस्तम्भः शिलाविकारभूतः स्थाणुः, एवमग्रेऽपि, तिनिशो वृक्षविशेषः तस्य लता-कम्बा, सा चात्यन्तमृद्वी, मानस्यापि शैलस्तम्भादिसमानता तद्वतो नमनाभावविशेषाज्ञया, मानोऽप्यनन्तानुबन्ध्यादिरूपः क्रमेण दृश्यः, कृमिरागे वृद्धसम्प्रदायोऽयम् , यथा मनुष्यादीनां रुधिरं गृहीत्वा केनापि योगेन युक्तं भाजने 15 स्थाप्यते ततस्तत्र कृमय उत्पद्यन्ते, ते च वाताभिलाषिणः छिद्रनिर्गता आसन्ना भ्रमन्तो निहरिलाला मुञ्चन्ति ताः कृमिसूत्रं भण्यते तच्च स्वपरिणामरागरञ्जितमेव भवति, तत्र कृमीणां रागो रखकरसः तेन रक्तं कृमिरागरक्तमेवं सर्वत्र, कर्दमो गोवाटादीनाम् , खञ्जनं दीपादीनाम् , हरिद्रा प्रतीतैव । कृमिरागादिरक्तवस्त्रसमानता च लोभस्यानन्तानुबन्ध्यादितद्भेदवतां जीवानां क्रमेण दृढहीनहीनतरहीनतमानुबन्धत्वात् , तथाहि कृमिरागरक्तं वस्त्रं दग्धमपि न रागानुबन्धं मुश्चति तद्भस्मनोऽपि रक्तत्वात् , 20 एवं यो मृतोऽपि लोभानुबन्धं न मुञ्चति तस्याभिधीयते लोभः कृमिरागरक्तवस्त्रसमानोऽनन्तानुबन्धी चेति, एवं सर्वत्र भावना कार्या ॥ ११०॥
कर्मसाम्यादाह
प्रकृतिस्थित्यनुभावप्रदेशभेदो बन्धो बन्धनोदीरणोपक्रमणाविपरिणामनाभेद उपक्रमः प्रकृतिस्थित्यनुभावप्रदेशविषयमल्पबहुत्वं संक्रमनिधत्त25 निकाचितान्यपि ॥ १११॥
प्रकृतीति, सकषायजीवस्य कर्मयोग्यपुद्गलग्रहणं बन्धः, तत्र कर्मप्रकृतीनां ज्ञानावरणीयाद्यष्टभेवानामविशेषितस्य कर्मणो वा बन्धः प्रकृतिबन्धः । तासामेव जघन्यादिभेदेन स्थितेर्निर्वर्त्तनं स्थिति
बन्धः, अनुभावो विपाकः, तीब्रादिभेदो रस इत्यर्थस्तस्य बन्धोऽनुभावबन्धः, जीवप्रदेशेषु कर्मप्रदेशाना__ मनन्तानन्तानां प्रतिप्रकृति प्रतिनियतपरिणामानां बन्धः प्रदेशबन्धः परिमितपरिमाणगुडादिमोदकबन्ध80 वदिति । एवञ्च मोदकदृष्टान्तं वर्णयन्ति वृद्धाः, यथा किल मोदको नागरादिद्रव्यबद्धः सम् कोऽपि

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340