Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 244
________________ मुक्ता] स्थानमुक्तासरिका। गिरिनिकुञ्जेषु । मारयति बान्धवमपि पुरुषो यो भवेद्धनलुब्धः ॥ अटति बहुं वहति भार सहते क्षुधां पापमाचरति धृष्टः । कुलशीलजातिप्रत्ययस्थितिञ्च लोभोपद्रुतस्त्यजति ॥ इति, पूर्वोत्पन्नानाञ्च भोगानामविप्रयोगाय रक्षणार्थमिति, एवमप्रेऽपि सुखश्च भोगसम्पाद्यानन्दविशेष इति ॥ १३२ ॥ भोगाद्यर्थ यतमानो बवा कर्म नारकतयोत्पद्यत इति नानाऽऽहारतो निरूपयति अङ्गारमुर्मुरोपमशीतलहिमशीतला नारकाहाराः, कबिलपाणमांस-5 पुत्रमांसोपमास्तिर्यग्योनिकाहाराः, अशनपानखादिमखादिमाहारा मनुष्याः वर्णगन्धरसस्पर्शमयाहारा देवाः ॥ १३३ ॥ ___अङ्गारेति, अल्पकालदाहत्वादङ्गारोपमः, स्थिरतरदाहत्वान्मुर्मुरोपमः, शीतवेदनोत्पादकत्वाच्छीतलः अत्यन्तशीतवेदनाजनकत्वाद्धिमशीतलः, अधोऽध इति क्रमः । कङ्कः पक्षिविशेषस्तस्याहारेण समः कंकोपमः, यथाहि कङ्कस्य दुर्जरोऽपि स्वरूपेणाहारः सुखभक्ष्यः सुखपरिणामश्च भवति तथा 10 यस्तिरश्चां सुभक्षः सुखपरिणामश्च स कङ्कोपमः । तथा बिले प्रविशद्रव्यं बिलमेव तेनोपमा यत्र स तथा, बिले हलब्धरसाखादं झगिति किञ्चिद्यथा प्रविशति तथा यस्तेषां गलविले प्रविशति स सथोच्यते । पाणो मातङ्गः, तन्मांसस्पृश्यत्वेन जुगुप्सया दुःखाद्यं स्यादेवं यस्तेषां दुःखाद्यः स पाणमांसोपमः । पुत्रमासन्तु स्नेहपरतया दुःखाद्यतरं स्यादेवं यो दुःखाद्यतरः स पुत्रमांसोपमः । क्रमेण चैते शुभसमाशुभाशुभतरा वेदितव्याः , शेषं सुगमम् ॥ १३३ ॥ अथ चिकित्साश्रयेणाह_ व्रणकर्तृत्वतत्परिमर्शित्वाभ्यां तत्कर्तृत्वतत्संरक्षणाभ्यां तत्कर्तृत्वतसंरोहित्वाभ्याञ्च चतुर्भगश्चिकित्सकानाम् ॥ १३४ ॥ वणकतत्वेति, चिकित्सका द्रव्यतो ज्वरादिरोगान् प्रति, भावतो रागादीन् प्रतीति, तत्रास्मनो ज्वरादेः कामादेर्वा चिकित्सक आत्मचिकित्सक उच्यते तद्भेदा अत्रोक्ता ग्राह्याः। तत्र कश्चित् 20 व्रणं देहे क्षतं स्वयं करोति रुधिरादिनिर्गालनार्थमिति व्रणकरः परं न व्रणं परिमृशति इत्येकः, केचित्त्वन्यकृतं व्रणं परिमृशति न च तत्करोतीति द्वितीयः, अपरः परिमृशति करोति च, इतरस्तु नोभयथा । एवं भावव्रणमतिचारलक्षणं करोति कायेन, न च तदेव पुनः पुनः संस्मरणेन स्पृशति । अन्यस्तु तत्परिमृशत्यभिलाषात् , न च करोति कायतः संसारभयादिभिः । एवमितरौ । व्रणं करोति न च तत्पबन्धादिना संरक्षति कश्चित् , कृतं संरक्षति न च करोत्यन्यः, भावनणन्त्वाश्रित्यातिचारं 25 करोति न च तं सानुबन्धं भवन्तं कुशीलादिसंसर्गतनिदानपरिहारतो रक्षत्येकः, अन्यस्तु पूर्वकृतातिचार निदानपरिहारतो रक्षति नवं च न करोति, एवमन्यौ भाव्यौ । एको अणकर्ता न व्रणरोही नैव व्रणं संरोहयत्यौषधदानादिना, भावव्रणापेक्षया प्रायश्चित्ताप्रतिपत्तेः । अपरो व्रणसरोही पूर्वकृतातिधारप्रायश्चित्तप्रतिपत्त्या, नो प्रणकरोऽपूर्वातिचाराकारित्वादिति ॥ १३४ ॥ सू.मु. २८ 16

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340