Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
૨૧૨ सूत्रार्थमुक्तावल्याम्
[चतुर्थी उपर्युक्तकर्मणां विकृतिभोगाधिक्याद्भावाद्विकृतीराह
क्षीरदधिनवनीतसर्पिस्तैलगुडमधुमद्यमांसानि नवस्रोतःपरिस्रवलक्षणशरीरस्योपचयहेतवो विकृतयः ॥ २०७॥
क्षीरेति, क्षीरं पञ्चधा अजैडकागोमहिष्युष्ट्रीभेदात् , दधिनवनीतघृतानि चतुधैव, उष्ट्रीणां । तदभावात् तैलं चतुर्धा तिलातसीकुसुम्भसर्षपभेदात् , गुडो द्विधा द्रवपिण्डभेदात् , मधु त्रिधा माक्षिककौन्तिकभ्रामरभेदात् , मद्यं द्विधा काष्ठपिष्टभेदात्, मांसं त्रिधा जलस्थलाकाशचरभेदादिति, एतानि नव पुरुषापेक्षया नवभिः स्रोतोभिश्छिद्रैः कर्णनयननासिकास्योपस्थपायुखरूपैः परिस्रवतिमलं क्षरतीति नवस्रोतःपरिस्रवलक्षणं शरीरमौदारिकमेव, तस्योपचयहेतवो विकृतयो विकारकारित्वादिति ॥ २०७॥ 10 एवंविधशरीरेण कदाचित् पुण्यमप्युपादीयत इति तद्भेदानाहअन्नपानवस्त्रगृहसंस्तारकमनोवचःकायनमस्कारपुण्यानि पुण्यभेदाः ॥२०॥
अन्नेति, पात्रायान्नदानाद्यस्तीर्थकरनामादिपुण्यप्रकृतिबन्धस्तदन्नपुण्यमेवं सर्वत्र, मनसा गुणिषु तोषाद्वचसा प्रशंसनात् , कायेन पर्युपासनान्नमस्काराच्च यत्पुण्यं तन्मनःपुण्यादीनि, उक्तञ्च 'अन्नं
पानञ्च वस्त्रञ्च, आलयः शयनासनम् । शुश्रूषा वन्दनं तुष्टिः पुण्यं नवविधं स्मृत' मिति ॥ २०८ ॥ 15 पुण्यविपर्ययरूपस्य पापस्य कारणभूतानि श्रुतान्याह
- उत्पातनिमित्तमनमातङ्गायुर्वेदकलावास्त्वज्ञानमिथ्याप्रवचनानि पापश्रुतानि ॥ २०९॥
उत्पातेति, उत्पात:-प्रकृतिविकाररूपः सहजरुधिरवृष्ट्यादि तत्प्रतिपादनपरं शास्त्रमपि तथा राष्ट्रोत्पातादि, निमित्तं अतीतादिपरिज्ञानोपायं शास्त्रं कूटपर्वतादि, मत्रो मत्रशास्त्रं जीवोद्धरणगारुडादि, 20 मातङ्गविद्या-यदुपदेशादतीतादि कथयन्ति डोण्ड्यो बधिरा इति लोकप्रतीताः, आयुर्वेदश्चिकित्सा
शास्त्रम् , कला-लेखाद्याः गणितप्रधानाः शकुनरुतपर्यवसाना द्वासप्ततिस्तच्छास्त्राण्यपि तथा, वास्तुविद्या-भवनप्रासादनगरादिलक्षणशास्त्रं, अज्ञानं-लौकिकश्रुतं भारतकाव्यनाटकादि, मिथ्याप्रवचनं शाक्यादितीर्थिकशासनमिति, एतच्च सर्वमपि श्रुतं पापोपादानहेतुः संयतेन पुष्टालम्बनेन त्वासेव्यमानमपापश्रुतमेवेति ॥ २०९॥
एतच्छुतावलम्बिनो निपुणा भवन्तीति निपुणपुरुषाभिधानायाह__ संख्याननिमित्तकायिकपुराणप्रकृतिदक्षपरपंडितवादिभूतिकर्मचिकित्सका नैपुणिकाः ॥ २१०॥
संख्यानेति, संख्यानं-गणितं तद्योगात्पुरुषोऽपि तथा, गणितविषये निपुण इत्यर्थः, एवमग्रेऽपि, निमित्तं-चूडामणिप्रभृति, कायिक-शारीरिकमिडापिङ्गलादिप्राणतत्त्वमित्यर्थः, पुराणो वृद्धः 30 स च चिरजीवित्वादृष्टबहुविधव्यतिकरत्वान्नैपुणिकः, शास्त्रविशेषो वा पुराणं तज्ज्ञो निपुणप्रायो

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340