Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
सूत्रार्थमुक्तावल्याम्
[चतुर्थी दनपरं सम्यक्त्वम् , अज्ञानाद्यसारत्यागेन लोकसाररत्नत्रयोद्युक्तेन भाव्यमित्येवमर्थ लोकसारः, धूतं सङ्गानां त्यजनं तत्प्रतिपादकं धूतम् , मोहसमुत्थेषु परीषहोपसर्गेषु प्रादुर्भूतेषु विमोहो भवेत्तान सम्यक् सहेतेति यत्राभिधीयते स विमोहः, महावीरसेवितस्योपधानस्य तपसः प्रतिपादकं श्रुतमुपधानश्रुतमिति, महती परिज्ञा-अन्तक्रियालक्षणा सम्यग्विधेयेति प्रतिपादनपरं महापरिक्षेति नव ब्रह्मचर्याणि, ब्रह्म कुश5 लानुष्ठानं तच्च तश्चर्यमासेव्यञ्च ब्रह्मचर्य-संयमः, तत्प्रतिपादकाध्ययनानि आचारप्रथमश्रुतस्कन्धप्रतिबद्धानि ब्रह्मचर्याणीति ॥ २०३॥
ब्रह्मचर्यशब्देन मैथुनविरतिरप्यभिधीयत इति तद्गुप्तीराह
विविक्तस्थानसेवनस्त्रीकथापरिवर्जनस्त्रीनिषद्यानासेवनमनोहरेन्द्रियाचिन्तनप्रणीतरसाभोजनातिमात्राहारवर्जनपूर्वक्रीडितास्मरणशब्दायननुपा10तित्वसातसुखाप्रतिबद्धत्वानि तद्गुप्तयः॥ २०४ ॥
विविक्तेति, स्त्रीपशुपण्डकेभ्यः पृथग्वर्त्तिनां शयनासनादिस्थानानामासेवको भवति ब्रह्मचारी, अन्यथा तद्वाधासम्भवात् , तस्माद्देवीनार्यादिसमाकीर्णस्थानासेवनं मनोविकारसम्भवान्न कार्यमित्येकं स्थानम् । स्त्रीकथापरिवर्जनम् , केवलानां स्त्रीणां धर्मदेशनादिलक्षणवाक्यप्रबन्धरूपां जातिरूपादिविषयां वा कथां यो न कथयति स ब्रह्मचारीति द्वितीयम् । स्त्रीनिषद्यानासेवनम्-येषु स्थानेषु 16 स्त्रियस्तिष्ठन्ति तत्रैकासने नोपविशेत् , उत्थितास्वपि तासु मुहूर्त यावन्नोपविशेदिति तृतीयम् । मनोहरेन्द्रियाचिन्तनम्-स्त्रीणां नयननासिकादीनि दृष्टमात्रतोऽनुचिन्तनादपि वा मनोहराणि नातिशयेन चिन्तयिता भवेत् किमहो लावण्यं तन्नयनयोरित्येवमिति चतुर्थम्।प्रणीतरसाभोजनम्-न गलस्नेहबिन्दुभोक्ता स्यादिति पञ्चमम् । अतिमात्राहारवर्जनम्-पानभोजनस्य रूक्षस्यापि 'अर्धमशनस्य सव्यञ्जनस्य कुर्या
द्रव्यस्य द्वौ भागौ । वायुप्रविचारणार्थ षष्ठं भागमूनं कुर्यादिति प्रमाणातिक्रमेण नाहारको भवेत् खाद्य20 स्वाद्ययोरुत्सर्गतो यतीनामयोग्यत्वं विज्ञेयमिति षष्ठम् । पूर्वक्रीडितास्मरणम्-गृहस्थावस्थायां कृतस्य स्त्रीसम्भोगाद्यनुभवस्य द्यूतादिरमणस्य च न स्मर्ता भवेदिति सप्तमम् । शब्दाद्यननुपातित्वम्-मर्मभाषितादिकमभिष्वङ्गहेतुं रूपानुपातिनं ख्यात्यनुपातिनं वा न वदेदित्यष्टमम् । सातसुखाप्रतिबद्धत्वं-साताख्यपुण्यप्रकृतेः सकाशाद्यत्सौख्यं गन्धरसस्पर्शलक्षणं विषयसम्पाद्यं तत्परो न भवेत् , उपशमसौख्यप्रतिबद्धत्वस्यात्र निषेध इति नवममित्येवं नव ब्रह्मचर्यस्य मैथुनव्रतस्य गुप्तयो रक्षाप्रकाराः ॥ २०४॥ 25 सम्यग्जीवादिपदार्थविज्ञाने ब्रह्मचर्यस्य निष्पत्तेः पदार्थविभागमाह
जीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षा नव सत्पदार्थाः ॥ २०५॥
जीवेति, सद्भूताः पदार्थाः सत्पदार्थाः पारमार्थिकवस्तूनीत्यर्थः, सुखज्ञानोपयोगलक्षणो जीवः, ज्ञानदर्शनसुखादिपर्यायवानित्यर्थः, तेन सिद्धानामपि सङ्गहः, न तु दशविधप्राणधारी सिद्धे तदभावात् , तद्विपरीतोऽजीवो रूप्यरूपिस्वरूपः, पुद्गला रूपवन्तोऽजीवाः, धर्मादयोऽरूपिणोऽजीवाः । पुण्यं शुभ30 प्रकृतिरूपं कर्म, पापं तद्विपरीतम्, आश्रूयते गृह्यते कर्मानेनेत्याश्रवः शुभाशुभकर्मादानहेतुः । संवरो
गुप्त्यादिभिराश्रवनिरोधः, विपाकात्तपसा वा कर्मणां देशतः क्षपणा निर्जरा, आश्रवगृहीतस्य कर्मण

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340