Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 286
________________ २५९ मुक्ता ] स्थानमुक्तासरिका । इत्यादि । एकार्थिकानां वाऽनुयोगो यथा जीवनात् प्राणधारणाज्जीवः प्राणानामुच्छ्रासादीनामस्तित्वात् प्राणी, सर्वदा भवनाद्भूतः, सर्वदा सत्त्वात्सत्त्व इत्यादि । क्रियत एभिरिति करणानि तेषामनुयोगः करणानुयोगः, तथा हि- जीवद्रव्यस्य कर्त्तुर्विचित्रक्रियासु साधकतमानि कालस्वभावनियतिपूर्वकृतानि, नैकाकी जीवः किञ्चन कर्त्तुमलमिति । मृद्रव्यं वा कुलालचक्रचीवरदण्डादिकं कारणकलापमन्तरेण न घटलक्षणं कार्यं प्रति घटत इति तस्य तानि करणानीति द्रव्यस्य करणानुयोगः । द्रव्यं 5 ह्यर्पितं विशेषितं यथा जीवद्रव्यं किंविधं ? संसारीति, संसार्यपि सरूपं तदपि पञ्चेन्द्रियं तदपि नररूपमित्यादि, अनर्पितमविशेषितमेत्र, यथा जीवद्रव्यमिति ततश्चार्पितञ्च तदनर्पितश्चेत्यर्पितानर्पितं द्रव्यं भवतीति द्रव्यानुयोगः । तथा भावितं - वासितं द्रव्यान्तरसंसर्गतः, अभावितमन्यथैव । यथा जीवद्रव्यं भावितं किञ्चित्, तच्च प्रशस्तभावितमितरभावितञ्च, प्रशस्तभावितं संविग्नभावितमप्रशस्तभावितमितरभावितम् । तद्विविधमपि वामनीयमवामनीयञ्च तत्र वामनीयं यत्संसर्गजं गुणं दोषं वा 10 संसर्गान्तरेण वमति, अवामनीयन्त्वन्यथा, अभावितं त्वसंसर्गप्राप्तं प्राप्तसंसर्गं वा वस्त्रतन्दुलकल्पं न वासयितुं शक्यमिति, एवं घटादिकं द्रव्यमपि ततश्च भावितं चाभावितञ्च भाविताभावितमेवंभूतो विचारो द्रव्यानुयोग इति । बाह्याबाह्यम्, तत्र जीवद्रव्यं बाह्यं चैतन्यधर्मेणाकाशास्तिकायादिभ्यो विलक्षणत्वात् तदेवाबाह्यममूर्त्तत्वादिना धर्मेणामूर्त्तत्वादुभयेषामपि चैतन्येन वाऽबाह्यं जीवास्तिकायात्, चैतन्यलक्षणत्वादुभयोरपि, अथवा घटादिद्रव्यं बाह्यं कर्मचैतन्यादित्वबाह्यमा- 15 ध्यात्मिकमिति यावत्, एवमन्यो द्रव्यानुयोगः । शाश्वताशाश्वतम् तत्र जीवद्रव्यमनादिनिधन - त्वाच्छाश्वतम्, तदेवापरापरपर्यायप्राप्तितोऽशाश्वतमित्येवमन्यो द्रव्यानुयोगः । यथा वस्तु तथा ज्ञानं यस्य तत्तथाज्ञानं सम्यग्दृष्टि जीवद्रव्यं तस्यैवावितथज्ञानत्वात्, अथवा यथा तद्वस्तु तथैव ज्ञानमवबोधः प्रतीतिर्यस्मिंस्तत्तथाज्ञानं घटादिद्रव्यं घटादितयैव प्रतिभासमानं जैनाभ्युपगतं वा परिणामि परिणामितयैव प्रतिभासमानमित्येवमन्यो द्रव्यानुयोगः । अतथाज्ञानं मिध्यादृष्टिजीवद्रव्यमलातद्रव्यं 20 वा वक्रतयाऽवभासमानमेकान्तवाद्यभ्युपगतं वा वस्तु, तथाहि एकान्तेन नित्यमनित्यं वा वस्तु तैर - भ्युपगतं प्रतिभाति च तत्परिणामितयेति तदतथाज्ञानमित्येवमन्यो द्रव्यानुयोग इति ॥ २२२ ॥ अथाज्ञानप्रस्तावान्मिथ्यात्वमाह - धर्माधर्ममार्गामार्ग जीवाजीव साध्वसाधुमुक्तामुक्तेषु विपर्ययसंज्ञा मिथ्यात्वम् ॥ २२३ ॥ धर्मेति, धर्मे - कषच्छेदादिशुद्धे सम्यक्श्रुते आप्तवचनलक्षणेऽधर्मसंज्ञा सर्व एव पुरुषा रागादिमन्तोऽसर्वज्ञाश्च पुरुषत्वादहमिवेत्यादि प्रमाणतोऽनाप्ताः तदभावान्नेतदुपादिष्टं शास्त्रं धर्म इत्यादिकुविकल्पवशादन।गमबुद्धिरिति । अधर्मे श्रुतलक्षणविहीनत्वादनागमेऽपौरुषेयादौ धर्मसंज्ञा आगमबुद्धिर्मिध्यात्वं विपर्यस्तत्वादिति । मार्गेऽमार्गसंज्ञेति प्रतीतम् । अमार्गे निर्वृतिपुरीं प्रति अनध्वनि वस्तुतत्त्वापेक्षया विपरीतश्रद्धानज्ञानानुष्ठानरूपे मार्गसंज्ञा - कुवासनातो मार्गबुद्धिरिति । जीवेषु 30 पृथिव्यादिष्वजीवसंज्ञा यथा न भवन्ति पृथिव्यादयो जीवा उच्छासादीनां प्राणिधर्माणामनुपलम्भात्, 25

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340