Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
मुक्ता]
स्थानमुक्तासरिका। सोऽयं धर्मः स्थविरैः कृतो भवतीति तानाह
ग्रामनगरराष्ट्रप्रशास्तृकुलगणसंघजातिश्रुतपर्यायसम्बन्धिनः स्थविराः॥ २३६ ॥
- ग्रामेति, दुर्व्यवस्थितं जनं सन्मार्गे स्थापयन्ति-स्थिरीकुर्वन्तीति स्थविराः तत्र ये प्रामनगरराष्ट्रेषु व्यवस्थाकारिणो बुद्धिमन्त आदेयाः प्रभविष्णवस्ते तत्तत्स्थविराः, प्रशासति शिक्षयन्ति ये ते । प्रशास्तारः-धर्मोपदेशकाः, ते च स्थविराः । कुलस्य गणस्य संघस्य च लौकिकस्य लोकोत्तरस्य च ये व्यवस्थाकारिणः तद्भश्च निग्राहकाः स्थविरास्ते तथा । षष्टिवर्षप्रमाणजन्मपर्याया जातिस्थविराः । समवायाद्यङ्गधारिणः श्रुतस्थविराः विंशतिवर्षप्रमाणप्रव्रज्यापर्यायवन्तः पर्यायस्थविरा इति ॥ २३६ ॥
प्रामस्थविरादयः संसारिण इति तत्पर्यायविशेषानाह
- बालक्रीडामन्दबलप्रज्ञाहायनीप्रपञ्चाप्राग्भारामुमुखीशायनीभेदा-10 दशा ॥ २३७॥
बालेति, यत्र काले मनुष्याणां वर्षशतमायुः स कालो वर्षशतायुष्कः, तत्र यः पुरुषः सोऽप्युपचाराद्वर्षशतायुष्को मुख्यवृत्त्या वर्षशतायुषि पुरुषे गृह्यमाणे पूर्वकोट्यायुष्कपुरुषकाले वर्षशतायुषः पुरुषस्य कस्यचित्कुमारत्वेऽपि बालादिदशादशकसमाप्तिः स्यात् , न चैवम् , ततः उपचार एव युक्तः, वर्षदशकप्रमाणाः कालकृता अवस्था दशा, वर्षशतायुग्रहणं विशिष्टतरदशस्थानकानुरोधात् , विशिष्ट-15 तरत्वञ्च वर्षदशकप्रमाणत्वात् , अन्यथा पूर्वकोट्यायुषोऽपि बालाद्या दशावस्था भवन्त्येव, केवलं दशवर्षप्रमाणा न भवन्ति, बहुवर्षा वा अल्पवर्षा वा स्युरिति । तत्र बालस्येयमवस्था धर्मधर्मिणोरभेदाद्वाला जातमात्रस्य जन्तोः प्रथमा दशा सुखदुःखानामत्यन्तविज्ञानाभावात् । क्रीडाप्रधाना दशा क्रीडा द्वितीया कामभोगेषु तीव्रमत्यनुदयात् । विशिष्टबलबुद्धिकार्योपदर्शनासमर्थो भोगानुभूतावेव च समर्थो यस्यामवस्थायां सा मन्दा तृतीया भोगोपार्जने मन्दत्वात् । यस्यां पुरुषस्य बलं भवति सा बलयोगा-20 दूला चतुर्थी बलदर्शनसामर्थ्यात् । ईप्सितार्थसम्पादनविषयायाः कुटुम्बाभिवृद्धिविषयाया वा बुद्धेर्योगादशापि प्रज्ञा पञ्चमी, हापयति-इन्द्रियाण्यपटूनि करोति यस्यां दशायां सा हायनी षष्ठी, कामेषु विरजनादिन्द्रियाणां क्षीणशक्तित्वाच्च । प्रपश्चयति-स्रंसयत्यारोग्यादिति प्रपञ्चा सप्तमी रोगजालोद्भूतः, प्राग्भारं ईषदवनतं गात्रं यस्यां भवति सा प्राम्भारा अष्टमी संकुचितवलिचर्मत्वात् , मोचनं-मुक् जराराक्षसीसमाकान्तशरीरगृहस्य जीवस्य मुचं प्रति मुखं यस्यां सा मुमुखी नवमी, शाययति-निद्रावन्तं करोति 25 यस्यां सा शायनी दशमी हीनभिन्नखरत्वाद्दीनत्वाहुर्बलत्वाञ्चेति ॥ २३७ ॥
अथ मङ्गलरूपं भगवन्तं महावीरं विघ्नविघाताय स्मरन् दशाऽऽश्चर्याण्याह
उपसर्गगर्भहरणस्त्रीतीर्थाभव्यपर्षत्कृष्णावरकंकागमनचन्द्रसूर्यावतरणहरिवंशकुलोत्पत्तिचमरोत्पाताष्टशतसिद्धासंयतपूजा आश्चर्याणि ॥ २३८ ॥

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340