Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 291
________________ २६४ सूत्रार्थमुक्तावल्याम् [चतुर्थी अनुकम्पासहभयकारुण्यलज्जागौरवाधर्मधर्मविषयं करिष्यति कृतमिति बुद्धिविषयञ्च दानम् ॥ २३० ॥ अनुकम्पति, अनुकम्पा-कृपा तया दानं दीनानाथविषयमनुकम्पादानम् , अनुकम्पातो यहानं तदनुकम्पैव, उपचारात्, उक्तञ्च 'कृपणेऽनाथदरिद्रे व्यसनप्राप्ते च रोगशोकहते । यहीयते कृपार्थ5 मनुकम्पा तद्भवेद्दानम्' इति । सङ्ग्रहणं सङ्ग्रहः-व्यसनादौ सहायकरणं तदर्थं दानं संग्रहदानम् , यद्वा अभेदादानमपि संग्रह उच्यते, आह च 'अभ्युदये व्यसने वा यत्किश्चिद्दीयते सहायार्थम् । तत्सङ्ग्रहतोऽभिमतं मुनिभिर्दानं न मोक्षाय ॥' इति, भयाद्यदानं तद्भयदानम् , भयनिमित्ताद्वा दानमपि भयमुपचारात् , उक्तश्च 'राजारक्षपुरोहितमधुमुखमावल्लदण्डपाशिषु च । यद्दीयते भयार्थात्तद्भयदानं बुधै ज्ञेयम् ॥' इति, कारुण्यं-शोकस्तेन पुत्रवियोगादिजनितेन तदीयस्यापि तल्पादेः स जन्मान्तरे सुखितो 10 भवत्विति वासनातोऽन्यस्य वा यदानं तत्कारुण्यदानं कारुण्यजन्यत्वाद्वा दानमपि कारुण्यमुपचारात्, लज्जया ह्रिया दानं यत्तल्लज्जादानम् , उक्तश्च 'अभ्यर्थितः परेण तु यद्दानं जनसमूहमध्यगतः । परचित्तरक्षणार्थ लज्जायास्तद्भवेद्दानम् ॥' इति । गौरवेण-गर्वेण यद्दीयते तद्गौरवदानम् , उक्तश्च 'नटनतमुष्टिकेभ्यो दानं सम्बन्धिबन्धुमित्रेभ्यः । यद्दीयते यशोऽथ गर्वेण तु तद्भवेदानम् ॥' इति, अधर्मपोषकं दानमधर्मदानम्, अधर्मकारणाद्वाऽधर्म एवेति, उक्तश्च 'हिंसानृतचौर्योद्यतपरदारपरिग्रहप्रस16 क्तेभ्यः । यद्दीयते हि तेषां तज्जानीयादधर्माय ॥' इति, धर्मकारणं यत्तद्धर्मदानं धर्मे एव वा, उक्तश्च 'समतृणमणिमुक्तेभ्यो यद्दानं दीयते सुपात्रेभ्यः । अक्षयमतुलमनन्तं तदानं भवति धर्माय ॥' इति, करिष्यति कञ्चनोपकारं ममायमिति बुद्ध्या यद्दानं तत्करिष्यतीति दानमुच्यते । कृतं ममानेन तत्प्रयोजनमिति तत्प्रत्युपकारार्थं यदानं तत्कृतमिति, उक्तश्च 'शतशः कृतोपकारं दत्तश्च सहस्रशो ममानेन । अहमपि ददामि किञ्चित्प्रत्युपकाराय तद्दानम् ॥' इति ॥ २३०॥ . 20 दानधर्मेऽपि संस्थितत्वात् प्रत्याख्यानधर्ममाह अनागतातिकान्तकोटीसहितनियंत्रितसाकारानाकारपरिमाणकृतनिरवशेषसंकेतकाद्वारूपं प्रत्याख्यानम् ॥ २३१ ॥ अनागतेति, प्रत्याख्यानं निवृत्तिरित्यर्थः, अनागतकरणादनागतं-पर्युषणादावाचार्यादिवैयावृत्त्यकरणान्तरायसद्भावादारत एव तत्तपःकरणम् । अतिक्रान्तं अतीते पर्युषणादौ करणात् । कोटीभ्यां 25 एकस्य चतुर्थादेरन्तविभागोऽपरस्य चतुर्थादेरेवारम्भविभाग इत्येवं लक्षणाभ्यां सहितं-युक्तं कोटीस. हितं मिलितोभयप्रत्याख्यानकोटेश्चतुर्थादेः करणमित्यर्थः । नितरां यंत्रितं नियंत्रितं-प्रतिज्ञातदिनादौ ग्लानत्वाद्यन्तरायभावेऽपि नियमात् कर्त्तव्यमिति हृदयम् , एतच्च प्रथमसंहननमेवेति । आक्रियन्त इत्याकाराः प्रत्याख्यानापवादहेतवोऽनाभोगाद्याः, तैः सहितम् । अविद्यमाना आकारा:-महसरादयो विप्रयोजनत्वात् प्रतिपत्तुर्यस्मिंस्तदनाकारम् , तत्राप्यनाभोगसहसाकारावाकारौ स्याताम्, मुखेऽङ्गु30 ल्यादिप्रक्षेपसम्भवात् । परिमाणं संख्यानं दत्तिकवलगृहभिक्षादीनां कृतं यस्मिंस्तत्परिमाणकृतम् । निर्गतमवशेषमपि अल्पाल्पमशनाद्याहारजातं यस्मात्तन्निरवशेषं निरवशेषं वा सर्वमशनादि तद्विषय

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340