Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
मुक्ता] स्थानमुक्तासरिका।
२६१ शरीरादिविषये मूर्छा तया उपघातः परिग्रहविरतेरिति संरक्षणोपघातः । विशुद्धिश्च-भक्तादेर्निरवद्यता उद्गमादिविशुद्धिः, परिकर्मणा वसत्यादिसारवणलक्षणेन क्रियमाणेन विशुद्धिर्या संयमस्य सा परिकर्मविशुद्धिः परिहरणया-वस्त्रादेः शास्त्रीययाऽऽसेवनया विशुद्धिः परिहरणाविशुद्धिः ज्ञानादित्रयविशुद्धयस्तदाचारपरिपालनातः, अप्रीतिकस्य विशोधिस्तन्निवर्तनात् , संरक्षणं संयमार्थमुपध्यादेस्तेन विशुद्धिश्चारित्रस्येति संरक्षणविशुद्धिरिति ॥ २२५ ॥ एवंविधविशुद्धियुतः सत्यमेव भाषत इति तन्निरूपयति
जनपदसम्मतस्थापनानामरूपप्रतीत्यव्यवहारभावयोगौपम्यविषयं सत्यम् ॥ २२६ ॥
जनपदेति, सन्तः प्राणिनः पदार्था मुनयो वा तेभ्यो हितं सत्यं दशविधम् , यथा-सत्यपदं सर्वत्र सम्बन्धनीयम् , जनपदेषु-देशेषु यद्यदर्थवाचकतया रूढं देशान्तरेऽपि तत्तदर्थवाचकतया 10 प्रयुज्यमानं सत्यमवितथमिति जनपदसत्यम् , यथा कोकणादिषु पयःपिच्चं नीरमुदकमित्यादि, सत्यत्वश्वास्यादुष्टविवक्षाहेतुत्वान्नानाजनपदेष्विष्टार्थप्रतिपत्तिजनकत्वाद्व्यवहारप्रवृत्तः, एवमन्यत्रापि भावना कार्या । सम्मतसत्यं कुमुदकुवलयोत्पलतामरसानां समाने पङ्कसमुद्भवे गोपालादीनामपि सम्मतमरविन्दमेव पङ्कजमिति, अतस्तत्र सम्मततया पङ्कजशब्दः सत्यः कुवलयादावसत्यः असम्मतत्वात् । स्थाप्यत इति स्थापना यल्लेप्यादिकाईदादिविकल्पेन स्थाप्यते तद्विषये सत्यं स्थापनासत्यम् , यथाऽजि- 15 नोऽपि जिनोऽयमनाचार्योऽप्याचार्योऽयमिति, नामसत्यं यथा कुलमवर्द्धयन्नपि कुलवर्द्धन उच्यते । रूपसत्यं यथा प्रपञ्चयतिः प्रव्रजितरूपं धारयन् प्रव्रजित उच्यते न चासत्यताऽस्येति । प्रतीत्यसत्यं-वस्त्वन्तरमाश्रित्य सत्यम् , यथाऽनामिकाया दीर्घत्वं ह्रखत्वञ्चेति, तथा ह्यनन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसन्निधाने तत्तद्रूपमभिव्यज्यत इति सत्यता । व्यवहारसत्यता-यथा दह्यते गिरिः गलति भाजनमित्यादि, अयं च गिरिगततृणादिदाहे व्यवहारः प्रवर्तते, उदके च गलति सतीति । भावसत्यं 20 भूयिष्ठशुक्लादिपर्यायमाश्रित्य शुक्ला बलाकेति, सत्यपि हि पञ्चवर्णसम्भवे शुक्लवर्णोत्कटत्वात् शुक्लेति । योगसत्यं-सम्बन्धतो यथा दण्डयोगाद्दण्डी, छत्रयोगाच्छत्री एवोच्यते । औपम्यसत्यं-उपमेवौपम्यं तेन सत्यं यथा समुद्रवत्तडागं देवोऽयं सिंहस्त्वमिति ॥ २२६ ॥
सत्यविपक्षं मृषां मिश्रश्चाह. क्रोधमायालोभप्रेमद्वेषहासभयाख्यायिकोपघाताश्रिता मृषा, उत्पन्न- 25 विगतमिश्रजीवाजीवमिश्रानन्तपरीत्ताद्धाद्धाद्धा विषया मिश्रा भाषा ॥२२७॥
क्रोति, क्रोधविषया भाषा मृषा, यथा क्रोधाभिभूतोऽदासमपि दासमभिधत्ते, मानविषया यथा मानाध्मातः कश्चित् केनचिदल्पधनोऽपि पृष्टः सन्नाह-महाधनोऽहमिति, मायाविषया यथा मायाकारप्रभृतय आहुः-नष्टो गोलक इति, लोभाश्रयेण यथा वणिक्प्रभृतीनामन्यथा क्रीतमेवेत्थं क्रीतमित्यादि, प्रेमाश्रयेण यथा अतिरक्तानां दासोऽहं तवेत्यादि, द्वेषनिश्रितं यथा-मत्सरिणां गुणव- 30 यपि निर्गुणोऽयमित्यादि, हासविषया यथा कन्दर्पिकाणां कस्मिंश्चित्कस्यचित्सम्बन्धिनि गृहीते पृष्टानां

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340